च.शा.१.०५३-०६५
५३संपादित करें
प्रभवो न ह्यनादित्वाद्विद्यते परमात्मनः।पुरुषो राशिसञ्ज्ञस्तु मोहेच्छाद्वेषकर्मजः॥५३॥
पदच्छेदः-
प्रभवः न हि अनादित्वात् विद्यते परमात्मनः।पुरुषः राशिसञ्ज्ञः तु मोह-इच्छा-द्वेष-कर्मजः॥५३॥
अन्वयः-
परमात्मनः अनादित्वात् प्रभवः न हि विद्यते ।राशिसञ्ज्ञः पुरुषः तु मोह-इच्छा-द्वेष-कर्मजः॥५३॥
सरलार्थः-
परमात्मा (चेतनाधातुः) अनादिः अस्ति अतः पुरुषस्य कारणं नास्ति।राशिसंज्ञकः पुरुषः (षड्धातुकः तथा चतुर्विंशतिकः) तु मोहेच्छाद्वेषकर्मभ्यः उत्पद्यते।
आयुर्वेददीपिका
‘प्रभवः पुरुषस्य कः’ इति अस्य उत्तरं प्रभवः इत्यादि।प्रभवः कारणम्। राशिसञ्ज्ञः इति षड्धातुसमुदायरूपः चतुर्विंशतिराशिरूपः वा। मोह-इच्छा-द्वेष-जनित-कर्मजः मोहेच्छाद्वेषकर्मजः। मोहात् हि भावेषु इच्छा द्वेषः च भवति, ततः प्रवृत्तिः, प्रवृत्तेः धर्म-अधर्मौ, तौ च शरीरं जनयतः भोगार्थम्॥५३॥
अरुन्धतीपद्धतिः –
‘पुरुषः कारणं कस्मात्’ इति प्रश्नाद् अनन्तरं क्रमागतः प्रश्नः ‘प्रभवः पुरुषस्य कः ?’ इति। प्रभवशब्दस्य अर्थः भवति कारणम्।पुरुषस्य कारणं किम्? इति प्रश्नस्य अर्थः।कतिधा पुरुषः इति प्रश्नस्य उत्तरे त्रिविधः पुरुषः उक्तः।चेतनाधातुरूपः पुरुषः उक्तः।षड्धातुकः पुरुषः उक्तः। चतुर्विंशतिकः पुरुषः अपि उक्तः।षड्धातुकः पुरुषः तथा चतुर्विंशतिकः पुरुषः इति द्वौ अपि राशिस्वरूपौ।चेतनाधातुः तु राशिस्वरूपः नास्ति।राशिरूपः तथा केवलः इति पुरुषस्य द्विविधं स्वरूपं पूर्वम् उक्तम्।अतः तदनुरोधेन ‘पुरुषः कस्मात् कारणात् जायते’ इति प्रश्नस्य उत्तरम् अपि द्विविधं भवति।
परमात्मा (चेतनाधातुः) अनादिः अस्ति अतः तादृशस्य पुरुषस्य कारणं नास्ति।एतदेकम् उत्तरम्।
राशिसंज्ञकः पुरुषः (षड्धातुकः तथा चतुर्विंशतिकः) तु मोहेच्छाद्वेषकर्मभ्यः उत्पद्यते।एतद् द्वितीयम् उत्तरम्।
सूत्रे मोहेच्छाद्वेषकर्मजः इति पदम् अस्ति।तत् स्पष्टीकरोति चक्रपाणिः मोहेच्छाद्वेष-जनितकर्मज इत्यादिना।मोहेच्छाद्वेषकर्माणि इति कार्यकारणशृङ्खला अस्ति।मोहः अज्ञानम्। अहं ‘प्रकृतेः भिन्नः, केवलः पुरुषः अस्मि’ इति ज्ञानम्।‘अहं मनुष्यः’ , ‘अहं सुखी’ ‘अहं दुःखी’ इत्यादि सर्वम् अज्ञानम्। आत्मनः स्वस्य विषये एतद् अज्ञानम् एव मोहशब्देन उच्यते।
एतस्मात् मोहात् इच्छाद्वेषौ जायेते।इच्छातः अथवा द्वेषतः आत्मा कर्म करोति।तत् कर्म क्वचित् शुभम् अस्ति, क्वचित् अशुभम् अस्ति।एतेषां कर्मणां फलं तेन अवश्यं भोक्तव्यम्। भोगाः भोक्तव्याः चेत् तदर्थं शरीरम् आवश्यकम्।अतः आत्मा भोगार्थं शरीरं प्राप्नोति।सशरीरः आत्मा एव षड्धातुकः वा चतुर्विंशतिकः पुरुषः इति उच्यते।
अस्य सूत्रस्य आशयः स्मृतौ अपि दृश्यते –
अनादिरात्मा सम्भूतिर्विद्यते नान्तरात्मनः।समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः॥
-याज्ञवल्यस्मृतिः यतिधर्मप्रकरणम्१२५
५४-५५संपादित करें
आत्मा ज्ञः करणैर्योगाज् ज्ञानं त्वस्य प्रवर्तते।करणानामवैमल्यादयोगाद्वा न वर्तते॥५४॥
पश्यतोऽपि यथाऽऽदर्शे सङ्क्लिष्टे नास्ति दर्शनम्।तत्त्वं जले वा कलुषे चेतस्युपहते तथा॥५५॥
पदच्छेदः-
आत्मा ज्ञः करणैः योगात् ज्ञानं तु अस्य प्रवर्तते।करणानाम् अवैमल्यात् अयोगात् वा न वर्तते॥५४॥
पश्यतः अपि यथा आदर्शे सङ्क्लिष्टे न अस्ति दर्शनम्।तत्त्वं जले वा कलुषे चेतसि उपहते तथा॥५५॥
अन्वयः-
आत्मा ज्ञः ।अस्य ज्ञानं तु करणैः योगात् प्रवर्तते।करणानाम् अवैमल्यात् अयोगात् वा (अस्य ज्ञानं) न वर्तते॥५४॥यथा सङ्क्लिष्टे आदर्शे , कलुषे जले वा पश्यतः अपि (जनस्य) तत्त्वं दर्शनं न अस्ति ।तथा चेतसि उपहते (तत्त्वं दर्शनं न भवति)॥५५॥
सरलार्थः-
आत्मा ज्ञः।तथापि तस्य ज्ञानं करणानां साहाय्येन प्रवर्तते।यदि करणानि न उपस्थितानि तर्हि ज्ञानं न भवति।यदि करणानि न विमलानि तदापि ज्ञानं न भवति।यदि कश्चित् मनुष्यः धूमले दर्पणे अथवा कलुषिते जले पश्यति, तर्हि दर्शनं यथावस्तु न भवति।तथा यदि चित्तम् आहतं भवति तर्हि ज्ञानं यथावस्तु न भवति।
आयुर्वेददीपिका
‘किमज्ञो ज्ञः’ इति अस्य उत्तरम् आत्मेत्यादि।करणानि इह मनोबुद्धीन्द्रियाणि। न वर्तते ज्ञानम् इति योजना। ननु यदि अयम् आत्मा ज्ञः , तत् किमिति अस्य सर्वदा ज्ञानं न भवति इति आह पश्यतः अपि इत्यादि।पश्यतः अपि इति चक्षुष्मतः अपि इति अर्थः। तत्त्वम् इति दर्शनविशेषणम्। तेन, म्लाने दर्पणे जले वा दर्शनं भवद् अपि अयथार्थग्राहितया न तत्त्वरूपं भवति इति अर्थः। चेतसि इति उपलक्षणं, तेन चक्षुरादौ अपि उपहते इति ज्ञेयम्॥५४,५५॥
अरुन्धतीपद्धतिः –
आत्मा सज्ञानः अथवा अज्ञानः इति प्रश्नस्य उत्तरम् इदानीम् उच्यते पुनर्वसुना।
सूत्रे करणशब्दः अस्ति।तस्य अर्थं ब्रूते चक्रपाणिः मनोबुद्धीन्द्रियाणि इति।अयमर्थः तेन अनागतावेक्षणतन्त्रयुक्त्या लब्धः।अग्रिमे सूत्रे करणशब्देन किम् अभिप्रेतम् इति सूत्रकारेण स्वयमुक्तम्।तत्र मनः बुद्धिः ज्ञानेन्द्रियाणि तथा कर्मेन्द्रियाणि करणशब्देन उक्तानि।ततः अयम् अर्थः लब्धः।आत्मा ज्ञः अस्ति न वा इति प्रश्नस्य अधिकरणम् इदम्।अतः अधिकरणतन्त्रयुक्त्या इन्द्रियशब्देन अत्र ज्ञानेन्द्रियाणि एव ग्राह्याणि न कर्मेन्द्रियाणि।
सूत्रे ‘न वर्तते’ इति क्रियापदम् अस्ति।तस्य कर्ता कः? प्रथमान्त-पदस्य कर्तृत्वेन अन्वयः सम्भवति।आत्मा इति प्रथमान्तं पदं विद्यते तथा ज्ञानम् इति अपि प्रथमान्तं पदं वर्तते।आत्मपदस्य क्रियापदेन अन्वयः कृतः चेत् ‘आत्मा ज्ञः न वर्तते’ इति वाक्ययोजना भवति।ततः निष्पन्नः अर्थः यद्यपि व्याकरणदृष्ट्या स्वीकार्यः तथापि आयुर्वेदशास्त्रविरुद्धः। ज्ञान-पदेन क्रियापदस्य अन्वयः कृतः चेत् ‘ज्ञानं न वर्तते’ इति वाक्ययोजना भवति।ततः निष्पन्नः अर्थः व्याकरणसङ्गतः अपि आयुर्वेदशास्त्रसङ्गतः अपि।अतः ज्ञानपदेन क्रियापदस्य अन्वयः करणीयः इति चक्रपाणिः सूचयति।तेन अत्र योगतन्त्रयुक्तेः आधारः स्वीकृतः।
यदि आत्मा ज्ञः तर्हि सर्वदा तस्य ज्ञानं न भवति इति कथम् इति आशङ्का जायते।तस्याः उत्तरं सूत्रे दत्तं ‘करणानाम् अवैमल्यात् तथा अयोगात् पुरुषस्य ज्ञानं सर्वदा न वर्तते’ इति।एतत् विशदयितुं सूत्रे ‘पश्यतः अपि’ इति शब्दप्रयोगः कृतः।
पश्यतोऽपि इति विशेषणम् ।तस्य विशेष्यं सूत्रे नास्ति। वाक्यशेषतन्त्रयुक्त्या ‘पुरुषस्य’ इति विशेष्यं तत्र ग्राह्यम्।पश्यतोऽपि पुरुषस्य इत्युक्ते यः चक्षुष्मान् अस्ति तस्य, यस्य द्रष्टुं सामर्थ्यं विद्यते,तस्य। यदि दर्पणः मलिनः अस्ति तर्हि दर्शनसमर्थस्य जनस्य अपि रूपज्ञानं सम्यङ् न भवति तथा यदि ज्ञानस्य करणानि कलुषितानि सन्ति तर्हि ज्ञस्य अपि पुरुषस्य ज्ञानं न भवति इति आशयः।
ननु कलुषिते अपि जले कलुषितं दर्शनं भवति एव।न भवति इति कथं वदति सूत्रकारः?अस्य आक्षेपस्य समाधानार्थं सूत्रे ‘तत्त्वम्’ इति दर्शनस्य विशेषणं योजितम्।तत्त्वं दर्शनं नाम यथावस्तु दर्शनम्।तादृशं तत्त्वभूतं दर्शनं न मलिने जले भवति, न वा धूसरे दर्पणे भवति। अतः न कोऽपि दोषः।
चेतसि इति पदं सूत्रे विद्यते।चेतःशब्दः अन्येषां चक्षुरादीनां करणानाम् अपि उपलक्षणम् अस्ति इति चक्रपाणिः ब्रूते।
उपलक्षणम् इति अजहत्स्वार्थलक्षणायुक्तः शब्दः।यथा ‘काकेभ्यः दधि रक्ष्यताम्’ इत्यत्र काकशब्देन केवलं खगविशेषः नाभिप्रेतः।यस्मात् यस्मात् दधिनाशः सम्भवति, सः सः अत्र काकशब्देन अभिप्रेतः।अतः काकशब्देन कुक्कुरः, मार्जारः इत्यादीनाम् अपि बोधः भवति।काकशब्दः अत्र अन्येषाम् अर्थानाम् उपलक्षणं भवति।
‘’’स्वस्य स्वान्यस्य च अजहत्स्वार्थया लक्षणया बोधके शब्दः उपलक्षणम्’’’ इति वाचस्पत्यकोशः।
प्रकृते चेतःशब्दः अन्येषां करणानाम् उपलक्षणम् अस्ति।चक्षुरादीनि ज्ञानेन्द्रियाणि इति चेतःशब्दस्य मुख्यार्थः नास्ति।तथापि अजहस्वार्थलक्षणया सः अर्थः ग्राह्यः।यदि तथा न क्रियते तर्हि ‘चित्ते उपहते सम्यक् ज्ञानं न भवति’ इति एतावान् अर्थः ज्ञायते।कस्मिन् अपि करणे उपहते सम्यक् ज्ञानं न भवति’ इति अर्थः अभिप्रेतः इति प्रकरणतन्त्रयुक्त्या ज्ञायते।चेतःपदस्य लक्ष्यार्थः स्वीकृतः चेत् अभिप्रेतः अर्थः बुद्ध्यते, नान्यथा।एवम् अत्र वाक्यार्थस्य बोधाय पदार्थतन्त्रयुक्तिः प्रयुक्ता चक्रपाणिना।
आत्मा ज्ञः अस्ति चेत् तस्य सर्वदा ज्ञानं किमिति न भवति इति प्रश्नस्य उत्तरमत्र मलिनादर्शस्य दृष्टान्तेन उक्तम्।आत्मा ज्ञः अस्ति चेत् पूर्वजन्मानुभवान् किमर्थं न जानाति इति प्रश्नस्य उत्तरं याज्ञवल्केन अपि एतदेव उक्तम् –
मलिनो हि यथादर्शो रूपालोकस्य न क्षमः।तथाविपक्वकरण आत्माज्ञानस्य न क्षमः॥याज्ञ.स्मृतिः यतिधर्मप्र.१४१
५६-५७संपादित करें
करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च।कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च ।५६।
नैकः प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्।संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन ।५७।
पदच्छेदः-
करणानि मनः बुद्धिः बुद्धि-कर्म-इन्द्रियाणि च।कर्तुः संयोगजं कर्म वेदना बुद्धिः एव च ।५६।
न एकः प्रवर्तते कर्तुं भूतात्मा न अश्नुते फलम्।संयोगात् वर्तते सर्वं तम् ऋते न अस्ति किञ्चन ।५७।
अन्वयः-
मनः, बुद्धिः, बुद्धि-कर्म-इन्द्रियाणि, च करणानि ।कर्तुः संयोगजं कर्म वेदना बुद्धिः एव च ।५६।
एकः भूतात्मा कर्तुं न प्रवर्तते, एकः भूतात्मा फलं न अश्नुते ।सर्वं संयोगात् वर्तते। तम् (संयोगम्) ऋते किञ्चन न अस्ति ।५७।
सरलार्थः-
मनः, बुद्धिः, ज्ञानेन्द्रियाणि तथा कर्मेन्द्रियाणि इति एतानि आत्मनः करणानि भवन्ति। कर्तुः करणैः सह संयोगात् कर्म वेदना तथा ज्ञानं जायते।एकः भूतात्मा कर्म न करोति, एकः भूतात्मा फलं न उपभुङ्क्ते।सर्वं संयोगात् भवति, तं विना किमपि न भवति।
आयुर्वेददीपिका
करणप्रस्तावात् ज्ञाने कर्मणि वेदनायां च यावत् करणम् आत्मनः तद् आह करणानि इत्यादि। संयोगजम् इति कर्मणा वेदनया बुद्ध्या च योज्यम्।न अश्नुते फलम् एकः इति योज्यम्।एकः इति निष्करणः।संयोगाद् वर्तते इति करणसमुदायाद् उत्पद्यते।तम् ऋते इति संयोगं विना॥५६-५७॥
अरुन्धतीपद्धतिः –
कर्ता आत्मा।सः बाह्यविषयान् जानाति, सुखदुःखादीन् आभ्यन्तरविषयान् जानाति, तथा कर्म करोति।बाह्यैः चक्षुरादिभिः करणैः सः बाह्यविषयान् जानाति।अन्तःकरणेन सुखदुःखादीन् आभ्यन्तरविषयान् सः जानाति।कर्मेन्द्रियैः सः कर्म करोति।तदेव वदति चक्रपाणिः संयोगजम् इति विशेषणस्य अन्वयः कर्मपदेन सह, वेदनापदेन सह तथा बुद्धिपदेन सह करणीयः।एषा योगतन्त्रयुक्तिः।यदि एतां योगतन्त्रयुक्तिं न अवलम्बामहे तर्हि
‘कर्तुः करणैः सह संयोगात् कर्म जायते’
इति एतावान् एव अर्थः बुद्ध्यते।
‘कर्तुः करणैः सह संयोगात् बाह्यविषयज्ञानं जायते, आभ्यन्तरविषयज्ञानं जायते’
इति अर्थः न प्राप्यते।अतः चक्रपाणिः उचितमेव वदति यत्
‘’’संयोगजमिति कर्मणा वेदनया बुद्ध्या च योज्यम्।‘’’
परं चक्रपाणिना संयोगजम् इति विशेषणस्य वेदनापदेन बुद्धिपदेन च यः योगः सूचितः सः मुनेः अभिमतः आसीत् वा ?
आम् मुनेः अपि अयमाशयः अभिमतः इति समुच्चयतन्त्रयुक्त्या ज्ञायते।
समुच्चयो नाम यदिदं चेदं चेति कृत्वा विधीयते; यथा - ‘वर्णश्च स्वरश्च’ …
प्रकृतसूत्रे चकारस्य प्रयोगः अस्ति - कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च इति।अतः अत्र समुच्चयः मुनेः अभिप्रेतः इति स्पष्टम्।
एकः भूतात्मा कर्तुं न प्रवर्तते, एकः भूतात्मा फलं न अश्नुते इति अन्वयः।एकः इति अस्य पदस्य द्वौ अर्थौ सम्भवतः।एकः इति करणरहितः अथवा एकः इति अन्यं भूतात्मानं विना । एतयोः कतरः अर्थः उचितः? अधिकरणतन्त्रयुक्तेः बलात् निष्करणः इति अर्थं वक्ति चक्रपाणिः। ‘करणानां साहाय्यस्य अनिवार्यताम्’ अधिकृत्य प्रवर्तते इयं चर्चा।अतः ‘एकः भूतात्मा कर्म न करोति’ इत्यत्र निष्करणः भूतात्मा कर्म न करोति इत्येव अर्थः उचितः।
भूतात्मा फलं नाश्नुते इति सूत्रांशः।भूतात्मा फलोपभोगं न करोति इति तस्य अर्थः । परन्तु अयम् अर्थः -
‘’’स कारणम् क्रियोपभोगे... ‘।‘’’च.शा.१.५१
इति वचनेन विरुद्ध्यते।अतः सुसङ्गतार्थप्राप्त्यर्थं चक्रपाणिः योगतन्त्रयुक्तिं प्रयुङ्क्ते।
एकः इति भूतात्मनः विशेषणम् अत्र अपि योज्यम्।तेन ‘भूतात्मा एकः फलम् न अश्नुते’ इति अन्वयः भवति।एषः अर्थः प्रकरणसङ्गतः।आत्मा ज्ञानार्थं कर्मार्थं फलभोगार्थं च करणानि अपेक्षते इति अस्य प्रकरणस्य तात्पर्यम्।तेन सङ्गतः अयम् अर्थः।
५८संपादित करें
न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः।
पदच्छेदः-
न हि एकः वर्तते भावः वर्तते न अपि अहेतुकः।
अन्वयः-
हि (कोऽपि) भावः एकः न वर्तते, भावः अहेतुकः अपि न वर्तते ।
सरलार्थः-
कोऽपि भावपदार्थः यदा कार्यम् उत्पादयति, तदा सहकारिकारणानां साहाय्येन एव उत्पादयति।एकः भावः अन्यस्य साहाय्यं विना कार्यम् उत्पादयितुम् असमर्थः।
आयुर्वेददीपिका
अत्र एव सामग्रीजन्यत्वे सर्वकार्याणाम् उपपत्तिम् आह न हि एकः इत्यादि। एकः भावः कारणरूपः सहकारिकारणान्तर-रहितः न कार्यकरणे वर्तत इत्यर्थः; एवं तावद् एकं कारणं कार्ये न वर्तते, कार्यं च हेतुं विना न भवतीत्याह वर्तते नाप्यहेतुकः इति ,हेतुं विना भावः उत्पत्तिधर्मा न वर्तते न भवति इति अर्थः। तेन करणयुक्त-आत्मजन्यं कार्यं, न केवलाद् आत्मनः हेतुरूपाद् भवति इति उक्तं भवति।
अरुन्धतीपद्धतिः –
पूर्वतनसूत्रे उक्तं यद् भूतात्मा करणसंयोगात् कर्म कुरुते।एवं कार्याणि आत्म-करणसंयोगात् जायन्ते।एतं सिद्धान्तं दृढीकर्तुम् उपपत्तिः प्रकृतसूत्रे उच्यते।
सूत्रे ‘हि’ इति पदम् अस्ति।तस्य अर्थः यस्मात्।यस्मात् कोऽपि भावः एकः सन् कार्यं नोत्पादयति इति अपूर्णं वाक्यम्।एतस्मात् अग्रे ‘तस्मात् किम्?’ इति वक्तव्यम्।तदुक्तं चक्रपाणिना तेन इत्यादिना।
तेन इति तस्मात्।तस्मात् करणसहितः आत्मा कार्यं जनयति, न एकः एव।एवं पूर्वसूत्रे यः
‘’’’सकरणस्य आत्मनः कारणत्वम्’’’’
इति सिद्धान्तः उक्तः, तस्य उपपत्तिः अत्र दत्ता
‘’’‘सर्वत्र सकरणस्य हेतोः कार्यजनकत्वम्’ ‘’’इति।
द्वितीयचरणे किमपि भावकार्यं हेतुं विना न जायते इति उक्तम्।
शीघ्रगत्वात्स्वभावात्त्वभावो न व्यतिवर्तते॥५८॥
पदच्छेदः-
शीघ्रगत्वात् स्वभावात् तु अभावः न व्यतिवर्तते॥५८॥
अन्वयः-
शीघ्रगत्वात् स्वभावात् तु अभावः (स्वभावं) न व्यतिवर्तते॥५८॥
सरलार्थः-
अभावः तु शीघ्रगत्वात् स्वभावात् अतिक्रम्य न वर्तते इति सूत्रार्थः।
आयुर्वेददीपिका
अथ हेतुं विना चेद् भावः न भवति, तत् किम् अभावे अपि शारीराणां भावानां हेतु-अपेक्षा न वा इति आह शीघ्रगत्वाद् इत्यादि।शीघ्रगत्वात् स्वभावात् लक्षितः अभावः न स्वभावं व्यतिवर्तते शीघ्रगत्वस्वभावं न त्यजति इति अर्थः। तेन, अहेतुकः एव अभावः भवति, भावः तु सहेतुकः। उक्तं हि “उत्पत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्” इति (सू.अ.१६)
अरुन्धतीपद्धतिः –
भावः अहेतुकः नोत्पद्यते इति ज्ञातम्।अथ किम् अभावस्य उत्पत्तौ हेतोः अपेक्षा अस्ति अथवा नास्ति? तस्य उत्तरमत्र उक्तं मुनिना।
अभावः तु शीघ्रगत्वात् स्वभावात् अतिक्रम्य न वर्तते इति सूत्रार्थः।
भावः करणसंयोगात् जायते।तदर्थं करणानाम् उपस्थितिः एकस्मिन् क्षणे तथा उपस्थितानां करणानां संयोगः द्वितीयक्षणे इति एतावान् कालः अपेक्षितः।परम् अभावः एवं करणसंयोगात् न जायते।
अभावः अतिशीघ्रतया भवति। ‘निमेषकालात् भावानां कालः शीघ्रतरोऽत्यये’ इति पूर्वम् (च.शा.१.५०) उक्तम्। निमेषकालादपि अल्पेन कालेन भावस्य नाशः भवतीति तस्य अर्थः। एषा शीघ्रगतिः इति तस्य स्वभावः।अतः करणानाम् उपस्थितिः तथा तेषां संयोगः अनन्तरम् अभावोत्पत्तिः इति एतावान् कालः तत्र कल्पयितुं न शक्यते।अभावः शीघ्रगत्वस्वभावं तु न अतिक्रामति।अतः करणसंयोगः अभावस्य कारणं नास्ति।एतत् समर्थयितुं ‘न निरोधेऽस्ति कारणम्’ इति सूत्रम् उद्धृतं चक्रपाणिना। अतीतावेक्षातन्त्रयुक्तेः प्रयोगः अयम्।
आयुर्वेददीपिका
किंवा, शीघ्रगत्वाद् अस्थिरत्वाद् अभावः न अवस्थान्तरम् आत्मनाशं प्रति गच्छति इति ग्रन्थार्थः॥५८॥
अरुन्धतीपद्धतिः –
शीघ्रगत्वाद् इत्यादेः वचनस्य अपरम् अर्थम् इदानीं ब्रूते चक्रपाणिः किंवा इत्यादिना। कश्चिद् भावः अन्यैः भावैः सह संयोगात् कार्यम् उत्पादयति इति सूत्रस्य पूर्वार्धे उक्तम्। ‘परन्तु अभावविषये एतद् न भवति’ इति उत्तरार्धे उच्यते। सूत्रे ‘तु’ इति अव्ययं विद्यते।तत् पक्षान्तरं सूचयति।भावविषये एवं भवति परम् अभावविषये एवं न भवति इति आशयः।
साङ्ख्यमते कार्यम् इति कारणस्य एव परिणमनम्।परिणमनम् इति अवस्थान्तरम्। अभावे तत् किमर्थं न सम्भवति इति उच्यते।अभावः शीघ्रगः।तस्य स्वभावः एषः।शीघ्रगः इत्युक्ते अस्थिरः।अस्थिरः पदार्थः करणैः सह संयोगं कथं वा कुर्यात? अतः सः न व्यतिवर्तते। व्यतिवर्तते इत्युक्ते परिवर्तते। अभावः कार्यरूपेण न परिवर्तते, अवस्थान्तरं न गच्छति इत्यर्थः।
एकस्याः एव पङ्क्तेः द्विधा स्पष्टीकरणमुक्तं टीकाकारेण।प्रथमे स्पष्टीकरणे ‘अभावस्य किमपि कारणं न भवति’ इति आशयः अस्ति।द्वितीये स्पष्टीकरणे अभावात् किमपि कार्यं नोत्पद्यते इत्यर्थः अस्ति।उभौ अपि आशयौ मुनिवचनेन सङ्गतौ।
५९संपादित करें
अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः।
पदच्छेदः-
अनादिः पुरुषः नित्यः विपरीतः तु हेतुजः।
अन्वयः-
अनादिः पुरुषः नित्यः। हेतुजः (पुरुषः) तु विपरीतः (अनित्यः)।
सरलार्थः-
यः पुरुषः अनादिः सः, नित्यः।यः पुरुषः हेतुजः, सः तद्विपरीतः (अनित्यः)।
आयुर्वेददीपिका
‘स नित्यः किमनित्यः’ इति अस्य उत्तरम् अनादिः इत्यादि। अनादिः च पुरुषः अव्यक्तरूपः आत्मशब्द-अभिधेयः। विपरीतः इति आदिमान् राशिरूपः पुरुष इति अर्थः।
अरुन्धतीपद्धतिः –
उद्देशग्रन्थे ‘सः पुरुषः नित्यः वा अनित्यः वा’ इति अग्निवेशेन पृष्टम्।तस्य उत्तरम् इदानीम् अस्मिन् निर्देशग्रन्थे उच्यते।
उत्तरे एवम् द्वैविध्यं कथम्? यद्विषये प्रश्नः कृतः सः पुरुषः द्विविधः अस्ति अतः। चेतना-धातुरप्येकः पुरुषः सम्भवति।आत्मशब्देन एतस्य अभिधानं भवति इति आत्मशब्दाभिधेयः।एषः अनादिः अस्ति अतः नित्यः अस्ति।षड्धातुकः अथवा चतुर्विंशतिकः पुरुषः अपि अस्मिन् शास्त्रे चिन्त्यते।एषः पुरुषः मोहेच्छाद्वेषकर्मजः (च.शा.१.५३) अस्ति। एषः हेतुजः अस्ति अतः अनित्यः अस्ति।
सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा॥५९॥
पदच्छेदः-
सत् अकारणवत् नित्यं दृष्टं हेतुजम् अन्यथा॥५९॥
अन्वयः-
अकारणवत् सत् नित्यं दृष्टम्। हेतुजं सत् अन्यथा (विनाशि) दृष्टम्॥५९॥
सरलार्थः-
यत् कारणरहितं सत्, तद् नित्यं दृष्टम्।यत् कारणजन्यं सत्, तद् अन्यथा (विनाशि) दृष्टम् ।
आयुर्वेददीपिका
अत्र एव अनादेः नित्यत्वे शास्त्रान्तरसम्मतिम् अपि आह सदित्यादि । सद् इति त्रिविधसमये प्रमाणगम्य-भावरूपम्। एतेन, प्रागभावस्य अकारणवतः अपि अभावरूपतया अनित्यत्वं न व्यभिचारकम्। हेतुजम् अन्यथा इति अत्र अपि भावरूपम् इति योजनीयम्। तेन, हेतुजन्यस्य अपि प्रध्वंसस्य अविनाशित्वं परिहृतं भवति॥५९॥
अरुन्धतीपद्धतिः –
अन्येषु शास्त्रेषु अपि यद् अनादि तद् नित्यम् इति व्याप्तिः अङ्गीक्रियते इति शास्त्रान्तरसम्मतिः।सा अस्मिन् सूत्रार्धे प्रदर्शिता।
सत् इति शब्दः सूत्रे विद्यते।तस्य अर्थं वदति चक्रपाणिः त्रिविधसमये इति।त्रिविधसमयः इत्युक्ते भूतकालः, वर्तमानकालः, भविष्यत्कालः च।एषु त्रिषु कालेषु यत् भावरूपं तत् सत्। चेतनाधातुः त्रिषु कालेषु भावरूपः अस्ति, तथा च कारणरहितः अस्ति अतः सः नित्यः। महदादिः प्रपञ्चः कारणजन्यः अस्ति अतः सः अनित्यः।
यत् अनादि तद् नित्यम् इति व्याप्तिः किमर्थं नोक्ता?सत् इति पदं किमर्थं योजितम्? अस्योत्तरं वदति टीकाकारः एतेन इत्यादिना।प्रागभावः अनादिः अस्ति परं सान्तः अस्ति।अतः ‘यत् अनादि तद् नित्यम्’ इति व्याप्तेः प्रागभावे व्यभिचारः भवति।एतं दोषं निवारयितुं सत् इति विशेषणम् आवश्यकम्।प्रागभावः भावरूपः नास्ति।सच्छब्दः भावार्थकः।तेन प्रागभावस्य व्यावृत्तिः भवति।यत्र कारणरहितत्वे सति सत्त्वं तत्र नित्यत्वम् इति निर्दोषा व्याप्तिः।
सूत्रे सत् इति पदम् एकदा एव आगतम्।तथापि तद् द्विवारं योजनीयम् इति सूचयति चक्रपाणिः।सा योजना एवम् -
यत् कारणरहितं सत्, तद् नित्यम् ।
इति एकदा सच्छब्दस्य योजना करणीया।
यत् कारणजन्यं सत्, तद् विनाशि।
इति सच्छब्दस्य पुनः योजना करणीया।
यदि एवं योजनां न कुर्मः तर्हि यत् कारणजन्यं तद् विनाशि इति व्याप्तिः भवति।सा च प्रध्वंसाभावे व्यभिचरति।प्रध्वंसः कारणजन्यः अस्ति परम् अनन्तः अस्ति।एतं दोषं परिहर्तुं सत् इति शब्दः व्याप्तौ आवश्यकः।
एवं शास्त्रीयार्थस्य बोधार्थं चक्रपाणिना अत्र योगतन्त्रयुक्तिः प्रयुक्ता।
६०संपादित करें
तदेव भावादग्राह्यं नित्यत्वं न कुतश्चन । भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा ॥ ६०॥
पदच्छेदः-
तद् एव भावात् अग्राह्यं नित्यत्वं न कुतश्चन ।भावात् ज्ञेयं तद् अव्यक्तम् अचिन्त्यं व्यक्तम् अन्यथा ॥ ६०॥
अन्वयः-
(यद्) भावाद् अग्राह्यम् तद् एव नित्यत्वम् ।(यत्) कुतश्चन भावात् न (भवति), तद् अचिन्त्यम् अव्यक्तम् (इति) ज्ञेयम्।व्यक्तम् अन्यथा ॥ ६०॥
सरलार्थः-
कुतश्चन भावाद् यद् ग्रहीतुं न शक्यते तद् नित्यत्वम्।तद् अचिन्त्यम् अव्यक्तं कस्माद् अपि भावाद् न भवति इति ज्ञातव्यम्।व्यक्तम् एतस्मात् भिन्नम् इत्युक्ते अनित्यम्।
आयुर्वेददीपिका
किं तद् नित्यत्वम् इति आह तदेव इत्यादि।भावाद् उत्पत्तिधर्मकात्। तद् नित्यत्वं न कुतः अपि भावाद् भवति, नित्यं हि न कुतः अपि भवति। ततः च आत्मा भावं प्रति निरपेक्षत्वात् सर्वेभ्यः भावेभ्यः अपि अग्रे नित्यं सद् एव। तत् च एवम्भूतं नित्यम् अव्यक्तं ज्ञेयम्। अचिन्त्यम् इति अव्यक्तविशेषणम्। अव्यक्तं च मूलप्रकृतिः। व्यक्तम् अन्यथा इति प्रकृतेः अन्यतमकार्यं महद्-आदिकम् अनित्यम्; आकाशमपि विकाररूपतया अनित्यम् एव; उदासीनपुरुषः तु नित्यः एव अव्यक्तशब्देन एव लक्षितः इति उक्तम् एव। अव्यक्तधर्मान्तरव्यापकान् पर्यायान् आह अव्यक्तम् इत्यादि।६०
अरुन्धतीपद्धतिः –
पुरुषः नित्यः वा अनित्यः वा इति प्रश्नस्य चर्चा प्रवर्तते।तत्र ‘पुरुषः नित्यः’ इति उत्तरं दत्तं पुनर्वसुना गतसूत्रे।‘नित्यत्वं नाम किम्’ इति अस्मिन् विषये अधुना विवरणं क्रियते।
भावशब्देन अत्र कार्यं गृह्यते।‘यः भवति, कुतश्चित् कारणात् उत्पद्यते सः भावः’ इति भावशब्दस्य निरुक्तिः।अतः भावः इति कार्यम्।कस्मात् अपि कार्यात् तद्धर्मत्वेन ग्रहीतुं बोद्धुम् यद् न शक्यं तद् नित्यत्वम्।नित्यत्वं कस्य अपि कार्यस्य धर्मरूपेण ग्रहीतुं न शक्यते।एषोऽस्ति नित्यत्वस्य विशेषः।
अव्यक्तं किं भावः अथवा न ?अव्यक्तशब्देन अत्र प्रकृतिः तथा पुरुषः इति पदार्थद्वयम् अपि गृह्यते।किं तर्हि प्रकृतिपरुषौ कार्यरूपौ अथवा न? न।प्रकृतिपुरुषौ कुतश्चन भावात् न जायेते।तौ सर्वेभ्यः अपि भावेभ्यः अग्रे वर्तेते।अग्रे इत्युक्ते आदौ।
य़त् कस्माद् अपि कार्यात् धर्मरूपेण न लभ्यते तद् नित्यत्वम्।अव्यक्तं सर्वेभ्यः कार्येभ्यः अग्रे अस्ति।अतः तद् नित्यम् अस्ति इति पिण्डार्थः।
ननु अव्यक्तशब्देन साङ्ख्यमते केवलं प्रकृतिः गृह्यते।अत्र प्रकृत्या सह पुरुषः अपि गृहीतः इति कथम्? एतस्याः आशङ्कायाः पूर्वं दत्तम् उत्तरं स्मारयति चक्रपाणिः – ‘उदासीनपुरुषस्तु नित्य एवाव्यक्तशब्देनैव लक्षित इत्युक्तमेव |’
चतुर्विंशतिकपुरुषस्य विवरणे (च.शा.१.१७)चक्रपाणिना उक्तं यत् – ‘इह प्रकृतिव्यतिरिक्तं चोदासीनं पुरुषमव्यक्तत्वसाधर्म्याद् अव्यक्तायां प्रकृतावेव प्रक्षिप्य अव्यक्तशब्देनैव गृह्णाति’
व्यक्तशब्देन महदादिप्रपञ्चः उच्यते।एषः प्रपञ्चः अन्यथा अस्ति।अन्यथा इति उक्ताद् भिन्नः।अत्र उक्तं नित्यत्वम्।ततः अन्यथा इति अनित्यः।महदादिप्रपञ्चः अनित्यः अस्ति इत्यर्थः।
६१-६२संपादित करें
अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः।तस्माद्यदन्यत्तद्व्यक्तम् ...
पदच्छेदः-
अव्यक्तम् आत्मा क्षेत्रज्ञः शाश्वतः विभुः अव्ययः। तस्मात् यद् अन्यत् तद् व्यक्तम् ...
अन्वयः-
आत्मा अव्यक्तम् क्षेत्रज्ञः शाश्वतः विभुः अव्ययः (अस्ति)। तस्मात् (आत्मनः) यद् अन्यत् तद् व्यक्तम् ।
सरलार्थः-
आत्मा अव्यक्तम् अस्ति, सः क्षेत्रज्ञः अस्ति, शाश्वतः अस्ति, विभुः अस्ति, अव्ययः अस्ति । यः क्षेत्रज्ञः नास्ति, यः शाश्वतः नास्ति, यः विभुः नास्ति, यः अव्ययः नास्ति, सः पदार्थः व्यक्तपदार्थः ।
आयुर्वेददीपिका
अव्यक्तधर्मान्तरव्यापकान् पर्यायानाह अव्यक्तम् इत्यादि ।
अरुन्धतीपद्धतिः –
अव्यक्तस्य धर्मः अव्यक्तधर्मः।अन्ये अव्यक्तधर्माः अव्यक्तधर्मान्तराणि।अन्येषाम् अव्यक्तधर्माणां व्यापकाः अव्यक्तधर्मान्तरव्यापकाः।पर्यायाः इति पर्यायशब्दाः।
क्षेत्रज्ञः शाश्वतः विभुः तथा अव्ययः इति एते आत्मशब्दस्य पर्यायशब्दाः अस्मिन् सूत्रे उक्ताः।ते किमर्थम् उक्ताः इति विवृणोति चक्रपाणिः। एतेषु शब्देषु प्रत्येकं शब्दे कश्चन आत्मधर्मः उक्तः।क्षेत्रं जानाति सः क्षेत्रज्ञः।त्रिषु कालेषु वर्तते सः शाश्वतः।यः सर्वमूर्तद्रव्यसंयोगी सः विभुः।यस्य स्वरूपे कदापि हानिः न भवति, सः अव्ययः।एते सर्वे धर्माः अव्यक्तत्वधर्मात् भिन्नाः।अतः अव्यक्तधर्मान्तराणि एतानि।क्षेत्रज्ञादयः चत्वारः शब्दाः एतेषां धर्माणां व्यापकाः सन्ति।यत्र क्षेत्रज्ञत्वादयः धर्माः तत्र आत्मशब्दपर्यायत्वम् इति अर्थः।एवं पर्यायशब्दकथनेन एकस्य एकस्य आत्मगुणस्य अपि कथनं कृतं मुनिना।
वक्ष्यते चापरं द्वयम् ॥६१॥
व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियैः।अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम् ॥६२॥
पदच्छेदः-
वक्ष्यते च अपरं द्वयम् ॥६१॥व्यक्तम् ऐन्द्रियकं च एव गृह्यते तद् यद् इन्द्रियैः।अतः अन्यत् पुनः अव्यक्तं लिङ्ग-ग्राह्यम् अतीन्द्रियम् ॥६२॥
अन्वयः-
अपरं द्वयं च वक्ष्यते।व्यक्तम् ऐन्द्रियकम् च । (व्यक्तं) तद् एव, यद् इन्द्रियैः गृह्यते ।
अतः अन्यत् पुनः अव्य
क्तम्। (अव्यक्तं) अतीन्द्रियं लिङ्ग-ग्राह्यं (भवति) ॥६२॥
सरलार्थः-
व्यक्तं तथा अव्यक्तम् इति द्वयम् इतोऽपि प्रकारान्तरेण वर्ण्यते।व्यक्तं नाम ऐन्द्रियकम्। ऐन्द्रियकम् इत्यस्य अर्थः यद् इन्द्रियैः ग्रहीतुं शक्यते तद्।एतस्माद् यद् भिन्नं तद् अव्यक्तम्।अव्यक्तम् अतीन्द्रियं भवति हेतुग्राह्यं भवति ।
आयुर्वेददीपिका
पुनः प्रकारान्तरेण व्यक्त-व्यक्त-अर्थम् आह वक्ष्यते इत्यादि । अपरं द्वयम् इति प्रकारान्तरकृतं व्यक्त-अव्यक्त-द्वयम्। लिङ्गग्राह्यम् इति अनुमानग्राह्यम्। अतीन्द्रियम् इति अनेन च इन्द्रियग्रहण-अयोग्यं यत् केन अपि शब्दादिलिङ्गेन गृह्यते न तद् अव्यक्तं, किन्तु यद् नित्य-अनुमेयं मनोऽहङ्कारादि तद् एव अव्यक्तम्॥६०- ६२॥
अरुन्धतीपद्धतिः –
यस्य उत्पत्तिः भवति, तद् व्यक्तम्।यस्य उत्पत्तिः न भवति, तद् अव्यक्तम्।व्यक्ताव्यक्तयोः एतद् विवरणं पूर्वतनसूत्रे दत्तम्। इदानीं साधकप्रमाणभेदेन पुनः व्यक्ताव्यक्तवर्णनम् अस्मिन् सूत्रे क्रियते।
अनुमाने यः हेतुः, सः लिङ्गशब्देन उच्यते।अतः लिङ्गग्राह्यम् इति अनुमानग्राह्यम्।यथा पर्वतो वह्निमान् धूमात् इति अस्मिन् अनुमाने धूमः हेतुः।सः लिङ्गम्।अनेन लिङ्गेन पर्वतस्थः अग्निः ज्ञातः भवति अतः अग्निः अत्र लिङ्गग्राह्यः।तथैव अव्यक्तं लिङ्गग्राह्यं भवति।
‘अव्यक्तम् लिङ्गग्राह्यम् अस्ति’ एतावत् वचनं पर्याप्तम् आसीत्।पुनः अतीन्द्रियशब्दस्य योजना किमर्थं कृता?अस्योत्तरं वदति चक्रपाणिः अतीन्द्रियमिति।
केचन पदार्थाः अनुमानग्राह्याः सन्ति तथा तेषु इन्द्रियग्राह्यता अपि सम्भवति।यथा पर्वतस्थः अग्निः अनुमेयः अस्ति।अग्निः प्रत्यक्षयोग्यः अपि अस्ति।प्रत्यक्षयोग्यः इत्युक्ते ऐन्द्रियकः।परम् सः अव्यक्तसंज्ञां नार्हति।यद् अनुमेयं, तद् अव्यक्तम् इति एतावदेव लक्षणं भवति चेत् अग्न्यादिषु प्रत्यक्ष-अनुमेय-उभयग्राह्येषु अतिव्याप्तिः भवति।तां परिहर्तुं सूत्रे पदं योजितम् अतीन्द्रियम् इति।अतीन्द्रियत्वे सति लिङ्गग्राह्यत्वम् अव्यक्तत्वम् इति अव्यक्तलक्षणं निर्दुष्टम्।
इदमत्रावधेयम्।अव्यक्तशब्दस्य लक्षणं ‘यद् नित्यं तद् अव्यक्तम्‘ इति पूर्वम् (च.शा.१.६०-६२)उक्तम्।तस्य एव अव्यक्तपदार्थस्य ‘यद् अतीन्द्रियं लिङ्गग्राह्यं च तद् अव्यक्तम्’ इति अपरं लक्षणम् अत्र उच्यते इति न मन्तव्यम्।अत्रोक्तः अव्यक्तपदार्थः तत्रोक्ताद् अव्यक्तपदार्थाद् भिन्नः।
यद् नित्यं तद् अव्यक्तम् इति लक्षणे प्रकृतिपुरुषौ एव लक्ष्यभूतौ।तदितरे सर्वे पदार्थाः व्यक्ताः यतो हि ते अनित्याः।अतः एव तत्र चक्रपाणिः लिखति-
अव्यक्तं च मूलप्रकृतिः| व्यक्तमन्यथेति प्रकृतेरन्यतमकार्यं महदादिकमनित्यम्।
‘यद् अतीन्द्रियं लिङ्गग्राह्यं च तद् अव्यक्तम् ’ इति लक्षणे प्रकृतिपुरुषाभ्यां सह महदहङ्कारादयः अपि केचन पदार्थाः लक्ष्यभूताः।यतो हि ते अतीन्द्रियाः लिङ्गग्राह्याः च।अत्र चक्रपाणिः लिखति-
यन्नित्यानुमेयं मनोऽहङ्कारादि तदेवाव्यक्तम्॥
किमर्थं तर्हि एवं सम्भ्रमजनकं लिखति मुनिः?उच्यते।नेदं सम्भ्रमजननाय उक्तं मुनिना किं तर्हि सम्भ्रमविनाशाय उक्तम्।यतो हि शास्त्रेऽस्मिन् क्वचिद् प्रकृतिपुरुषयोः व्यवहारः अव्यक्तसंज्ञया भवति, क्वचिद् महदादीनाम् अपि व्यवहारः अव्यक्तसंज्ञया भवति।एतादृशेषु स्थलेषु प्रकरणानुसारम् अव्यक्तम् अथवा महादादिकः प्रपञ्चः इति एतयोः एकतरः अर्थः ग्राह्यः इति सूचयति मुनिः।अतः सम्भ्रमः परिहृतः भवति।
शास्त्रे एवम् एकं पदं द्वित्राणां पदार्थानां वाचकमस्ति।यथा ‘वायुः’ इति एकेन पदेन क्वचिद् महाभूतविशेषस्य बोधः विवक्षितः अस्ति, क्वचित् शारीरदोषविशेषः विवक्षितः अस्ति।अथवा हिमः इति पदं ऋतुविशेषस्य , गुणविशेषस्य तथा कल्पनाविशेषस्य अपि वाचकम् अस्ति।प्रकरणतः अर्थः ग्राह्यः भवति।
६३-६४संपादित करें
खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः।भूतप्रकृतिरुद्दिष्टा...
पदच्छेदः-
ख-आदीनि बुद्धिः अव्यक्तम् अहङ्कारः तथा अष्टमः।भूतप्रकृतिः उद्दिष्टा ...
अन्वयः-
ख-आदीनि, बुद्धिः, अव्यक्तम्, तथा अष्टमः अहङ्कारः इति भूतप्रकृतिः उद्दिष्टा।
सरलार्थः-
आकाशं, वायुः, अग्निः, जलं. पृथिवी इति पञ्च भूतानि, बुद्धिः, मूलप्रकृतिः, अहङ्कारः इति एतेषाम् अष्टानां तत्त्वानां ‘भूतप्रकृतिः’ इति संज्ञा अस्ति।
आयुर्वेददीपिका
‘प्रकृतिः का विकाराः के’ इति अस्य उत्तरं ख-आदीनि इत्यादि।ख-आदीनि सूक्ष्मभूत-ख-आदीनि तन्मात्रशब्द-अभिधेयानि। बुद्धिः महत्-शब्द-अभिधेया । अव्यक्तं मूलप्रकृतिः। अहङ्कारः बुद्धिविकारः; स च त्रिविधः – भूतादिः तैजसः, वैकारिकः च। भूतानां स्थावरजङ्गमानां प्रकृतिः भूतप्रकृतिः। अत्र च अव्यक्तं प्रकृतिः एव परं, बुद्ध्यादयः तु स्वकारण-विकृतिरूपाः अपि स्वकार्य-अपेक्षया प्रकृतिरूपाः इह प्रकृतित्वेन उक्ताः। यदुक्तं “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त” (सांका.३) इति।
अरुन्धतीपद्धतिः –
अग्निवेशस्य प्रश्नेषु ‘प्रकृतिः का विकाराः के’ इति प्रश्नद्वयम् आसीत्।तस्य उत्तरम् अधुना आरभ्यते।
खादीनि इति अनया संज्ञया सूक्ष्मरूपाणि तन्मात्राणि अपि उच्यन्ते, स्थूलमहाभूतानि अपि उच्यन्ते।अतः अत्र कः अर्थः अभिप्रेतः इति वक्तव्यम्।तद् वदति चक्रपाणिः ‘तन्मात्रशब्दाभिधेयानि’ इति।
खादीनि इति अस्मात् पदाद् अनन्तरं ‘बुद्धिः’ इति शब्दः विद्यते।एषः शब्दः ‘बुद्धीन्द्रियाणि पञ्चैव ’ इति अग्रिमे सूत्रे अपि विद्यते।बुद्धिशब्दस्य तत्र अर्थः भिन्नः, अत्र अर्थः भिन्नः। अतः चक्रपाणिः स्पष्टीकरोति ‘बुद्धिः महच्छब्दाभिधेया’ इति ।बुद्धिशब्देन अत्र ‘महत्’ इति तत्त्वम् अभिप्रेतं, न ज्ञानम्।
अव्यक्तशब्देन अत्र त्रिगुणा मूलप्रकृतिः ग्राह्या इति चक्रपाणिः ब्रूते।ननु अव्यक्तशब्देन प्रकृतिपुरुषयोः उभयोः अपि ग्रहणं क्रियते इति पूर्वं (च.शा.१.१७)चक्रपाणिना एव उक्तम्।अत्र अव्यक्तशब्देन केवलं मूलप्रकृतिः गृह्यते, पुरुषः विवर्ज्यते इति कथम्?
ब्रूमः। ‘प्रकृतिः का विकाराः के’ इति प्रश्नस्य उत्तरम् अत्र दीयते।अस्मिन् अधिकरणे पुरुषस्य अन्तर्भावो नोचितः यतो हि ‘न प्रकृतिर्नविकृतिः पुरुषः’ इति साङ्ख्यमतम् (सा.का.३)।तस्मात् अधिकरणतन्त्रयुक्त्या अत्र अव्यक्तशब्दस्य ‘मूलप्रकृतिः’ इत्येवार्थकरणं न्याय्यम्।
अहङ्कारः इति एकं तत्त्वं भूतप्रकृतौ समाविष्टम्।एषः अहङ्कारः बुद्धितत्त्वात् जायते अतः सः बुद्धिविकारः।सःत्रिविधः।भूतादिः, तैजसः, वैकारिकः च।भूतादिः एव तामसः अहङ्कारः उच्यते। वैकारिकः एव सात्विकः अहङ्कारः उच्यते। अहङ्कारस्य एतत् त्रैविध्यं सूत्रे न सूचितम्।तथापि टीकाकारेण तदुक्तं यतो हि अग्रे ‘परं खादीन्यहङ्कारात्’ इति सूत्रस्य टीकायाम् ‘एतस्मात् त्रिविधाद् अहङ्कारात् खादीनि कथं जायन्ते’ इति वर्णनं चिकीर्षितम् अस्ति।
भूतप्रकृतिपदस्य अर्थं समासविग्रहेण वदति टीकाकारः।भूतशब्देन खादीनि अपि गृह्यन्ते, तथा स्थावरजङ्गमाः अपि कार्यरूपाः गृह्यन्ते।अतः अत्र स्पष्टीकरोति टीकाकारः ‘स्थावरजङ्गमानां प्रकृतिर्भूतप्रकृतिः’ इति।
भूतानां प्रकृतिः अष्टधा उक्ता।प्रकृतिः इति कारणम्।तत्र अव्यक्तं सर्वेषां स्थावरजङ्गमानां कारणम् ।अन्यानि सप्त तत्त्वानि कारणभूतानि कथम्? तानि मूलप्रकृतेः कार्यरूपाणि सन्ति।अस्याः आशङ्कायाः उत्तरं वदति चक्रपाणिः अत्र चाव्यक्तमित्यादिना।
एतेषु अष्टसु तत्त्वेषु अव्यक्तम् इति सर्वदा कारणरूपमेव।अन्यानि सप्त तत्त्वानि स्वस्वकारणस्य कार्यभूतानि।तथापि स्वकार्यापेक्षया कारणभूतानि अपि सन्ति।एवं तेषु प्रकृतित्वं तथा विकृतित्वम् इति उभौ धर्मौ स्तः।अतः तेषां प्रकृतित्वेन यः उल्लेखः अत्र मुनिना कृतः सः न अनुचितः। तथैवास्ति साङ्ख्यसमयः –
महदाद्याः प्रकृतिविकृतयः सप्त।– सां.कारिका
विकाराश्चैव षोडश॥६३॥
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च।समनस्काश्च पञ्चार्था विकारा इति सञ्ज्ञिताः॥६४॥
पदच्छेदः-
विकाराः च एव षोडश॥६३॥
बुद्धि-इन्द्रियाणि पञ्च एव पञ्च कर्म-इन्द्रियाणि च ।समनस्काः च पञ्च अर्थाः विकाराः इति सञ्ज्ञिताः॥६४॥
अन्वयः-
विकाराः एव च षोडश (सन्ति)।पञ्च एव बुद्धि-इन्द्रियाणि, पञ्च कर्म-इन्द्रियाणि च, समनस्काः च पञ्च अर्थाः विकाराः इति सञ्ज्ञिताः ।६४
सरलार्थः-
पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनः, तथा च शब्दादयः पञ्च अर्थाः इति एतेषां षोडशतत्त्वानां ‘विकाराः’ इति संज्ञा वर्तते।
आयुर्वेददीपिका
विकारान् आह विकाराः इत्यादि।एवशब्दः भिन्नक्रमे अवधारणे, तेन विकाराः एव षोडश परं न प्रकृतयः। बुद्धेः इन्द्रियाणि बुद्धीन्द्रियाणि।पञ्च अर्थाः इति स्थूलाः आकाशादयः शब्दादिरूपाः; गुणगुणिनोः हि परमार्थतः भेदः नास्ति एव अस्मिन् दर्शने ॥६३ - ६४॥
अरुन्धतीपद्धतिः –
विकाराः के इति प्रश्नस्य उत्तरम् अत्र उक्तम्।सूत्रे एव इति शब्दः विद्यते।तस्य अर्थः अवधारणम्।अवधारणम् इति मर्यादाकरणम्।अन्ययोगव्यवच्छेदः।
अयम् एवकारः सूत्रे चकारेण सह प्रयुक्तः।चक्रपाणिः योगतन्त्रयुक्तेः प्रयोगम् अत्र करोति।सः सूचयति यत् भिन्ने क्रमे एवकारस्य योजना करणीया।विकारशब्दात् अनन्तरं एवकारस्य क्रमः भवतु।तेन ‘विकाराः एव षोडश’ इति अन्वयः भवति।विकाराः इति विशेषणम् अत्र।अर्थापत्त्या तस्य विशेष्यं ‘पदार्थाः’ इति ग्राह्यम्।अतः ‘विकाराः एव पदार्थाः षोडश’ इति अन्वयः जातः।
किम् अनेन सिद्ध्यति? अन्ययोगव्यवच्छेदः सिद्ध्यति।विकाराद् अन्यः इत्युक्ते प्रकृतिपदार्थः तथा प्रकृतिविकृतिरूप-पदार्थाः।तेषां व्यवच्छेदः पृथक्करणम्। ये केवलं विकाररूपाः सन्ति, प्रकृतिरूपाः न सन्ति, प्रकृतिविकृतिरूपाः अपि न सन्ति, तेषां सङ्ख्या षोडश इत्यर्थः।यदि एवकारस्य एवं योजनां न कुर्मः तर्हि महदाद्याः अपि अत्र समावेशनीयाः।यतो हि महदादिषु सप्तसु स्वस्वकारणापेक्षया विकारत्वम् अस्ति।
यदि एतेषु सप्तसु विकारत्वम् अस्ति तर्हि विकारेषु तेषां गणना कुतो न करणीया? पूर्वतनसूत्रे भूतप्रकृतौ एतेषां गणना कृता अस्ति अतः अत्र पुनः तेषां गणना न करणीया।
‘…परं न प्रकृतयः’ इति चक्रपाणिवचनस्य आशयः एवम्- एते षोडश पदार्थाः केवलं विकाररूपाः सन्ति।कस्य अपि तत्त्वान्तरस्य प्रकृतिरूपाः न सन्ति।
पूर्वसूत्रे बुद्धिशब्दः महदर्थकः आसीत्। अत्र ज्ञानार्थकः ग्राह्यः।अतः बुद्धीन्द्रियाणि इत्युक्ते ज्ञानेन्द्रियाणि।
सूत्रे पञ्च अर्थाः इति प्रयोगः अस्ति।अर्थशब्देन शब्दस्पर्शरूपरसगन्धाः गृह्यन्ते।एते गुणाः।एतेषां गुणानाम् आश्रयः पञ्च स्थूलानि भूतानि।परं साङ्ख्यमते गुणगुणिनोः अभेदः अङ्गीक्रियते।अतः अत्र अर्थशब्देन शब्दस्पर्शरूपरसगन्धाः गुणाः अपि ग्राह्याः, तेषाम् आश्रयस्वरूपाणि स्थूलानि अकाशादीनि भूतानि अपि ग्राह्याणि।
६५संपादित करें
इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्।अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः॥६५॥
पदच्छेदः-
इति क्षेत्रं समुद्दिष्टं सर्वम् अव्यक्तवर्जितम् ।अव्यक्तम् अस्य क्षेत्रस्य क्षेत्रज्ञम् ऋषयः विदुः॥६५॥
अन्वयः-
इति अव्यक्तवर्जितं सर्वं क्षेत्रं समुद्दिष्टम् ।‘अव्यक्तम् अस्य क्षेत्रस्य क्षेत्रज्ञम्’ (इति) ऋषयः विदुः॥६५॥
सरलार्थः-
उपरि यानि तत्त्वानि उक्तानि, तेषु अव्यक्तवर्जितानां तत्त्वानां ‘क्षेत्रम्’ इति संज्ञा अस्ति। अव्यक्ततत्त्वम् एतस्य सर्वस्य क्षेत्रस्य ज्ञातृ अस्ति इति ऋषयः जानन्ति।६५
आयुर्वेददीपिका
एनम् एव प्रकृतिविकारसमूहं क्षेत्रक्षेत्रज्ञभेदेन विभजते इति इत्यादि।अव्यक्तवर्जितम् इति प्रकृति-उदासीनवर्जितं, प्रकृतेः च उदासीनपुरुष-चैतन्येन चैतन्यम् अस्ति एव ॥६५॥
अरुन्धतीपद्धतिः –
अव्यक्तशब्देन अत्र प्रकृतिपुरुषौ उभौ ग्राह्यौ।ननु पूर्वम् अव्यक्तशब्देन केवलं प्रकृतिः गृहीता तथा अत्र केवलं पुरुषः ग्राह्यः।यतो हि जातृत्वं पुरुषस्य एव अस्ति, न प्रकृतेः।एताम् आशङ्कां निराकरोति चक्रपाणिः प्रकृतेश्चेत्यादिना।
प्रकृतिः यद्यपि अचेतना, अज्ञा तथापि पुरुषसंयोगात् तस्याः अपि चैतन्यम् अभ्युपगम्यते।तस्मात् क्षेत्रज्ञशब्देन प्रकृतिपुरुषयोः उभयोः अपि ग्रहणं कर्तुं शक्यते।
क्षेत्र-क्षेत्रज्ञविभागः अन्यत्रापि कृतो दृश्यते।यथा –
बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च।अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि॥१७७
अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते।ईश्वरः सर्वभूतस्थः ...॥१७८याज्ञवलक्यस्मृतिः यतिधर्मप्र.
च.शा.१.०३७-०५२ चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः च.शा.१.०६६-०७६