अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्यः; तद्यथा- पिप्पली क्षारः लवणमिति॥च.वि.१.१५॥

पदच्छेदः-
अथ खलु त्रीणि द्रव्याणि न अति उपयुञ्जीत अधिकम् अन्येभ्यः द्रव्येभ्यः; तद् यथा- पिप्पली क्षारः लवणम् इति॥ च.वि.१.१५॥

अन्वयः-
अथ खलु त्रीणि द्रव्याणि न अति-उपयुञ्जीत अधिकम् अन्येभ्यः द्रव्येभ्यः; तद् यथा- पिप्पली क्षारः लवणम् इति॥ च.वि.१.१५॥

सरलार्थः-
त्रयाणां द्रव्याणाम् अतिप्रयोगः न भवेत्।अल्पप्रयोगोचितानाम् अन्येषां द्रव्याणाम् अपेक्षया अपि एतानि त्रीणि द्रव्याणि अल्पतरं प्रयोज्यानि। तानि एवं –पिप्पली क्षारः लवणम् इति। च.वि.१.१५

आयुर्वेददीपिका-
अभ्यस्यद्रव्यं प्रभाव-उदाहरणार्थम् अभिधाय अनभ्यस्यान् आह अथ इत्यादि। अधिकम् अन्येभ्यः इति वचनाद् अन्यद् अपि चित्रक-भल्लातकादि एवञ्जातीयं न अति उपयोक्तव्यं, पिप्पल्यादि-द्रव्यं तु अन्येभ्यः अपि अधिकम् अत्युपयोगे वर्जनीयम् इति दर्शयति॥ च.वि.१.१५॥

सुशीला पञ्जिका- च.वि.१.१५

च.वि.१.१४ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका च.वि.१.१६

"https://sa.wikibooks.org/w/index.php?title=च.वि.१.१५&oldid=7315" इत्यस्माद् प्रतिप्राप्तम्