संसर्गविकल्पविस्तरो ह्येषामपरिसङ्ख्येयो भवति विकल्पभेदापरिसङ्ख्येयत्वात्॥ च.वि.१.८॥

पदच्छेदः-
संसर्ग-विकल्प-विस्तरः हि एषाम् अपरिसङ्ख्येयः भवति, विकल्प-भेद-अपरिसङ्ख्येयत्वात्॥ च.वि.१.८॥

अन्वयः-
हि विकल्प-भेद-अपरिसङ्ख्येयत्वात् एषां संसर्ग-विकल्प-विस्तरः अपरिसङ्ख्येयः भवति ॥ च.वि.१.८॥

सरलार्थः-
यतो हि दोषाणां वा रसानां वा ये विकल्पाः,तेषां भेदाः अपरिसङ्ख्येयाः भवन्ति। अतः तेषां विस्तरः अपि अपरिसङ्ख्येयः भवति। च.वि.१.८।

आयुर्वेददीपिका-
रसदोषसंसर्ग-प्रपञ्च-अनभिधाने हेतुम् आह संसर्गेत्यादि। यस्मात् संसर्गभेद-विस्तरः अपरिसङ्ख्येयः तस्मात् षट्त्वं त्रित्वं च उच्यते। विकल्प-भेद-अपरिसङ्ख्येयत्वाद् इति संसर्ग-विकल्पस्य भेदः विजातीयप्रकारः,तस्य अपरिसङ्ख्येयत्वात्। एतेन, यथा रसानाम् अवान्तरव्यक्तिभेदे अपि मधुरत्वादि-सामान्ययोगात् मधुरादि-व्यपदेशेन षट्त्वम् उच्यते; तथा मधुराम्ल-मधुरलवण-आदि-संसर्गाणाम् अपि सति अपि अवान्तरभेदे सामान्येन उपसङ्ग्रहं कृत्वा त्रिषष्टित्व-सङ्ख्यानियमः भविष्यति इति निरस्यते, यतः मधुराम्लादिसंसर्गे अपि विजातीयः मधुरतर-मधुरतम-आदि-भेदकृतः भेदः अपरिसङ्ख्येयः भवति। वचनं हि- “रसास्तरतमाभ्यां तां सङ्ख्या-मतिपतन्ति हि” (सू.अ.२६) इति॥ च.वि.१.८॥

सुशीला पञ्जिका-
संसर्गविकल्पविस्तरः इति।संसर्गाणां विकल्पाः संसर्गविकल्पाः। संसर्गविकल्पानां विस्तरः संसर्गविकल्पविस्तरः।रसानां ये संसर्गाः तेषां विकल्पाः स्वाद्वम्लौ स्वाद्वम्लवणाः स्वाद्वम्ललवणकटवः इत्येवमादयः।तेषां विस्तरः अपरिसङ्ख्येयः भवति इत्यर्थः।
तथैव दोषाणां ये संसर्गाः तेषां विकल्पाः वृद्धवात-वृद्धपित्ते वृद्धवात-वृद्धपित्त-वृद्धकफाः इत्येवमादयः।तेषां विस्तरः अपि अपरिसङ्ख्येयः भवति इत्यर्थः।
अपरिसङ्ख्येयः इति। परिसङ्ख्येयाः गणनार्हाः।गणयितुं शक्यन्ते इति।न परिसङ्ख्येयाः अपरिसङ्ख्येयाः।येषां गणना न शक्या, ते अपरिसङ्ख्येयाः।
विकल्पभेदापरिसङ्ख्येयत्वात् इति।विकल्पानां भेदाः विकल्पभेदाः। विकल्प-भेदानाम् अपरिसङ्ख्येयत्वं विकल्पभेदापरिसङ्ख्येयत्वम्।विकल्पानां ये भेदाः ते अगणिताः सन्ति अतः इति अर्थः।
रसविकल्पानां भेदाः स्वाद्वम्लौ स्वाद्वम्लवणाः स्वाद्वम्ललवणकटवः इत्येवमादयः।तेषां भेदाः स्वाद्वम्लौ स्वादुतराम्लौ, स्वादुतमाम्लौ, स्वाद्वम्लतरौ, स्वाद्वम्लतमौ इत्येवमादयः।एतादृशाः रसविकल्पानां भेदाः गणयितुं न शक्यन्ते अतः ते अपरिसङ्ख्येयाः।एतेषाम् अपरिसङ्ख्येयानां विस्तऱः अपि अपरिसङ्ख्येयः एव भविष्यति अतः अत्र न उच्यन्ते इति सम्बन्धः।
एवमेव दोषविकल्पानां भेदाः अपरिसङ्ख्येयाः भवन्ति।तेषां विस्तरः अपि अपरिसङ्ख्येयः।तस्मादत्र नोक्तः॥ च.वि.१.८॥

च.वि.१.०७       चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका        च.वि.१.०९
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.०८&oldid=7321" इत्यस्माद् प्रतिप्राप्तम्