चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वम् =
चाक्षुषत्वम्।चक्षुर्ग्राह्यत्वम्।
यथा रूपे चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वं,चाक्षुषत्वं, चक्षुर्ग्राह्यत्वं वा विद्यते।
यथा कार्ष्ण्ये चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वं,चाक्षुषत्वं, चक्षुर्ग्राह्यत्वं वा विद्यते।

चक्षुरिन्द्रियजन्यप्रत्यक्षत्वम् =
चाक्षुषत्वम्।
यथा रूपज्ञाने चक्षुरिन्द्रियजन्यप्रत्यक्षत्वं, चाक्षुषत्वं वा विद्यते।
यथा रुग्णत्वचि पीतवर्णं वैद्यः पश्यति तदा पीतवर्णज्ञाने चाक्षुषत्वं, चक्षुरिन्द्रियजन्य-प्रत्यक्षत्वं वा विद्यते।

चक्षुर्ग्राह्यत्वम् =
चाक्षुषत्वम्।चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।
यथा रूपे चाक्षुषत्वं, चक्षुर्ग्राह्यत्वं, चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वं वा विद्यते।
यथा कार्ष्ण्ये चक्षुर्ग्राह्यत्वं, चाक्षुषत्वं,चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वं वा विद्यते।

चाक्षुषत्वम् =
चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।चक्षुर्ग्राह्यत्वम्।
यथा रूपे चाक्षुषत्वं ,चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वं,चक्षुर्ग्राह्यत्वं वा विद्यते।
यथा कार्ष्ण्ये चाक्षुषत्वं, चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वं,चक्षुर्ग्राह्यत्वं वा विद्यते।

चाक्षुषत्वम् =
चक्षुरिन्द्रियजन्यप्रत्यक्षत्वम्।
रूपज्ञाने चाक्षुषत्वं, चक्षुरिन्द्रियजन्यप्रत्यक्षत्वं वा विद्यते।
रुग्णत्वचि पीतवर्णं वैद्यः पश्यति तदा पीतवर्णज्ञाने चाक्षुषत्वं, चक्षुरिन्द्रियजन्य-प्रत्यक्षत्वं वा विद्यते।

जनकत्वम् =
कारणत्वम् ।हेतुत्वम्।प्रयोजकत्वम् (व्यवहितकारणे)।
यथा पटं प्रति तन्तूनां जनकत्वं, कारणत्वं, हेतुत्वं वा विद्यते।
पटं प्रति कार्पासस्य प्रयोजकत्वं विद्यते।
यथा अन्नरसं प्रति अन्नस्य जनकत्वं कारणत्वं हेतुत्वं वा विद्यते।
अन्नरसं प्रति पञ्चभूतानां प्रयोजकत्वं विद्यते।

जन्यजनकभावः =
कार्यकारणभावः।हेतुहेतुमद्भावः।साध्यसाधनभावः।
तन्तुपटयोः जन्यजनकभावः, कार्यकारणभावः, हेतुहेतुमद्भावः, साध्यसाधनभावः वा विद्यते।
जलकफयोः जन्यजनकभावः,कार्यकारणभावः, हेतुहेतुमद्भावः, साध्यसाधनभावः वा विद्यते।

जन्यत्वम् =
कार्यत्वम्।हेतुमत्त्वम्।प्रयोज्यत्वम् (व्यवहितकार्ये)।
यथा पटे तन्रुजन्यत्वं, तन्तुकार्यत्वं ,तन्तुहेतुमत्त्वं, कार्पासप्रयोज्यत्वं (व्यवहितकार्यत्वं) वा विद्यते।
यथा अन्नरसे अन्न-जन्यत्वं,अन्न-कार्यत्वं ,अन्न-हेतुमत्त्वं, पञ्चभूत-प्रयोज्यत्वं (व्यवहितकार्यत्वं) वा विद्यते।

जातिः =
सामान्यम्।
यथा घटत्वम् इति जातिः सामान्यम् वा।
धातुत्वम् इति जातिः सामान्यं वा।

ज्ञाननिरूपितत्वम् =
ज्ञानीयत्वम् ।
घटस्य ज्ञानम् इत्यत्र घटे ज्ञाननिरूपितत्वं, ज्ञानीयत्वं वा विद्यते।
शरीरस्य ज्ञानमित्यत्र शरीरे ज्ञाननिरूपितत्वं, ज्ञानीयत्वं वा विद्यते।

ज्ञानम् =
ग्रहः।धी:।प्रतीतिः।प्रत्ययः।बुध्दिः।बोधः।संवित्।
यथा देवदत्तः घटं जानाति इत्युक्ते देवदत्तस्य घटज्ञानं घटग्रहः, घटधीः, घटप्रतीतिः, घटप्रत्ययः, घटबुध्दिः, घटबोधः, घटसंवित् वास्ति ।
यथा वैद्यः शरीरं जानाति इत्युक्ते वैद्यस्य शरीरज्ञानं शरीरग्रहः, शरीरधीः, शरीरप्रतीतिः, शरीरप्रत्ययः, शरीरबुध्दिः, शरीरबोधः, शरीरसंवित् वास्ति ।

ज्ञानीयत्वम् =
ज्ञाननिरूपितत्वम्।
घटस्य ज्ञानम् इत्यत्र घटे ज्ञानीयत्वं, ज्ञाननिरूपितत्वं वा विद्यते।
शरीरस्य ज्ञानमित्यत्र शरीरे ज्ञानीयत्वं, ज्ञाननिरूपितत्वं वा विद्यते।

ज्ञेयः =
अभिधेयः। पदार्थः। प्रमेयम्।
यथा घटः ज्ञेयः, अभिधेयः, पदार्थः प्रमेयं वा।
यथा कफः अभिधेयः, ज्ञेयः, पदार्थः प्रमेयं वा।
न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=च,ज...&oldid=7295" इत्यस्माद् प्रतिप्राप्तम्