चिद्विषयत्वं दृश्यत्वम्

प्र.- स्पष्टीकुरुत – ‘ चिद्विषयत्वं दृश्यत्वम् ’।
उ.-
सन्दर्भ: -
विमतं मिथ्या, दृश्यत्वात् इति अनुमानं सिद्धान्तपक्षेण कृतम्।तत्र दृश्यत्वहेतो: षड् अर्था: सम्भवन्ति। तेषु अर्थेषु अयमन्यतम: अर्थ: चिद्विषयत्वं दृश्यत्वमिति। अयमर्थ: सिद्धान्तमते अङ्गीकृत:।
स्पष्टीकरणम्-
अस्मिन् अर्थे पूर्वपक्षेण केचन दोषा: दर्शिता: -
दोष: १
‘अहं ब्रह्म न जानामि स्म, इदानीं जानामि’ इत्यत्र चिद्विषयत्वं ब्रह्मणि।अत: दृश्यत्वहेतु: ब्रह्मणि स्थित:।साध्यभूतं मिथ्यात्वं ब्रह्मणि नास्ति।एवं साध्याभाववति ब्रह्मणि दृश्यत्वरूपहेतो: सद्भावात् व्यभिचारदोष:।
समाधानम्-
यत्र भेद: तत्र सम्बन्ध:।यत्र सम्बन्ध: तत्र भेद: इति भेदसम्बन्धयो: अनन्तरीयकत्वम् (समनियतत्वम्)अस्ति।अस्मन्मते ब्रह्म सर्वभेदशून्यम्।अत: तत्र न कोऽपि सम्बन्ध: सम्भवति।सर्वव्यापकत्वात् चैतन्यस्य चित्सम्बन्ध: नास्ति। अत: चिद्विषयत्वं तत्र न सम्भवति।
दोष:२
तुच्छं चिद्विषय:।तेन तत्र चिद्विषयत्वं प्राप्तम्।तुच्छं तु न मिथ्या।अत: मिथ्यात्वरूपसाध्याभाववति तुच्छे चिद्विषयत्वरूप: (दृश्यत्वरूप:) हेतु: प्रसक्त:। अत: व्यभिचारदोष:।
समाधानम्-
अस्तित्वप्रकारकधीविषयत्वे सति चिद्विषयत्वम् इति परिष्कार: कार्य:।तुच्छं चिद्विषयं भवति चेदपि अस्तित्वप्रकारकधीविषयत्वं तत्र नास्ति।अत: दृश्यत्वरूप: हेतु: तत्र न सम्भवति।

लघूत्तरप्रश्ना: