चरितं रघुनाथस्य ...महापातकनाशनम्

मूलम्
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥

पदच्छेदः
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।एक-एकम् अक्षरं पुंसां महापातकनाशनम् ॥१॥

अन्वयः
रघुनाथस्य चरितं शतकोटिप्रविस्तरम् अस्ति।तत्र एक-एकम् अक्षरं पुंसां महापातक-नाशनम् अस्ति॥१॥

सरलार्थः
रामस्य चरित्रस्य विस्तरः शतकोटिपर्यन्तम् अस्ति।तस्य चरित्रस्य एकम् एकम् अक्षरम् अपि जनानां महापातकानि नाशयति॥१

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
एकैकम् एक-एकम् वृद्धिरेचि।६.१.८७

समासविग्रहः १
रघुनाथस्य
रघूणां नाथः,तस्य।...षष्ठी।२.२.८


एकैकम्
एकं च एकं च एकैकम्।...एकं बहुव्रीहिवत्।८.१.९


महापातकनाशनम्
महत् पातकम् महापातकम्।... विशेषणं विशेष्येण बहुलम्।२.१.५७
महापातकस्य नाशनं महापातकनाशनम्।...षष्ठी।२.२.८


रामरक्षास्तोत्रम् - सान्वयं सार्थम्