चरकसंहितायां सूत्रस्थाने तस्याशितीयाध्यायः

०१-०८सम्पाद्यताम्

मूलम्
अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः१।
इति ह स्माह भगवानात्रेयः॥२॥

पदच्छेदः-
अथ अतः तस्याशितीयम् अध्यायं व्याख्यास्यामः १।
इति ह स्म आह भगवान् आत्रेयः॥२॥

अन्वयः-
अथ अतः (वयं) तस्याशितीयम् अध्यायं व्याख्यास्यामः १।
भगवान् आत्रेयः इति ह स्म आह ॥२॥

सरलार्थः-
भगवान् आत्रेयः उक्तवान् यत् ‘अधुना वयं तस्याशितीयनामकस्य अध्यायस्य व्याख्यानं करिष्यामः’॥१,२

आयुर्वेददीपिका
मात्राशितीये मात्रावद्-आहारस्य बलादिहेतुत्वं प्रतिपादितं, तत् च ऋतुसात्म्यम् अपेक्ष्य कृतस्य आहारस्य भवति; तेन,ऋतु-प्रविभागपूर्वकम् ऋतुसात्म्य-अभिधायकं तस्याशितीयं ब्रूते।१-२

मूलम्
तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते॥
यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्॥३॥

पदच्छेदः-
तस्य अशितादि-आहारात् बलं वर्णः च वर्धते॥
यस्य ऋतुसात्म्यं विदितं चेष्टा-आहारव्यपाश्रयम्॥३॥

अन्वयः-
यस्य चेष्टा-आहारव्यपाश्रयम् ऋतुसात्म्यं विदितं, तस्य अशितादि-आहारात् बलं वर्णः च वर्धते॥३॥

सरलार्थः-
यः नरः चेष्टाविषयकम् ऋतुसात्म्यं जानाति, आहारविषयकम् ऋतुसात्म्यं जानाति, तस्य अशित-पीत-लीढ-जग्धरूपात् आहारात् बलं वर्धते, वर्णः च वर्धते॥३

आयुर्वेददीपिका
अशिताद्यात् इति अशित-पीत-लीढ-जग्धात्। बलं वर्णः च इति चकारेण पूर्वाध्यायोक्त-सुखायुषी अपि गृह्येते; यदि वा बलवर्णाभ्याम् एव नान्तरीयकं कृत्स्नं धातुसाम्यकार्यं सुखादि गृह्यते।विदितम् इति अनेन सम्यक्ज्ञानपूर्वकम् ऋतुसात्म्य-अनुष्ठानं दर्शयति। चेष्टाग्रहणेन व्यवाय-व्यायाम-अभ्यङ्गादीनां ग्रहणम्।चेष्टा-आहारव्यपाश्रयं चेष्टा-आहारगोचरम् ॥३॥

मूलम्
इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्।तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन्पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च।४।

पदच्छेदः-
इह खलु संवत्सरं षडङ्गम् ऋतुविभागेन विद्यात्।तत्र आदित्यस्य उदगयनम् आदानं च त्रीन् ऋतून् शिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन् पुनः हेमन्त-अन्तान् दक्षिणायनं विसर्गं च।४।

अन्वयः-
इह खलु संवत्सरम् ऋतुविभागेन षडङ्गं विद्यात्।तत्र आदित्यस्य उदगयनम् आदानं च शिशिरादीन् ग्रीष्मान्तान् त्रीन् ऋतून् व्यवस्येत्, पुनः वर्षा-आदीन् हेमन्त-अन्तान् दक्षिणायनं विसर्गं च (व्यवस्येत्,)।४।

सरलार्थः-
संवत्सरस्य ऋतुशः विभागेन षड् अङ्गानि भवन्ति।यदा सूर्यः उत्तरां दिशं गच्छति, तदा सः आदानकालः।तत्र शिशिरः वसन्तः तथा ग्रीष्मः इति त्रयः ऋतवः भवन्ति।सूर्यः यदा दक्षिणां दिशं गच्छति, तदा सः विसर्गकालः।तत्र वर्षा, शरत् तथा हेमन्तः इति त्रयः ऋतवः भवन्ति॥४

आयुर्वेददीपिका
ऋतुज्ञानम् अन्तरा ऋतुसात्म्यज्ञानं न सम्भवति इति ऋतूनाम् उपयुक्त-स्वरूप-ज्ञानार्थम् आह-इह इत्यादि। ऋतुप्रतिपादनप्रस्तावे संवत्सरं विद्याद् इति संवत्सरप्रतिपादनम् ऋतूनाम् एव मिलितानां संवत्सरत्व-प्रतिपादनार्थम्। मेलकश्च बुद्ध्या व्यवह्रियते, न तु परमार्थतः ऋतूनां मेलकः अस्ति। ऋतूनां संवत्सरात्मकत्वं पुनः पुनः ते एव ऋतवः परावर्तन्ते इति ज्ञानार्थम् अवश्यं प्रतिपादनीयम्। इह इति इह प्रकरणे, षडङ्गं विद्यात् अन्यत्र तु रोगभिषग्जितीयादौ तत्-तत्-कार्यवशाद् अन्यथा अपि उक्तं च- “शीत-उष्ण-वर्षलक्षणः कालः” इत्यादि। षडङ्गम् इति समाहारे द्विगुः, ऋतुव्यतिरेकेण संवत्सरस्य अविद्यमानत्वात्; यदि वा समुदायिभ्यः अन्यः समुदायः इति आश्रित्य बहुव्रीहिः कार्यः। तत्र इति ऋतुविभागकथने। उदग् उत्तरां दिशं प्रति, अयनं गमनम् उदगयनम्। आददाति क्षपयति पृथिव्याः सौम्यांशं प्राणिनां च बलम् इति आदानम्। त्रीन् शिशिर-आदीन् इति अनेन एव लब्धे अपि ग्रीष्मान्तत्वे ग्रीष्मान्तान् इति शिशिरस्य आदिः इति विग्रहस्य तथा आदिशब्दस्य प्रकारवाचितायाः प्रतिषेधार्थम्। एवं हेमन्तान्तान् इति च व्याख्येयम्। दक्षिणां दिशं प्रति अयनं दक्षिणायनम्। विसृजति जनयति आप्यम् अंशं प्राणिनां च बलम् इति विसर्गः। सञ्ज्ञाप्रणयनं च व्यवहारार्थं, निरुक्ति-प्रतीयमान-अर्थ-प्रतिपादनार्थं च॥४॥

मूलम्
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने; सोमश्चाव्याहतबलःशिशिराभिर्भाभिरापूरयञ्जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः। आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते।५।

पदच्छेदः-
विसर्गे पुनः वायवः न अतिरूक्षाः प्रवान्ति, इतरे पुनः आदाने; सोमः च अव्याहतबलः शिशिराभिः भाभिः आपूरयन् जगद् आप्याययति शश्वत्, अतः विसर्गः सौम्यः।
आदानं पुनः आग्नेयं; तौ एतौ अर्कवायू सोमः च काल-स्वभाव-मार्ग-परिगृहीताः काल-ऋतु-रस-दोष-देह-बलनिर्वृत्ति-प्रत्ययभूताः समुपदिश्यन्ते।५।

अन्वयः-
पुनः विसर्गे वायवः न अतिरूक्षाः प्रवान्ति, इतरे (वायवः) पुनः आदाने (प्रवान्ति)। सोमः च अव्याहतबलः शिशिराभिः भाभिः शश्वत् जगद् आपूरयन् आप्याययति। अतः विसर्गः सौम्यः।आदानं पुनः आग्नेयम्। तौ एतौ अर्कवायू सोमः च काल-स्वभाव-मार्ग-परिगृहीताः (सन्तः) काल-ऋतु-रस-दोष-देहबल-निर्वृत्ति-प्रत्ययभूताः समुपदिश्यन्ते।५

सरलार्थः-
विसर्गकाले वायवः अतिरूक्षाः न सन्ति।आदाने वायवः अतिरूक्षाः सन्ति।विसर्गकाले सोमस्य बलम् अक्षुण्णं भवति।तस्य प्रकाशः शीतलः।तेन प्रकाशेन सोमः जगत् पूरयति, पोषयति च।अतः विसर्गः सोमप्रधानः भवति।आदानकालः अग्निप्रधानः भवति।सूर्यः च वायुः च सोमः च क्वचित् कालेन क्वचित् स्वभावेन, क्वचित् मार्गेण सम्बद्धः भवन्ति।ततः ते कालस्य ऋतूनां रसानां दोषाणां देहबलस्य च निष्पत्तौ निमित्तं भवन्ति।

आयुर्वेददीपिका
विसर्गधर्मं निर्दिशति- विसर्गे पुनः इत्यादि। यद्यपि च आदानम् आदौ पठितं, तथा अपि प्रतिलोमतन्त्रयुक्त्या आदौ विसर्गगुणकथनं; यदि वा प्रथमम् आदानस्य उत्तरायण-रूपस्य प्रशस्तत्वाद् अग्रे अभिधानम्, इह तु विसर्गस्य बलजनकत्वेन अभिप्रेतत्वाद् अग्रे अभिधानम्। नातिरूक्षाः इति सौम्य-विसर्गकाल-सम्बन्धेन मन्दीकृत-रौक्ष्याः प्रवान्ति इति। इतरे पुनः आदाने इति अप्रशान्त-अतिरूक्षाः च, आग्नेय-आदान-सम्बन्ध-आहित-रूक्षत्वात्। सोमः च इत्यादि प्रकृतेन विसर्गेण सम्बध्यते। अव्याहतबलः इति कालमार्ग-मेघवात-आदिभिः तदा सूर्यस्य सोमपरिपन्थिनः हतबलत्वात्। शिशिराभिः शीताभिः।शश्वद् इति छेदः। सौम्यः सोमगुणप्रधानः। आग्नेयम् अग्निगुणप्रधानम्, अप्रतिहतबलत्वेन इति अर्थः। ननु एतावता एव आदित्य-चन्द्र-वातानां बलवत्त्वम् अबलवत्त्वं च कथं भवति इति आह-तौ एतौ इत्यादि। कालः देवतारूपः, सः च नित्यरूपः अपि प्राणिनाम् अदृष्टेन नानारूपेण गृहीतः सन् कदाचित् सूर्यबल-वायुबल-सोमबलादीन् करोति; स्वभावः सूर्यस्य सौम्यांश-क्षयकर्तृत्वादिः वायोः विरूक्षणादिः सोमस्य आप्यायनादिः; मार्गः दक्षिणः उत्तरः च, तत्र दक्षिणः कर्कटादयः धनुरन्ताः, मकरादिः उत्तरः।एते च काल-स्वभाव-मार्गपरिग्रहाः यथासम्भवं बोद्धव्याः; न हि सोमे मार्गपरिग्रहः क(कि)ञ्चिद् विशेषम् आवहति, वायोः च मार्गपरिग्रहः एव नास्ति। परिगृहीताः सम्बद्धाः। काल-ऋतु आदीनां निर्वृत्ति-प्रत्यय-भूताः निष्पत्ति-कारण-भूताः, उपदिश्यन्ते ‘आचार्यैः’ इति शेषः; कालः संवत्सरः अयनद्वयं च, ऋतवः शिशिर-आदयः, देहस्य बलं देहबलम्। अन्ये तु ब्रुवते-संवत्सरस्य अयनद्वयस्य च ऋतुमेलकरूपत्वात् ऋतुग्रहणेन एव ग्रहणं लब्धं, तेन काल-ग्रहणम् ऋतुविशेषणं, तेन कालरूपः ऋतुः इति स्त्रीणाम् एव आर्तवदर्शनं यद् ऋतुः तद् व्यावर्त्यते।प्रत्ययभूताः इति अत्र भूतशब्दः उपमाने।केचित् व्याख्यानयन्ति- ‘अर्कवायू’ इति एकतया पठित्वा ‘सोमश्च’ इति यत् पृथक् पठति,तेन अर्कवाय्वोः मिलितयोः आदानं प्रति कारणत्वं, विसर्गं प्रति पृथग् एव सोमस्य कारणत्वम् इति दर्शयति। एवं बलहरण-बलकरणादिषु अपि बोद्धव्यम्॥५॥

मूलम्
तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथाक्रमं रौक्ष्यमुत्पादयन्तो रूक्षान् रसांस्तिक्तकषाय-कटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति।६

पदच्छेदः-
तत्र रविः भाभिः आददानः जगतः स्नेहं वायवः तीव्र-रूक्षाः च उप-शोषयन्तः शिशिर-वसन्त-ग्रीष्मेषु यथाक्रमं रौक्ष्यम् उत्पादयन्तः रूक्षान् रसान् तिक्त-कषाय-कटुकान् च अभिवर्धयन्तः नृणां दौर्बल्यम् आवहन्ति।६

अन्वयः-
तत्र रविः भाभिः जगतः स्नेहम् आददानः, वायवः तीव्र-रूक्षाः च उप-शोषयन्तः शिशिर-वसन्त-ग्रीष्मेषु यथाक्रमं रौक्ष्यम् उत्पादयन्तः रूक्षान् रसान् तिक्त-कषाय-कटुकान् च अभिवर्धयन्तः नृणां दौर्बल्यम् आवहन्ति।६

सरलार्थः-
आदानकाले सूर्यः किरणैः जगतः स्नेहम् आददाति।तीव्ररूक्षाः वायवः जगतः स्नेहस्य शोषणं कुर्वन्ति।तेन सूर्यवायवः शिशिरे, वसन्ते ग्रीष्मे क्रमशः रौक्ष्यम् जनयन्ति, रूक्षान् तिक्तकषायकटुकान् रसान् वर्धयन्ति तथा जनानां दौर्बल्यम् उत्पादयन्ति॥६

आयुर्वेददीपिका
तत्र इत्यादि। आददानः उच्छोषयन्। जगतः स्थावरजङ्गमस्य। स्नेहं सारं सौम्यभागम् इति अर्थः। न केवलं रविः,वायवः च शोषयन्तः स्नेहम् इति सम्बन्धः। तीव्राः च रूक्षाः च तीव्ररूक्षाः; यदि वा तीव्रं रौक्ष्यं येषां ते तीव्ररूक्षाः;एतत् च आदाने तीव्रेण रविणा सम्बन्धात् वायोः भवति योगवाहित्वात् वायोः। उक्तं हि-“योगवाही(हः) परं वायुः संयोगात् उभयार्थकृत्” (चि.अ.३) इत्यादि। यथाक्रमम् इति शिशिरे रौक्ष्यम् अल्पं तिक्तं रसम् अल्पं च दौर्बल्यं, तथा वसन्ते मध्यं रौक्ष्यं कषायं रसं मध्यं दौर्बल्यं, तथा ग्रीष्मे प्रकृष्टं रौक्ष्यं कटुकं रसं महत् च दौर्बल्यं दर्शयति। यद्यपि च कषायः रसः रूक्षतमः कटुकः च रूक्षतरः, यद् उक्तं-“रौक्ष्यात् कषायो रूक्षाणां प्रवरो मध्यमः कटुः” (सू.अ.२६) इत्यादि; रौक्ष्यप्रकर्षः च ग्रीष्मे, मध्यबलं च रौक्ष्यं वसन्ते, तथा अपि वायु-अग्निगुण-बाहुल्यात् कटुकस्य वायु-अग्निगुणबहुले ग्रीष्मकाले एव उत्पत्तिः, पवन-पृथिवी-उत्कर्षवति तु वसन्ते पवन-पृथिवी-उत्कर्षजन्यस्य कषायस्य उत्पत्तिः। यदुक्तं-“वाय्वग्नि-गुणभूयिष्ठत्वात् कटुकः, पवन-पृथिव्यतिरेकात् कषायः” (सू.अ.२६) इति।पृथिवी-आदि-उत्कर्षः च कालविशेषप्रभावकृतः कार्यदर्शनात् उन्नेयः। अभिवर्धयन्तः इति वचनात् यथास्वकाले तिक्त-आदीनाम् अभिवृद्धिः सूच्यते, तेन न तद्-एकरसत्वम्। अत्र च क्रमवद्-रौक्ष्य-उत्पत्ति-तिक्तादि-उत्पत्ती अपि दौर्बल्य-उत्पत्तौ कारणं, यतो रौक्ष्यम् उत्पादयन्तः इति तिक्त-कषाय-कटुकान् अभिवर्धयन्तः इति च हेतुगर्भ-विशेषणद्वयं कृत्वा दौर्बल्यम् आवहन्ति इति उक्तम्॥६॥

मूलम्
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि चाव्याहतबले, माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति॥७

पदच्छेदः-
वर्षा-शरद्-हेमन्तेषु तु दक्षिणाभिमुखे अर्के काल-मार्ग-मेघवात-वर्षा-अभिहतप्रतापे, शशिनि च अव्याहतबले, माहेन्द्रसलिल-प्रशान्त-सन्तापे जगति, अरूक्षाः रसाः प्रवर्धन्ते अम्ल-लवण-मधुराः यथाक्रमं तत्र बलम् उपचीयते नृणाम् इति॥७

अन्वयः-
वर्षा-शरद्-हेमन्तेषु तु दक्षिणाभिमुखे, काल-मार्ग-मेघवात-वर्षा-अभिहतप्रतापे अर्के, शशिनि च अव्याहतबले, माहेन्द्रसलिल-प्रशान्त-सन्तापे जगति, अम्ल-लवण-मधुराः अरूक्षाः रसाः यथाक्रमं प्रवर्धन्ते। तत्र बलम् उपचीयते नृणाम् इति॥७

सरलार्थः-
वर्षा-शरद्-हेमन्तेषु सूर्यः दक्षिणाभिमुखः भवति।कालेन, दक्षिणमार्गेण, मेघस्य वातेन, वृष्ट्या च सूर्यस्य तापः अभिभूतः भवति।चन्द्रस्य बलम् अव्याहतं भवति।जगति महेन्द्रजलेन तापः शान्तः भवति। अस्यां दशायां जगति अरूक्षाः अम्ल-लवण-मधुराः रसाः क्रमात् वर्धन्ते।तदा जनानां बलम् उपचितं भवति॥७

आयुर्वेददीपिका
वर्षा इत्यादि। तुशब्दः पूर्वपक्षव्यावृत्तौ। दक्षिणाभिमुखे दक्षिणाशां गन्तुम् उद्यते एव अर्के, तेन विषुवद्-उदय-उपलक्षित-मध्यदेशात् उत्तरेण वर्तमानः अपि रविः यदा एव दक्षिणाशां गन्तुम् उद्यतः भवति तदा एव क्षीयमाणबलः अपि भवति, उत्तराशा-गमन-प्रकर्ष-आहित-बलप्रकर्षतया तु स्तोक-स्तोक-क्रम-अपचीयमानबलः अपि तथा दुर्बलः न लक्ष्यते। एवम् उत्तरायणे अपि व्याख्येयम्। कालः पूर्वं व्याख्यातः, मार्गः इह दक्षिणाभिमुखः, मेघस्य वातः मेघवातः, वर्षणं वर्षः, एतैः अभिहतप्रतापे अर्के इति सम्बन्धः। वातः तु इह मेघसम्बन्ध-आहितशैत्यः अर्क-ताप-परिपन्थी भवति, शशिनः अव्याहतबलत्वं सूर्यस्य परिपन्थिनः अभिहत-प्रतापत्वाद् अनुगुण-मेघ-वात-वर्षण-योगात् च। जगति स्थावरजङ्गमे। अत्र च “पृथिवी-अग्नि-भूयिष्ठत्वात् अम्लः”, “सलिल-अग्नि-भूयिष्ठत्वात् लवणः” (सू.अ.२६) इत्युक्तं, तत्कथं सौम्ये विसर्गे तयोः च आग्नेययोः उत्पादः इति न वाच्यम्, यतः बलप्रकर्षवतः अर्कस्य क्षीयमाणबलस्य अपि विषुवपर्यन्तं बलवत्त्वम् अस्ति एव इति व्युत्पादितम् एव॥७॥

मूलम्
भवति चात्र-
आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्।
मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत्॥८

पदच्छेदः-
भवति च अत्र-
आदौ अन्ते च दौर्बल्यं विसर्ग-आदानयोः नृणाम्।
मध्ये मध्यबलं, तु अन्ते श्रेष्ठम् अग्रे च निर्दिशेत्॥८

अन्वयः-
भवति च अत्र-
नृणाम् विसर्ग-आदानयोः आदौ अन्ते च दौर्बल्यं (निर्दिशेत्), । विसर्ग-आदानयोः मध्ये मध्यबलं,( निर्दिशेत्)। तु विसर्गस्य अन्ते आदानस्य अग्रे च श्रेष्ठं बलं निर्दिशेत्॥८

सरलार्थः-
विसर्गस्य आरम्भे (वर्षासु), आदानस्य अन्ते (ग्रीष्मे) च नृणां बलं न्यूनं भवति।
विसर्गस्य मध्ये (शरदि) तथा आदानस्य मध्ये (वसन्ते) जनानां बलं मध्यमं भवति।
विसर्गस्य अन्ते (हेमन्ते) तथा आदानस्य आदौ (शिशिरे) नृणां बलम् उत्तमं भवति।८

आयुर्वेददीपिका
सम्प्रति शिशिरादौ बलह्रासः प्रतिपादितः वर्षादौ च बल-उत्कर्षः; तत्र शिशिरे दुर्बलाः वर्षासु बलवन्तः प्राणिनः भवन्ति इत्यादि-दुर्ग्रहं निषेद्धुम् आह- आदावन्ते चेत्यादि। विसर्गस्य आदौ वर्षासु, आदानस्य अन्ते ग्रीष्मे, दौर्बल्यं प्रकर्षंप्राप्तं निर्दिशेत् इति सम्बन्धः;तथा मध्ये विसर्गस्य शरदि, आदानस्य मध्ये वसन्ते, मध्यं नातिक्षीणं नातिवृद्धं बलं विनिर्दिशेत् इति योज्यं; तथा अन्ते विसर्गस्य हेमन्ते, अग्रे च प्रथमे आदानस्य शिशिरे, श्रेष्ठं बलं विनिर्दिशेत् इति योजना। एवं मन्यते-विसर्गप्रकर्ष-आहित-बलप्रकर्षः पुरुषः आदानस्य आदौ शिशिरे स्तोक-क्षीयमाणबलः अपि बलवान् भवति, यथा-पौषमासान्त-आहित-वृद्धि-प्रकर्षा निशा माघफाल्गुनयोः क्षीयमाणा अपि दिवसात् महती एव भवति। अनेन न्यायेन वर्षासु दौर्बल्यं, वसन्तशरदोः च मध्यमं बलं बोद्धव्यम्। एवं कालर्तुरसदेहबल-कारणत्वम् अर्कादीनां व्यवस्थापितं, दोषकारणत्वं तु अग्रे ऋतुविधाननिर्देशे अभिधास्यते ॥८

०९-१८सम्पाद्यताम्

मूलम्
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली।
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः॥९॥
स यदा नेन्धनं युक्तं लभते देहजं तदा।
रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति।१०॥|
तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान्।
औदकानूपमांसानां मेद्यानामुपयोजयेत्॥११
बिलेशयानां मांसानि प्रसहानां भृतानि च।
भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः।१२।
गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्।
हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते॥१३॥
अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्।
भजेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा॥१४
शीतेषु संवृतं सेव्यं यानं शयनमासनम्।
प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्॥१५
गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा।
शयने प्रमदां पीनां विशालोपचितस्तनीम्॥१६
आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः।
प्रकामं च निषेवेत मैथुनं शिशिरागमे॥१७
वर्जयेदन्नपानानि वातलानि लघूनि च।
प्रवातं प्रमिताहारमुदमन्थं हिमागमे॥१८

पदच्छेदः-
शीते शीत-अनिलस्पर्शसंरुद्धः बलिनां बली।
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः॥९॥
सः यदा न इन्धनं युक्तं लभते देहजं तदा।
रसं हिनस्ति अतः वायुः शीतः शीते प्रकुप्यति।१०॥
| तस्मात् तुषारसमये स्निग्ध-अम्ल-लवणान् रसान्।
औदक-आनूप-मांसानां मेद्यानाम् उपयोजयेत्॥११
बिलेशयानां मांसानि प्रसहानां भृतानि च।
भक्षयेत् मदिरां शीधुं मधु च अनुपिबेत् नरः।१२।
गोरसान् इक्षुविकृतीः वसां तैलं नव-ओदनम्।
हेमन्ते अभ्यस्यतः तोयम् उष्णं च आयुः न हीयते॥१३॥
अभ्यङ्ग-उत्सादनं मूर्ध्नि तैलं जेन्ताकम् आतपम्।
भजेद् भूमिगृहं च उष्णम् उष्णं गर्भगृहं तथा॥१४
शीतेषु संवृतं सेव्यं यानं शयनम् आसनम्।
प्रावार-अजिन-कौषेय-प्रवेणी-कुथक-आस्तृतम्॥१५
गुरु-उष्णवासाः दिग्धाङ्गः गुरुणा अगुरुणा सदा।
शयने प्रमदां पीनां विशाल-उपचितस्तनीम्॥१६
आलिङ्ग्य अगुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः।
प्रकामं च निषेवेत मैथुनं शिशिरागमे॥१७
वर्जयेत् अन्नपानानि वातलानि लघूनि च।
प्रवातं प्रमिताहारम् उदमन्थं हिमागमे॥१८

अन्वयः-
शीते हेमन्ते बलिनां शीत-अनिलस्पर्शसंरुद्धः पक्ता बली मात्राद्रव्यगुरु-क्षमः (च) भवति ॥९॥
सः यदा युक्तं इन्धनं न लभते तदा,देहजं रसं हिनस्ति अतः वायुः प्रकुप्यति ।शीते (च) शीतः वायुः प्रकुप्यति।१०॥
| तस्मात् तुषारसमये मेद्यानाम् औदक-आनूप-मांसानां स्निग्ध-अम्ल-लवणान् रसान् उपयोजयेत्॥११
नरः बिलेशयानां मांसानि प्रसहानां भृतानि (मांसानि) च भक्षयेत् । मदिरां शीधुं मधु च अनुपिबेत् ।१२।
हेमन्ते गोरसान्, इक्षुविकृतीः, वसां, तैलं, नव-ओदनम्, उष्णं तोयं च अभ्यस्यतः (नरस्य) आयुः न हीयते॥१३॥
अभ्यङ्ग-उत्सादनं, मूर्ध्नि तैलं, जेन्ताकम्, आतपम्, उष्णं भूमिगृहं तथा उष्णं गर्भगृहं च भजेत् ॥१४
शीतेषु यानं शयनम् आसनम् प्रावार-अजिन-कौषेय-प्रवेणी-कुथक-आस्तृतम् संवृतं (च) सेव्यं । ॥१५
गुरु-उष्णवासाः गुरुणा अगुरुणा सदा दिग्धाङ्गः, समदमन्मथः (नरः), शयने पीनां विशाल-उपचितस्तनीम् अगुरुदिग्धाङ्गीं प्रमदाम् आलिङ्ग्य सुप्यात्। शिशिरागमे मैथुनं प्रकामं च निषेवेत ॥१६,१७
हिमागमे वातलानि लघूनि अन्नपानानि , प्रवातं, प्रमिताहारम्, उदमन्थं च वर्जयेत्॥१८

सरलार्थः-
हेमन्ते यदा शैत्यं वर्धते, तदा शीतवातस्य स्पर्शेन कोष्ठे एव अवरुद्धः जाठराग्निः सबलः भवति, तेन मात्राशः गुरु, द्रव्यशः गुरु अन्नं पक्तुं समर्थः भवति।९
तादृशः सबलः अग्निः यदा पर्याप्तम् अन्नरूपम् इन्धनं न प्राप्नोति, तदा देहे जायमानं रसं नाशयति।अतः वायुः कुप्यति। शीतकाले च शीतः वायुः कुप्यति॥१०
तस्मात् हेमन्ते मेदस्विनाम् औदकानाम् आनूपानां मांसानां रसाः भक्षणीयाः।मधुराम्ललवणरसानाम् उपयोगः कार्यः॥११
बिलेशयानां मांसानि भृष्टानि कृत्वा खादेत्।ततः मदिरां सीधुं मधु च पिबेत्॥१२
हेमन्ते गोदुग्धम्, इक्षुविकृतिं, वसां, तैलं, नव-ओदनम्, उष्णं जलं च ये शीलयन्ति, तेषाम् आयुः क्षीणं न भवति॥१३॥
अस्मिन् ऋतौ अभ्यङ्गम्, उत्सादनं, मूर्ध्नि तैलं, जेन्ताकम्, आतपम्, उष्णं भूमिगृहं तथा उष्णं गर्भगृहं च सेवेत ॥१४
शीतेषु दिवसेषु यानं वा शयनं वा आसनं वा वस्त्राच्छादितम् अथवा वस्त्रेण आवृतं सेवनीयम्। आवरणाय आच्छादनाय वा गुरु कम्बलसदृशं प्रावारम् व्याघ्रादीनां चर्म, कौषेयवस्त्रं, गोणिकावस्त्रं चित्रकम्बलं प्रयोक्तव्यम्॥१५
अस्मिन् ऋतौ गुरु उष्णं च वस्त्रं धारयेत्।देहे सदा बहलम् अगुरुलेपं कुर्यात्।कामातुरः चेत् शय्यायां पुष्टां पुष्टविशालस्तनयुक्ताम् अगुरुलेप-युक्तां स्त्रियम् आलिङ्ग्य शयीत।शिशिरागमे यथेच्छं मैथुनं सेवेत। १६,१७
हेमन्ते वातकराणि लघूनि अन्नपानानि, प्रबलं वायुम् अल्पाहारम् उदके साधितं सक्तुमन्थं न सेवेत।१८

आयुर्वेददीपिका
वर्धमानबलप्रकर्षवत्तया हेमन्तस्य अभिप्रेतत्वात् तत्सात्म्यम् एव अग्रे प्राह-शीते इत्यादिना। शीते शीतगुणयुक्ते हेमन्ते,यद्यपि च अनुक्ते शीते इति विशेषणे हेमन्तः शीतः एव लभ्यते, तथा अपि न पूर्वं क्वचिद् हेमन्ते शीतत्वं प्रतिपादितम् इति प्रतिपाद्यते; यदि वा यदा एव हेमन्ते शीतं महद् भवति तदा एव विशेषेण वह्निः बली भवति, न उपक्रममात्रेण अपि, ऋतुव्यापत्तौ शीत-अयोगे इति च शीते इति पदेन लभ्यते। हिम-सम्बन्धात् विशेषेण शीतः अनिलः शीतानिलः; विशेषेण शीतत्वं वायोः योगवाहित्वात् शीतकालसम्बन्धात् एव लब्धं पुनः अभिधीयते अग्निसंरोध-हेतुत्वात्। वायुः हि हिम-सम्बन्धात् एव बहिः-निर्गच्छत्-शरीरोष्मणः रोधं कृत्वा कुम्भकारपवन-आहित-पङ्कलेपः इव अन्तरस्य वह्नेः वृद्धिम् आवहति। एतेन यद् उच्यते-असमानात् शीतवातात् कथम् अग्निवृद्धिः इति एतद् अपास्तम्। न हि अत्र शीतः वातः अग्नित्वेन परिणमते, किं तर्हि निर्गच्छत्-त्तेजःप्रतीपीभूतः। शीतानिलस्य स्पर्शः शरीरसम्बन्धः इति अर्थः। बलिनां प्राणिनां हेमन्तस्वभावात् बली भवति; अनेन प्राणिबलवत्त्वम् अग्निबलवत्त्वे हेतुः इति दर्शयति। उक्तं च हस्तिवैद्यके बालगजानां नीरोगत्वप्रतिपादने; यथा- “अव्याहताद् अभिप्रायात् प्रीतिः, प्रीतेः बलं, बलात् अग्निः अग्नेः च धातूनां बलं , नाशः ततः रुजाम्” इति। मात्रया यद् गुरु अतिमात्रम् इति अर्थः, द्रव्यतः च द्रव्यस्वभावतः च यद् गुरु नव-धान्यादि, तत्क्षमः। एवम्भूतः बली वह्निः यदा युक्तं गुरुभूतं च अन्नं न लभते, तदा देहजं रसं हिनस्ति क्षयं नयति; देहार्थं देहजातं वा देहजं धातुरूपं रसम् इति अर्थः। अतः इन्धना-भावे सति रसधातुक्षयात् वायुः प्रकुप्यति हेमन्ते। हेत्वन्तरम् आह वातकोपे-शीतः शीते इति; यस्माद् अयं शीतगुणः वायुः, तस्मात् शीतकाले हेमन्तलक्षणे समानं कारणम् आसाद्य कुप्यति इति अर्थः।अत्र वृद्धः वायुः मेदस्विनः यथा अग्निवृद्धिं करोति, न तु वैषम्यम् अनतिवृद्धत्वात्, तथा अग्निवृद्धिम् एव करोति। यदुक्तं- “मेदसा आवृतमार्गत्वात् वायुः कोष्ठे विशेषतः। चरन् सन्धुक्षयति अग्निम् आहारं शोषयति अपि” (सू.अ.२१) इत्यादिना अष्टौनिन्दितीये। तस्माद् इति देहजरसक्षयभयात्। प्रकरणलब्धे अपि तुषार-समये इति यत् पुनः करोति, तद् विशेषेण तुषारपाते विशेषेण स्निग्धादीनां भोजनार्थम्। मेद्यानां मेदुराणाम्।औदक-आनूपमांस-आदयः च हेमन्तकाल-कफचय-संवर्धकाः अपि महात्यय-वातविकार-प्रतिपक्षत्वेन व्यवाय-आदि-कफचय-प्रतिपक्षयुक्तत्वात् च अभिप्रेताः। औदकाः कूर्मादयः अन्नपाने वक्ष्यमाणाः, अनूपाः सृमरखड्गादयः, बिलेशयाः गोधा-प्रभृतयः, प्रसहाः गोखरादयः। भृतं भट्टित्रम् इति प्रसिद्धम्। हेमन्ते अभ्यस्यतः इति पुनः हेमन्तग्रहणं हेमन्तं व्याप्य एव उष्णोदकसेवा-उपदर्शनार्थम्। जेन्ताकः स्वेदविशेषः वक्ष्यमाणः। गर्भगृहं गृहकोष्ठकम्। हेमन्ते इति अनेन अर्थलब्धे अपि शीते शीतेषु इति पदं वर्षाकालादौ अपि शीतप्राप्तौ संवृतयानादिसेवा-उपदर्शनार्थम्। प्रावारः गुरुप्रावरणं कम्बलादि, अजिनं व्याघ्रादिचर्म, कौषेयं कोषकारकीटतन्तुमयं, प्रवेणी गोणी इति प्रसिद्धा, कुथकः चित्रकम्बलः। गुरुणा अगुरुणा इति अगुरुघनप्रलेपेन इति अर्थः। विशालौ आयामेन, उपचितौ परिणाहेन। मैथुनसेवा-उपदेशः च इह प्राणिनां बलवत्त्वेन शीत-प्रतीकारकत्वेन चीयमान-कफविरुद्धत्वेन च; सुश्रुते अपि हेमन्ते मैथुनसेवा उक्ता; यदुक्तं-“ तत्र अपनीत-हाराः च प्रियाः नार्यः सु-अलङ्कृताः। रमयेयुः यथाकामं बलाद् अपि मदोत्कटाः” इति॥९-१८॥

१९-२१सम्पाद्यताम्

मूलम्
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्।
रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्॥१९
तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते।
निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्॥२०
कटुतिक्तकषायाणि वातलानि लघूनि च।
वर्जयेदन्नपानानि शिशिरे शीतलानि च॥२१

पदच्छेदः-
हेमन्तशिशिरौ तुल्यौ शिशिरे अल्पं विशेषणम्।
रौक्ष्यम् आदानजं शीतं मेघमारुतवर्षजम्॥१९
तस्मात् हैमन्तिकः सर्वः शिशिरे विधिः इष्यते।
निवातम् उष्णं तु अधिकं शिशिरे गृहम् आश्रयेत्॥२०
कटु-तिक्त-कषायाणि वातलानि लघूनि च।
वर्जयेत् अन्नपानानि शिशिरे शीतलानि च॥२१

अन्वयः-
हेमन्तशिशिरौ तुल्यौ स्तः। शिशिरे विशेषणम् अल्पम् ।शिशिरे आदानजं रौक्ष्यं (तथा) मेघमारुतवर्षजं शीतम्(अधिकम्) ॥१९
तस्मात् शिशिरे हैमन्तिकः सर्वः विधिः इष्यते। शिशिरे तु निवातम् उष्णं गृहम् अधिकम् आश्रयेत्॥२०
शिशिरे कटु-तिक्त-कषायाणि, वातलानि, लघूनि च शीतलानि च अन्न-पानानि वर्जयेत् ॥२१

सरलार्थः-
हेमन्तः शिशिरः च समानौ ऋतू।शिशिरे वैलक्षण्यम् अल्पम् ।शिशिरे आदानजं रौक्ष्यं वर्धते, तथा मेघमारुतवर्षजं शीतम् अधिकं भवति। ॥१९॥
तस्मात् यः विधिः हेमन्ते उक्तः, सः सर्वः विधिः शिशिरे अपि अनुष्ठेयः।शिशिरे वातसञ्चाररहितम् उष्णं स्थलम् अधिकतया आश्रयेत्॥२०॥
शिशिरे कटुतिक्तकषायरसात्मकानि, वातकराणि, लघूनि, शीतानि अन्नपानानि वर्जयेत्॥२१॥

आयुर्वेददीपिका
शिशिरविधिम् आह- हेमन्तेत्यादि। विशेषणं विशेषः; शिशिरस्य आदान-आरम्भत्वेन रौक्ष्यं, तथा मेघमारुतवर्षाः शिशिरे अधिकाः भवन्ति तज्जं च शीतम् अधिकं हेमन्ताद् अस्ति इत्यर्थः। तस्माद् इति हेमन्ततुल्यत्वात् विशिष्टरौक्ष्यशीतयुक्तत्वात् च हैमन्तिकः विधिः। निवातम् उष्णं तु इति तुशब्दः पक्षान्तरपरिग्रहार्थः; हेमन्त-उक्त-निवातोष्णगृहात् शिशिरे रूक्षातिशीते अधिकम् उष्णं गृहमाश्रयेत् इति अभिप्रायः। केचित् अत्र असेव्यप्रतिपादकं ग्रन्थं पठन्ति, सः तु अनार्षः॥१९-२१॥

२२-२६सम्पाद्यताम्

मूलम्
वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः।
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्॥२२
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्।
गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्॥२३
व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्।
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे॥२४
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः।
शारभं शाशमैणेयं मांसं लावकपिञ्जलम्॥२५॥
भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा।
वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम्॥२६

पदच्छेदः-
वसन्ते निचितः श्लेष्मा दिनकृद्-भाभिः ईरितः।
कायाग्निं बाधते रोगान् ततः प्रकुरुते बहून्॥२२
तस्मात् वसन्ते कर्माणि वमन-आदीनि कारयेत्।
गुरु-अम्ल-स्निग्ध-मधुरं दिवास्वप्नं च वर्जयेत्॥२३
व्यायाम-उद्वर्तनं धूमं कवलग्रहम् अञ्जनम्।
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे॥२४
चन्दन-अगुरु-दिग्धाङ्गः यवगोधूमभोजनः।
शारभं शाशम् ऐणेयं मांसं लाव-कपिञ्जलम्॥२५॥
भक्षयेत् निर्गदं सीधुं पिबेत् माध्वीकम् एव वा।
वसन्ते अनुभवेत् स्त्रीणां काननानां च यौवनम्॥२६

अन्वयः-
(हेमन्ते) निचितः श्लेष्मा वसन्ते दिनकृद्-भाभिः ईरितः (सन्) कायाग्निं बाधते, ततः बहून् रोगान् प्रकुरुते ॥२२
तस्मात् वसन्ते वमन-आदीनि कर्माणि कारयेत्।गुरु-अम्ल-स्निग्ध-मधुरं दिवास्वप्नं च वर्जयेत्॥२३
कुसुमागमे व्यायाम-उद्वर्तनं धूमं कवल-ग्रहम् अञ्जनं सुखाम्बुना शौचविधिं (च) शीलयेत् ॥२४
वसन्ते चन्दन-अगुरु-दिग्धाङ्गः यवगोधूमभोजनः (सन्) शारभं शाशम् ऐणेयं लाव-कपिञ्जलं मांसं भक्षयेत् ॥२५॥
निर्गदं सीधुं माध्वीकम् एव वा पिबेत् । स्त्रीणां काननानां यौवनम् च अनुभवेत् ॥२६

सरलार्थः-
यः कफः सञ्चितः, सः वसन्ते सूर्यकिरणैः विलायितः भवति।सः अग्निं मन्दीकरोति। ततः बहून् रोगान् जनयति॥२२॥
तस्मात् वसन्ते वमन-आदीनि कर्माणि कारयेत्।गुरु-अम्ल-स्निग्ध-मधुरम् अन्नं दिवास्वप्नं च वर्जयेत्॥२३॥
वसन्ते व्यायामम्, उद्वर्तनं, धूमं, कवल-ग्रहम्, अञ्जनं, सुखाम्बुना शौचविधिं च आचरेत्॥२४॥
वसन्ते चन्दनेन अगुरुणा च अङ्गलेपं कुर्यात्।यवं गोधूमं भुञ्जीत।शरभस्य, शशस्य,एणस्य लावस्य कपिञ्जलस्य मांसं खादेत्॥२५॥
निर्दोषं सीधुं माध्वीकम् एव वा पिबेत्।स्त्रीणां काननानां यौवनम् च अनुभवेत्॥२६॥

आयुर्वेददीपिका
वसन्ते इत्यादिना वसन्तविधिम् आह। निचितः सञ्चितः वसन्तपूर्वकाले, ईरितः विलायितः वसन्ते।कायाग्निम् इति काय-निर्वर्तकम् अग्निं जाठरं, न तु धात्वग्नि-विशेषमात्रम्। तत इति अत्र चकारः लुप्तनिर्दिष्टः बोद्धव्यः,तेन ततः अग्निवधात् च इति अर्थः; यदि वा ततः अग्निवध-अनन्तरम्। वमनादीनि वमनप्रधानानि; तेन, आदान-मध्यत्वेन यदि वात-पित्त-प्रकोपः तथाविधः भवति तदा विरेचन-आस्थापन-अनुवासनानाम् अपि प्रवृत्तिः भवति, शिरोविरेचनं तु कफजयार्थं कर्तव्यम् एव। वसन्तशब्देन वमनं प्रति चैत्रः एव बोद्धव्यः; येन, दोषचयादि-अर्थं पञ्चकर्मप्रवृत्त्यर्थं च अभिधातव्य-प्रावृड्-आदि-ऋतु-क्रमेण फाल्गुनचैत्रौ वसन्तः भवति, न वैशाखः। अनेन एव अभिप्रायेण पूर्वश्लोके अपि सामान्येन निचितः इति कृतं, न तु हेमन्ते निचितः इति; हेमन्ते इत्युक्ते हि रसोत्पत्तिक्रम-अभिहित-मार्गशीर्ष-पौषात्मके हेमन्ते प्रकृतत्वात् दोषचयः बुध्यते, सः च न अभिप्रेतः; उक्तः तु दोषचयादिक्रमोक्त-पौषमाघात्मके हेमन्ते श्लेष्मचयः। सुखाम्बुना सुखोष्ण-अम्बुना। लावकपिञ्जलं मांसम् इति सम्बन्धः। भक्षयेत् इति च्छेदः। अनुभवेत् इति भाषया श्लेष्म-क्षयार्थं स्तोकं मैथुनम् अनुजानाति॥ २२-२६॥

२७-३२सम्पाद्यताम्

मूलम्
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः।
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्॥२७
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः।
घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति॥२८
मद्यमल्पं न वा पेयमथवा सुबहूदकम्।
लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत् ॥२९
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले।
भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके॥३०
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः।
सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः॥३१
काननानि च शीतानि जलानि कुसुमानि च।
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः॥३२

पदच्छेदः-
मयूखैः जगतः स्नेहं ग्रीष्मे पेपीयते रविः।
स्वादु शीतं द्रवं स्निग्धम् अन्नपानं तदा हितम्॥२७
शीतं सशर्करं मन्थं जाङ्गलान् मृगपक्षिणः।
घृतं पयः सशालि-अन्नं भजन् ग्रीष्मे न सीदति॥२८
मद्यम् अल्पं न वा पेयम् अथवा सुबहु-उदकम्।
लवण-अम्ल-कटु-उष्णानि व्यायामं च विवर्जयेत्॥२९
दिवा शीतगृहे निद्रां निशि चन्द्रांशु-शीतले।
भजेत् चन्दनदिग्ध-अङ्गः प्रवाते हर्म्य-मस्तके॥३०
व्यजनैः पाणिसंस्पर्शैः चन्दन-उदक-शीतलैः।
सेव्यमानः भजेत् आस्यां मुक्ता-मणि-विभूषितः॥३१
काननानि च शीतानि जलानि कुसुमानि च।
ग्रीष्मकाले निषेवेत मैथुनात् विरतः नरः॥३२

अन्वयः-
ग्रीष्मे रविः मयूखैः जगतः स्नेहं पेपीयते, तदा स्वादु शीतं द्रवं स्निग्धम् अन्नपानं हितम्॥२७
ग्रीष्मे शीतं, सशर्करं मन्थं, जाङ्गलान् मृग-पक्षिणः,घृतं, पयः, सशालि-अन्नं भजन् (नरः) न सीदति॥२८
मद्यं न पेयम्, अल्पं वा पेयम्, अथवा सुबहु-उदकं पेयम्।लवण-अम्ल-कटु-उष्णानि व्यायामं च विवर्जयेत्॥२९
चन्दनदिग्ध-अङ्गः (सन्) दिवा शीतगृहे, निशि चन्द्रांशु-शीतले प्रवाते हर्म्य-मस्तके च निद्रां भजेत्॥३०
मुक्ता-मणि-विभूषितः (सन्) चन्दन-उदक-शीतलैः पाणिसंस्पर्शैः व्यजनैः च सेव्यमानः आस्यां भजेत् ॥३१
ग्रीष्मकाले मैथुनात् विरतः नरः शीतानि काननानि जलानि च कुसुमानि च निषेवेत ॥३२

सरलार्थः-
ग्रीष्मे सूर्यः किरणैः जगतः स्नेहं मुहुर्मुहुः पिबति।तदा स्वादु, शीतं, द्रवं, स्निग्धम् अन्नपानं हितकरं भवति॥२७
ग्रीष्मे शीतं, सशर्करं मन्थं, जाङ्गलान् मृग-पक्षिणः, घृतं, पयः, शालियुक्तम् अन्नं भजन् नरः दुर्बलः न भवति॥२८॥
ग्रीष्मे मद्यं न पेयम्।अथवा अल्पं पेयम्, अथवा सुबहु उदकं मेलयित्वा पेयम्।लवण-अम्ल-कटु-उष्णानि अन्नानि व्यायामं च विवर्जयेत्॥२९॥
अङ्गे चन्दनं लेपयेत्।दिवा शीतगृहे, निशि चन्द्रांशु-शीतले वातसञ्चारयुक्ते हर्म्य-मस्तके च निद्रां भजेत्॥३०
मुक्ता-मणि-विभूषणानि धारयेत्।चन्दन-उदक-शीतलैः पाणि-संस्पर्शैः तथा व्यजनैः च सेव्यमानः आसनं भजेत् ॥३१
ग्रीष्मकाले नरः मैथुनात् विरतः भवेत्।शीतानि वनानि शीतानि जलानि च कुसुमानि च निषेवेत ॥३२

आयुर्वेददीपिका
मयूखैः इत्यादिना ग्रैष्मविधिम् आह। मयूखैः तेजोभिः। स्नेहः सारः इति अर्थः। पेपीयते अत्यर्थं पिबति। मन्थः- “सक्तवः सर्पिषा युक्ताः शीतवारिपरिप्लुताः। न अति-अच्छाः न अतिसान्द्राः च मन्थ इति अभिधीयते”।मद्यम् अल्पम् इति एकान्तमद्य-सात्म्येन; न वा इति मद्यस्य स्वभाव-पाकाभ्याम् अम्लस्य ग्रीष्मविरुद्धत्वेन; सुबहूदकम् इति मद्यसात्म्यस्य एव, मद्यस्य उष्ण-अम्लत्वादि-अपवादार्थं बहुतरं पानीयं प्रक्षिप्य पातव्यम् इति दर्शयति; तेन एतत् फलति-यत् मद्यं ग्रीष्मे न पातव्यम् एव तावत्; मद्य-सात्म्यानां सात्म्यमद्यत्यागे सात्म्यत्यागजाः रोगाः भवन्ति, तेन तस्य अल्पं वा सुबहु-उदकं वा देयम् इति अर्थः। मुक्ता एव मणिः मुक्तामणिः।ग्रीष्मकाले चण्ड-आतपे मध्याह्ने इति अर्थः।मैथुन-उपरतिः तु दिवानिशं बोद्धव्या॥२७-३२॥

३३-४०सम्पाद्यताम्

मूलम्
आदानदुर्बले देहे पक्ता भवति दुर्बलः।
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः।३३
भूबाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च।
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः॥३४
तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते।
उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्॥३५
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्।
पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत्।३६॥
व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि।
विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये॥३७
अग्निसंरक्षणवता यवगोधूमशालयः।
पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः॥३८
पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा।
माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा॥३९
प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत्।
लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम्।४०

पदच्छेदः-
आदानदुर्बले देहे पक्ता भवति दुर्बलः।
सः वर्षासु अनिल-आदीनां दूषणैः बाध्यते पुनः।३३
भू-बाष्पात् मेघनिस्यन्दात् पाकाद् अम्लात् जलस्य च।
वर्षासु अग्निबले क्षीणे कुप्यन्ति पवन-आदयः॥३४
तस्मात् साधारणः सर्वः विधिः वर्षासु शस्यते।
उदमन्थं दिवास्वप्नम् अवश्यायं नदीजलम्॥३५
व्यायामम् आतपं च एव व्यवायं च अत्र वर्जयेत्।
पान-भोजन-संस्कारान् प्रायः क्षौद्र-अन्वितान् भजेत्।३६॥
व्यक्त-अम्ल-लवण-स्नेहं वातवर्षा-आकुले अहनि।
विशेषशीते भोक्तव्यं वर्षासु अनिलशान्तये॥३७
अग्निसंरक्षणवता यवगोधूमशालयः।
पुराणाः जाङ्गलैः मांसैः भोज्याः यूषैः च संस्कृतैः॥३८
पिबेत् क्षौद्र-अन्वितं च अल्पं माध्वीक-अरिष्टम् अम्बु वा।
माहेन्द्रं तप्तशीतं वा कौपं सारसम् एव वा॥३९
प्रघर्ष-उद्वर्तन-स्नान-गन्ध-माल्यपरः भवेत्।
लघु-शुद्ध-अम्बरः स्थानं भजेत् अक्लेदि वार्षिकम्।४०

अन्वयः-
आदानदुर्बले देहे पक्ता दुर्बलः भवति। सः वर्षासु अनिल-आदीनां दूषणैः भू-बाष्पात्, मेघनिस्यन्दात्, जलस्य अम्लात् पाकात् च पुनः बाध्यते। वर्षासु अग्निबले क्षीणे पवन-आदयः कुप्यन्ति ॥३४
तस्मात् वर्षासु सर्वः साधारणः विधिः शस्यते। अत्र उदमन्थं दिवास्वप्नम्, अवश्यायं, नदीजलम्, व्यायामम्, आतपं च एव व्यवायं च वर्जयेत्। प्रायः क्षौद्र-अन्वितान् पान-भोजन-संस्कारान् भजेत्।३६
वर्षासु विशेषशीते वातवर्षा-आकुले अहनि अनिलशान्तये व्यक्त-अम्ल-लवण-स्नेहम् (अन्नं) भोक्तव्यं॥३७
अग्निसंरक्षणवता (नरेण) पुराणाः यव-गोधूम-शालयः, जाङ्गलैः मांसैः (सह), संस्कृतैः यूषैः च (सह) भोज्याः॥३८
क्षौद्र-अन्वितं च अल्पं माध्वीक-अरिष्टं पिबेत्। माहेन्द्रं वा तप्तशीतं वा कौपं सारसम् एव वा अम्बु पिबेत्॥३९
(नरः) प्रघर्ष-उद्वर्तन-स्नान-गन्ध-माल्यपरः भवेत्।लघु-शुद्ध-अम्बरः (सन्) वार्षिकम् अक्लेदि स्थानं भजेत् ।४०

सरलार्थः-
आदानकाले देहः दुर्बलः भवति, तत्र अग्निः अपि दुर्बलः भवति। वर्षासु भू-बाष्पात्, मेघनिस्यन्दात् , जलस्य अम्ल-पाकात् च वातादयः दोषाः कुप्यन्ति।तैः कुपितैः वातादिदोषैः सः आदान-दुर्बलः अग्निः पुनः बाध्यते । वर्षासु अग्निबले क्षीणे वातादयः दोषाः कुप्यन्ति ।३४
तस्मात् वर्षासु सर्वः साधारणः विधिःप्रशस्तः। अत्र उदमन्थं, दिवास्वप्नम्, अवश्यायं, नदीजलं, व्यायामम् आतपं च एव व्यवायं च वर्जयेत्। प्रायःमधुयुतान् पान-भोजन-संस्कारान् भजेत्।३६
वर्षासु यदा विशेषं शैत्यं भवति, वातवर्षा-आकुलं दिनं भवति, तदा वातशमनार्थं अम्ल-लवण-स्नेहयुक्तम् (अन्नं) भोक्तव्यं। ३७
अग्निसंरक्षार्थं (नरेण) पुराणाः यव-गोधूम-शालयः, जाङ्गलैः मांसैः (सह) संस्कृतैः यूषैः च (सह) भोज्याः॥३८
मधुयुतम् अल्पं माध्वीक-अरिष्टं पिबेत्। माहेन्द्रं वा तप्तशीतं वा कूपस्थं वा सारसम् एव वा अम्बु पिबेत्॥३९
(नरः) प्रघर्ष-उद्वर्तन-स्नान-गन्ध-माल्यपरः भवेत्।लघु-शुद्ध-वस्त्रं धारयेत्।वर्षाकालोचितं क्लेदरहितं स्थानं भजेत् ।४०

आयुर्वेददीपिका
वर्षाविधिम् आह-आदानेत्यादि। देहस्य दुर्बलत्वे पक्ता अपि दुर्बलः भवति, देहबल-अनुविधायित्वाद् वह्नेः। एतत् च बलिनां बली भवति इत्यत्र व्युत्पादितम्। सः दुर्बलः वह्निः। अनिल-आदीनाम् इति अनिलप्रधानानाम्। वर्षासु वातादयः कुतः कुप्यन्ति इति आह- भूबाष्पाद् इत्यादि । भूबाष्पः प्रभावाद् एव त्रिदोषकोपकः। मेघनिस्यन्दः वातश्लेष्म-कारकः। अम्लपाकता जलस्य वर्षास्वभावकृता पित्तश्लेष्मकरी। अग्निबले क्षीणे इति अनेन आदान-आहितम् अग्निमान्द्यम् अपि दोषप्रकोपकम् इति दर्शयति। अग्निमान्द्यं च अपाकविदाहाभ्यां कफपित्तकारि, धातुपोषकरस-अनुत्पादात् च धातुक्षयेण वातकारि। एतेन वर्षासु वह्निमान्द्येन वातादिकोपः, वातादिकोपेन च वह्निमान्द्यम् इति दर्शितम्।यदुक्तं वाग्भटे- “भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा। वह्निनैव च मन्देन तेष्वित्यन्योऽन्यदूषिषु॥ साधारणः विधिः कार्यः त्रिदोषघ्नः अग्निदीपनः” (वा.सू.अ.३) इति। उदकप्रधानः मन्थः उदमन्थः। पानम् उदकादि, भोजनं रक्तशाल्यादि, तयोः संस्काराः संस्कारवन्ति अन्न-पानानि इति अर्थः। क्षौद्रं च यद्यपि वातप्रकोपि, तथापि वार्षिक-क्लेद-शमनार्थं स्वल्प-मात्रया क्षौद्रान्वितपदेन विहितम्। विशेषशीत इति हेतुगर्भ-विशेषणं; तेन अत्यर्थशीते दिवसे यस्मात् महात्ययस्य वातस्य कोपः भवति ततः तद्-जयार्थं वर्षाकाल-प्रभाव-क्रियमाण-पित्तचय-अनुगुणयोः अपि अम्ललवणयोः उपयोगः कर्तव्यः इति दर्शितं भवति॥३३-४०॥

४१-४८सम्पाद्यताम्

मूलम्
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः।
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति॥४१
तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्।
पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः॥४२
लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान्।
शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये॥४३॥
तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्।
धाराधरात्यये कार्यमातपस्य च वर्जनम्॥४४।
वसां तैलमवश्यायमौदकानूपमामिषम्।
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्॥४५
दिवा सूर्यांशुसन्तप्तं निशि चन्द्रांशुशीतलम्।
कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम्॥४६
हंसोदकमिति ख्यातं शारदं विमलं शुचि।
स्नानपानावगाहेषु हितमम्बु यथाऽमृतम् ॥४७
शारदानि च माल्यानि वासांसि विमलानि च।
शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः॥४८

पदच्छेदः-
वर्षाशीत-उचित-अङ्गानां सहसा एव अर्करश्मिभिः।
तप्तानाम् आचितं पित्तं प्रायः शरदि कुप्यति॥४१
तत्र अन्नपानं मधुरं लघु शीतं सतिक्तकम्।
पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः॥४२
लावान् कपिञ्जलान् एणान् उरभ्रान् शरभान् शशान्।
शालीन् सयवगोधूमान् सेव्यान् आहुः घन-अत्यये॥४३॥
तिक्तस्य सर्पिषः पानं विरेकः रक्तमोक्षणम्।
धाराधर-अत्यये कार्यम् आतपस्य च वर्जनम्॥४४।
वसां तैलम् अवश्यायम् औदक-आनूपम् आमिषम्।
क्षारं दधि दिवास्वप्नं प्राग्वातं च अत्र वर्जयेत्॥४५
दिवा सूर्यांशुसन्तप्तं निशि चन्द्रांशुशीतलम्।
कालेन पक्वं निर्दोषम् अगस्त्येन अविषीकृतम्॥४६
हंसोदकम् इति ख्यातं शारदं विमलं शुचि।
स्नान-पान-अवगाहेषु हितम् अम्बु यथा अमृतम् ॥४७
शारदानि च माल्यानि वासांसि विमलानि च।
शरत्काले प्रशस्यन्ते प्रदोषे च इन्दुरश्मयः॥४८

अन्वयः-
वर्षाशीत-उचित-अङ्गानाम् सहसा एव अर्करश्मिभिःतप्तानां (जनानां) (वर्षासु)आचितं पित्तं प्रायः शरदि कुप्यति॥४१
तत्र सुप्रकाङ्क्षितैः (जनैः) मधुरं, लघु, शीतं, सतिक्तकं, पित्तप्रशमनम् अन्नपानं मात्रया सेव्यम् ॥४२
घन-अत्यये लावान्, कपिञ्जलान्, एणान्, उरभ्रान्, शरभान्, शशान्, सयवगोधूमान् शालीन् सेव्यान् आहुः ॥४३॥
धाराधर-अत्यये तिक्तस्य सर्पिषः पानं, विरेकः, रक्तमोक्षणम्, आतपस्य वर्जनं च कार्यम् ॥४४।
अत्र (शरदि) वसां, तैलम्, अवश्यायम्, औदक-आनूपम् आमिषम्,क्षारं, दधि, दिवास्वप्नं, प्राग्वातं च वर्जयेत्॥४५
दिवा सूर्यांशु-सन्तप्तं, निशि चन्द्रांशुशीतलं, कालेन पक्वं, निर्दोषम्, अगस्त्येन अविषीकृतं,शारदं विमलं शुचि अम्बु हंसोदकम् इति ख्यातम्। यथा अमृतम् (तथा तद् जलम्) स्नान-पान-अवगाहेषु हितम् ॥४७
शरत्काले शारदानि च माल्यानि वासांसि विमलानि च,प्रदोषे इन्दुरश्मयः च प्रशस्यन्ते ॥४८

सरलार्थः-
वर्षाकाले प्राणिनां देहाः शीतसात्म्याः जायन्ते।शरदि सहसा एव सूर्यकिरणैः ते देहाः तप्ताः भवन्ति।तेन वर्षासु जनानाम् आचितं पित्तं प्रायः शरदि कुप्यति॥४१
तत्र बुभुक्षुभिः (जनैः) मधुरं, लघु, शीतं, सतिक्तकं, पित्तप्रशमनम् अन्नपानं मात्रया सेव्यम् ॥४२
शरदि लावान्, कपिञ्जलान्, एणान्, उरभ्रान्, शरभान्, शशान्, सयव-गोधूमान् शालीन् भक्षयेत्॥४३॥
मेघेषु निर्गतेषु तिक्तस्य सर्पिषः पानं, विरेकः, रक्तमोक्षणम्, आतपस्य वर्जनं च कार्यम् ॥४४।
अत्र (शरदि) वसां, तैलम्, अवश्यायम्, औदकमांसम्, आनूपं मांसं, क्षारं, दधि, दिवास्वप्नं, प्राग्वातं च वर्जयेत्॥४५
दिवा सूर्यांशु-सन्तप्तं, निशि चन्द्रांशुशीतलं, कालेन पक्वं, निर्दोषम्, अगस्त्येन अविषीकृतं, शारदं, विमलं, शुचि अम्बु हंसोदकम् इति ख्यातम्। यथा अमृतम् तथा तद् जलम् स्नाने, पाने, अवगाहे च हितम् ॥४७
शरत्काले शारदानि माल्यानि धारयेत् विमलानि वासांसि च धारयेत्। सायङ्काले चन्द्रकिरणाः प्रशस्ताः॥४८

आयुर्वेददीपिका
शरद्-विधिम् आह-वर्षेत्यादि। उचितम् अभ्यस्तम्, ‘उच समवाये’ इति अस्मात् धातोः; शीतम् उचितानि अङ्गानि येषां,तेषाम्। सहसा एव इति पदेन अक्रमेण शरदि तीव्र-आतप-सम्बन्धाद् अनभ्यस्तात् पित्तप्रकोपः न्याय्यः इति दर्शयति। आचितम् इति वर्षासु। प्रायः इति अनेन वर्षासु पित्तचय-प्रतिकूलं विधिं प्रयत्नेन आचरतः न भवति अपि पित्तचयः, शरदि तु प्रकोपः न भवति इति दर्शयति; एतत् च सामान्यन्यायेन श्लेष्मणः वातस्य च चय-प्रकोपयोः बोद्धव्यं; यदि वा, प्रायः पित्तं प्रकुप्यति श्लेष्मा च अनुबलत्वेन इति अर्थः। यद् उक्तं- “तस्य चानुबलः कफः” (चि.अ.३) इति।लघु इति अग्निसन्धुक्षणार्थम्। अत्र वह्नेः समानेन अपि पित्तेन द्रवांश-सम्बन्धेन अग्निमान्द्यं क्रियते। यद् उक्तं ग्रहणी-अध्याये-“आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम्” (चि.अ.१५)।उत्सर्गसिद्धे एव भोजनस्य मात्रावत्त्वे मात्रया इति वचनं मात्रा-अतिक्रमेण इह विशेषतः भूरिदोषत्वदर्शनार्थम्। सुप्रकाङ्क्षितैः सुबुभुक्षितैः।उरभ्रो मेषः।घनात्यये इति पुनर्वचनं शरत्प्रवेशे एव एतद् उक्तविधिकरणं ग्रन्थाधिक्यात् सूचयति इति व्याख्यानयन्ति; वयं तु पश्यामः-पर्याय-शब्दानां पुनः पुनः करणे यत्र तात्पर्यं शास्त्रे प्रतीयते तत्र तद् एव वाच्यं, यत्र तु तात्पर्यान्तरं न प्रतीयते तत्र वाक्यभेदेन एव पुनः अभिधानम् इति। धाराधराणां मेघानाम् अत्ययः अदर्शनम्। तेन, प्रव्यक्तायां शरदि तिक्तसर्पिःपानं विरेकादि च कार्यम्। क्रमः च अत्र आचार्यस्य अभिप्रेतः, तेन प्रथमं तिक्तसर्पिष्पानं, तेन पित्त-अप्रशान्तौ विरेकः,तेन अपि अशान्तौ शोणितदुष्टौ च सत्यां रक्तमोक्षणं; रक्तं च अत्र कालस्वभावात् दूष्यति एव प्रायः; यद् आह-“शरत्कालस्वभावाच्च शोणितं सम्प्रदूष्यति” (सू.अ.२४) इति। दिवेत्यादि।–सूर्यांशुतापाद् एव दिवा इति लब्धे दिवा इति सकलदिन-व्याप्ति-अर्थम्। सूर्यतप्तम् इति वक्तव्ये अंशुग्रहणं मेघावरण-रहित-अंशुसूर्यग्रहणार्थम्।सन्तप्तम् इति अत्र संशब्दः परितः ताप-उपदर्शनार्थः। एवं निशि इत्यादि च व्याख्येयम्। चन्द्रांशुग्रहणेन च निशि सौम्यांश-सम्बन्धं लक्षयति। कालेन इति शरत्कालस्वभावेन। पक्वम् इति वर्षासु अभिनव-भूमि-सम्बन्ध-जनित-पैच्छिल्य-व्यम्लत्व-आदिदोषरहितम्। यतः पक्वं ततः निर्दोषं दोष-अजनकम् इति अर्थः। अगस्त्येन अविषीकृतम् इति अगस्त्योदयेन प्रभावात् वर्षासु मेघसम्बद्ध-उरग-लूतादि-सम्बन्धात् सविषम् अविषं भवति इति वाच्यम्। हंसोदकम् इति एवम्भूत-उदकस्य सञ्ज्ञा;हंसशब्देन सूर्याचन्द्रमसौ अभिधीयेते, ताभ्यां शोधितम् उदकं हंसोदकं; यदि वा हंससेवायोग्यं हंसोदकं, हंसाः किल विशुद्धम् एव उदकं भजन्ते। अवगाहः चिरं जल-अवस्थानम्। शारदानि इति माल्यविशेषणम् अनार्तव-कुसुम-निषेधार्थम्। प्रदोषे इति निशाप्रवेशे एव परं चन्द्ररश्मिसेवा; न उपरि, शिशिरभयात्। अत्र पूर्व-ऋतु-सात्म्य-परित्यागः भविष्यद्-ऋतुसात्म्य-अभ्यासः च पूर्व-ऋतु-अन्तसप्ताह-आगामि-ऋतु-आदिसप्ताहयोः कर्तव्यः। यद् उक्तं वाग्भटे- “ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः। तत्र पूर्वो विधिस्त्याज्यः सेवनीयः परः क्रमात्”(वा.सू.अ.३)इति॥४१-४८॥

४९-५१सम्पाद्यताम्

मूलम्
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्।
उपशेते यदौचित्यादोकःसात्म्यं तदुच्यते॥४९

पदच्छेदः-
इति उक्तम् ऋतुसात्म्यं यत् चेष्टा-आहार-व्यपाश्रयम्।
उपशेते यद् औचित्यात् ओकःसात्म्यं तद् उच्यते॥४९

अन्वयः-
इति चेष्टा-आहार-व्यपाश्रयं यत् ऋतुसात्म्यम् (तत्) उक्तम्। यद् औचित्यात् उपशेते तद् ओकःसात्म्यम् उच्यते॥४९

सरलार्थः-
एवं प्रकारेण चेष्टाविषयकं तथा आहारविषयकं यद् ऋतुसात्म्यं, तद् वर्णितम्।उचितम् अस्ति अतः यत् सुखयति, तद् ओकःसात्म्यम् इति उच्यते॥४९

आयुर्वेददीपिका
उपसंहरति- इत्युक्तम् इत्यादि। ऋतुसात्म्यप्रसङ्गेन अभ्याससात्म्यं दर्शयति- उपशेते इत्यादि। उपशेते सुखयति,अपथ्यमपि सत् विकारं न जनयति। कुतः इति आह-औचित्यात् अभ्यासात् इति अर्थः; अपथ्यम् अपि हि निरन्तर-अभ्यासात् विषम् इव आशीविषस्य न उपघातकं भवति इति भावः।४९।

देशानामामयानां च विपरीतगुणं गुणैः।
मूलम्
सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च॥५०

पदच्छेदः-
देशानाम् आमयानां च विपरीतगुणं गुणैः।
सात्म्यम् इच्छन्ति सात्म्यज्ञाः चेष्टितं च आद्यम् एव च॥५०

अन्वयः-
सात्म्यज्ञाः देशानाम् आमयानां च गुणैः विपरीतगुणं चेष्टितं च आद्यम् एव च सात्म्यम् इच्छन्ति ॥५०

सरलार्थः-
देशगुणानां विपरीतगुणाः ये आहारविहाराः, रोगस्वरूपाणां विपरीत-गुणाः च ये आहारविहाराः, ते सात्म्याः सन्ति इति सात्म्यज्ञाः मन्यन्ते॥५०

आयुर्वेददीपिका
देशसात्म्यं रोगसात्म्यं च दर्शयति- देशानाम् इत्यादि। देशानाम् अनूपादीनां, गुणैः स्नेहगौरवादिभिः सह विपरीतगुणं स्नेहगौरव-विपरीतगुण-रौक्ष्यलाघव-युक्तं जाङ्गलमांस-मधु-आदि; अदनीयम् आद्यं, चेष्टितं च व्यायामादि, देशसात्म्यम् इच्छन्ति आयुर्वेदविदः इत्यर्थः। एवम् आमयानां च विपरीतगुणम् इत्यादि व्याख्येयम्। गुणशब्दः च इह धर्ममात्रवचनः, यथोच्यते-द्रव्यगुणः द्रव्यधर्मः इत्यर्थः। तेन विपरीतप्रभावादीनाम् अपि ग्रहणं भवति।आमयशब्देन च आमयहेतुः अपि गृहीतव्यः। ततः आमय-विपरीतानाम्, आमयहेतुविपरीतानां, तथा प्रभाववैपरीत्यात् तद्-विपरीतार्थकारिणां च ग्रहणं भवति। तद्- उदाहरणानि यथावसरं निदाने करिष्यामः।आद्यग्रहणेन औषध-आहारयोः ग्रहणं, चेष्टित-ग्रहणेन स्वप्न-अभ्यङ्गादीनां ग्रहणं व्याख्येयम्॥५०॥

मूलम्
तत्र श्लोकः-
ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किञ्चन।
तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च॥५१

पदच्छेदः-
तत्र श्लोकः-
ऋतौ ऋतौ नृभिः सेव्यम् असेव्यं यत् च किञ्चन।
तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यम् एव च॥५१

अन्वयः-
तत्र श्लोकः-
नृभिः ऋतौ ऋतौ (यत्) सेव्यं, यत् च किञ्चन असेव्यं, हेतुमत् सात्म्यम् एव च तस्याशितीये (मुनिना) निर्दिष्टम्॥५१

सरलार्थः-
तस्याशितीये अध्याये ऋतौ ऋतौ यत् सेवनीयं यत् च न सेवनीयं तत् सर्वं मुनिना कथितम्।उपपत्त्या सहितं सात्म्यम् अपि अस्मिन् अध्याये मुनिना उक्तम्।५१

आयुर्वेददीपिका
उक्तम् अध्यायार्थम् उपसंहरति- ऋतौ इत्यादि। अत्र हेमन्ते असेव्यं कण्ठरवेण यद्यपि न प्रतिपादितं तथा अपि ‘सः यदा न इन्धनं युक्तं लभते’ इति अभिधानाद् अल्पभोजन-परिहारः उक्तः एव भवति; तेन, ऋतौ ऋतौ इति वीप्सा कृता अर्थवती भवति; यदि वा छत्रिणः गच्छन्ति इति न्यायात् वीप्सा उक्ता। हेमन्तपरिहारविधिवत् च शिशिरपरिहार-विधिः व्याख्येयः।हेतुमद् इति उपपत्तिमत्, औचित्यादि-हेतुनिर्देश-उपपन्नम् इति अर्थः॥५१॥

मूलम्
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तस्याशितीयो नाम षष्ठोऽध्यायः॥६॥

पदच्छेदः-
इति अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तस्याशितीयः नाम षष्ठः अध्यायः॥६॥

अन्वयः-
इति अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तस्याशितीयः नाम षष्ठः अध्यायः॥६॥

सरलार्थः-
एवम् अग्निवेशेन रचिते, चरकेण प्रतिसंस्कृते सूत्रस्थाने तस्याशितीयः नाम षष्ठः अध्यायः समाप्तः॥६

आयुर्वेददीपिका
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम् आयुर्वेददीपिकायां सूत्रस्थाने स्वस्थचतुष्के तस्याशितीयः नाम षष्ठः अध्यायः॥६॥