घटादय: स्वानुगतप्रतिभासे वस्तुनि कल्पिता:...

प्र.-स्पष्टीकुरुत- घटादय: स्वानुगतप्रतिभासे वस्तुनि कल्पिता: विभक्तत्वात्
उ.- सन्दर्भ:-
अद्वैतसिद्धिकारेण आनन्दबोधाचार्यस्य एतदनुमानं स्वग्रन्थे स्वमतपुष्ट्यर्थम् उद्धृतम्।परिच्छिन्नत्वहेतूपपत्तिं प्रतिपादयता ग्रन्थकारेण स्वानुकूलमिदमनुमानम् अनूदितम्।
स्पष्टी.-
अत्र अनुमाने -
पक्ष:- घटादय:।
साध्यम्- स्वानुगतप्रतिभासे वस्तुनि कल्पितत्वम्।
हेतु:- विभक्तत्वम्।
व्याप्ति:- यत्र विभक्तत्वं तत्र स्वानुगतप्रतिभासे वस्तुनि कल्पितत्वम्।
दृष्टान्त:- यथा सर्प-दण्ड-माला-धारा:।
अत्र स्वसमानसत्ताकभेदप्रतियोगित्वं विभक्तत्वम् अभिप्रेतम्।तेन न तुच्छे व्यभिचार:, न वा ब्रह्मणि।ब्रह्म पारमार्थिकम्।अत: ब्रह्मभेदोऽपि पारमार्थिक:।तादृशभेद: घटादिषु नास्ति।
तुच्छं सत्ताविहीनम्।अत: स्वसमानसत्ताकभेदप्रतियोगित्वं तत्र न सम्भवति।

आक्षेप: -
खण्ड: गौ:।मुण्ड: गौ:।अत्र खण्डमुणडयो: भाने तदनुगतस्य गोत्वस्य भानं भवति। तथापि खण्ड: मुण्ड: इति व्यक्तिद्वयं गोत्वे कल्पितं नास्ति, व्यावहारिकमेव अस्ति।
समाधानम्-
अस्मन्मते सत्सामान्यमेव अङ्गीक्रियते, न तु गोत्वादिरूपं सामान्यम्।अत: खण्ड: गौ:, मुण्ड: गौ: इत्यत्र खण्डविशिष्टगोत्वं मुण्डविशिष्टं गोत्वसामान्ये कल्पितम् इत्येव ब्रूम:। खण्डरूपा व्यक्तिरपि सद्वस्तुनि कल्पिता, खण्डविशिष्टं गोत्वमपि सद्वस्तुनि कल्पितमेव। मण्डनाचार्येण ब्रह्मसिद्धौ सत्यमुक्तम्-
घटादिकं सद्रूपे कल्पितम्, प्रत्येकं सदनुविद्धत्वेन प्रतीयमानत्वात्,प्रत्येकं चन्द्रानुविद्ध-जलतरङ्गचन्द्रवत्।

आक्षेप: -
१ सन् घट: इत्यत्र सदर्थ: प्रतीयते इति यदुक्तं तन्न सङ्गच्छते।रूपादिरहितस्य आसंसारम् अज्ञानावृतस्य ब्रह्मण: प्रतीति: कथं सत् इति पदेन शक्या?
२ घटोऽनित्य: इति शब्दप्रयोगे अनित्यत्वं घटधर्मत्वेन प्रतीयते।एवं चेत् घट: सन् इति प्रयोगेऽपि सत्त्वं घटधर्मत्वेन प्रतीयते इति किमर्थं नाङ्गीक्रियते?
समा.-
सदंशस्य आवरणं मूलाज्ञानेन न भवति, घटाद्यवच्छिन्नशक्तिकेन अज्ञानेन(=अवस्था-अज्ञानेन =तूलाज्ञानेन) भवति।यदा चक्षुर्द्वारा अन्त:करणवृत्ति: घटं व्याप्नोति,तदा तया वृत्त्या सदंशावरणस्य भङ्ग: भवति।तेन सन् घट: इति ब्रह्मण: स्फुरणं भवति।अत: आसंसारं यद्यपि मूलाज्ञानं वर्तते, तथापि घटाद्यवच्छिन्नशक्तिकस्य अज्ञानस्य तदा तदा भङ्ग: भवति।तेन सदंशस्य स्फुरणमपि सम्भवति, सत्यपि मूलाज्ञाने।
रूपादीनाम् इन्द्रियग्राह्यगुणानाम् अभावात् ब्रह्म नेन्द्रियग्राह्यम् इति यदुक्तं तदपि असत्। यतो हि प्रतिनियतेन्द्रियग्राह्याणामेव रूपाद्यपेक्षा भवति।यत्र प्रतिनियतेन्द्रियग्राह्यत्वं नास्ति, तत्र रूपाद्यपेक्षापि नास्ति यथा काल:, जाति: वा।कालस्य जातेर्वा न कश्चिद् इन्द्रियग्राह्यो गुणोऽस्ति। तथापि तस्य सर्वेन्द्रियग्राह्यत्वं मीमांसकै:, प्राभाकरै:, नैयायिकै: वैशिषिकैश्च अभ्युपगम्यते।

आक्षेप:-
घटाद्यवच्छेदेन अप्रत्यक्षमपि ब्रह्म प्रत्यक्षं भवति चेत् शब्दावच्छेदेन अश्रावणमपि नभ: श्रावणं किं न स्यात्?
समा.-१
आकाशे श्रावणत्व(श्रवणेन्द्रियगोचरत्व-)योग्यता एव नास्ति अत: शब्दावच्छेदेनापि तस्य श्रवणप्रत्यक्षं न भवति।ब्रह्मण: इन्द्रियप्रत्यक्षयोग्याता अस्ति अत: घटाद्यवच्छेदेन तस्य स्फुरणं भवति।
समा. २
चक्षु: द्रव्यग्रहणार्थं रूपमपेक्षते।ब्रह्म तु द्रव्यं नास्ति।यतो हि अस्थूलम् अनणु अह्रस्वम् अदीर्घम् (बृ.३.८)इति श्रुत्या चतुर्विधस्य अपि परिमाणस्य निषेध: कृत:।ब्रह्म द्रव्यं नास्ति अत: तस्य प्रत्यक्षार्थं रूपादीनाम् आवश्यकता नास्ति।
समा. ३
अथवा यदि ब्रह्म द्रव्यं मतं तर्हि अपि तस्य प्रत्यक्षार्थं रूपादीनाम् आवश्यकता नास्ति। ‘द्रव्यचाक्षुषे रूपापेक्षा’ इति वैशिषिकं मतम्।परं मीमांसका: तथा न मन्यन्ते।ते शब्दं द्रव्यं मन्यन्ते।तस्य प्रत्यक्षं श्रोत्रेण भवति।अत: मीमांसकमते ‘धर्म्यन्यूनसत्ताकत्ववत: द्रव्यस्य चाक्षुषे रूपापेक्षा’ इति नियम:।घट: धर्मी।तस्य सत्ता व्यावहारिकी।तद्गतद्रव्यत्वस्य सत्ता अपि व्यावहारिकी।घट-अन्यूनसत्ताकद्रव्यत्ववान् घट:।अत: तस्य प्रत्यक्षं सम्भवति रूपसत्त्वे एव।
ब्रह्म पारमार्थिकम्।तत्र द्रव्यत्वमध्यस्तम्।अत: ब्रह्मन्यूनसत्ताकं द्रव्यत्वम्।तादृशस्य द्रव्यस्य प्रत्यक्षार्थं रूपापेक्षा नास्ति।

लघूत्तरप्रश्ना: