गच्छति पुरः .....नीयमानस्य ॥१.३४॥
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः । चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥१.३४॥
पदच्छेदः-
गच्छति पुरः शरीरं धावति पश्चाद् असंस्तुतं चेतः ।
चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥१.३४॥
अन्वयः-
शरीरं पुरः गच्छति।प्रतिवातं नीयमानस्य केतोः चीनांशुकम् इव चेतः असंस्तुतं पश्चाद् धावति॥१.३४॥
सन्दर्भः-
सरलार्थः-
मम देहः अग्रे गच्छति।परं ध्वजस्य वस्त्रं यथा विरुद्धवातेन पश्चाद् गच्छति, तथा मम मनः अपरिचितं पश्चाद्देशं धावति।१.३४
वृत्तम् –
आर्या
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले आर्यावृत्तनिबद्धानि पद्यानि तीव्र-आघात-.....स्यन्दन-आलोक-भीतः ॥१.३३॥