कर्तृत्वम् =
कृतिः।प्रयत्नः।
य़था कर्तृत्वं, कृतिः, प्रयत्नः वात्मगुणः।
यथा यथाकालं मलानां शोधनं प्रति कर्तृत्वं, कृतिः, प्रयत्नः, वा शास्त्रेण विधीयते।

कर्मवान् =
क्रियावान्। गुणवान्। गुणी। द्रव्यम्।
यथा घटः कर्मवान्, क्रियावान्, गुणवान्, गुणी, द्रव्यं वा।
यथा कफः कर्मवान्, क्रियावान्, गुणवान्, गुणी, द्रव्यं वा।

कामः =
इच्छा ।
यथा कामः, इच्छा वात्मगुणः।
यथा विपरीतगुणविषये कामः, इच्छा वा दोषचयस्य लक्षणम्।

कारणत्वम् =
हेतुत्वम्।जनकत्वम्।प्रयोजकत्वम्(व्यवहितकारणे)।
यथा पटं प्रति तन्तूनां कारणत्वं, हेतुत्वं, जनकत्वं, वा विद्यते।
पटं प्रति कार्पासस्य प्रयोजकत्वं विद्यते।
यथा अन्नरसं प्रति अन्नस्य कारणत्वं, हेतुत्वं, जनकत्वं वा विद्यते।
अन्नरसं प्रति पञ्चभूतानां प्रयोजकत्वं विद्यते।

कार्यकारणभावः =
जन्यजनकभावः।हेतुहेतुमद्भावः।साध्यसाधनभावः।
यथा तन्तुपटयोः कार्यकारणभावः, जन्यजनकभावः, हेतुहेतुमद्भावः,साध्यसाधनभावः वा विद्यते।
यथा जलकफयोः कार्यकारणभावः, जन्यजनकभावः, हेतुहेतुमद्भावः, ध्यसाधनभावः वा विद्यते।।

कार्यत्वम् =
हेतुमत्त्वम्।जन्यत्वम्।प्रयोज्यत्वम् (व्यवहितकार्ये)।
यथा पटे तन्तुकार्यत्वं ,तन्तुहेतुमत्त्वं, तन्तुजन्यत्वं, कार्पासप्रयोज्यत्वं (व्यवहितकार्यत्वं) वा विद्यते।
यथा अन्नरसे अन्न-कार्यत्वम्,अन्न-हेतुमत्त्वम्, अन्न-जन्यत्वं, पञ्चभूत-प्रयोज्यत्वं (व्यवहितकार्यत्वं) वा विद्यते।

कार्यत्वम् =
सादित्वम्।उत्पत्तिमत्त्वम्।प्रागभावप्रतियोगित्वम्।
यथा घटे कार्यत्वं सादित्वम्, उत्पत्तिमत्त्वं , प्रागभावप्रतियोगित्वं वा विद्यते।
यथा शरीरे कार्यत्वं, सादित्वम्, ,उत्पत्तिमत्त्वं,प्रागभावप्रतियोगित्वं वा विद्यते।

कार्यम् =
फलम् ।
यथा कुलालव्यापारस्य कार्यं, फलं वा घटः।
यथा दोषसाम्यस्य कार्यं, फलं वा सुखानुबन्धः ।

कालात्ययापदिष्टः =
बाधितः।
यथा ‘वह्निरनुष्णः द्रव्यत्वात्’ इत्यनुमाने द्रव्यत्वम् इति हेतुः कालात्ययापदिष्टः, बाधितः वास्ति।
तर्पककफः नाभ्यधःस्थः, गुरुत्वात् इत्यनुमाने गुरुत्वम् इति हेतुः लात्ययापदिष्टः, बाधितः वास्ति।

कालिकविशेषणतासम्बन्धः =
कालिकसम्बन्धः।
यथा घटः कालिकविशेषणतासम्बन्धेन, कालिकसम्बन्धेन वा काले वर्तते । ।
यथा देहः कालिकविशेषणतासम्बन्धेन, कालिकसम्बन्धेन वा काले वर्तते ।।

कालिकसम्बन्धः =
कालिकविशेषणतासम्बन्धः।
यथा घटः कालिकसम्बन्धेन, कालिकविशेषणतासम्बन्धेन वा काले वर्तते ।
यथा देहः कालिकसम्बन्धेन, कालिकविशेषणतासम्बन्धेन वा काले वर्तते ।

कृतिः =
प्रयत्नः।कर्तृत्वम्।
यथा कृतिः, प्रयत्नः, कर्तृत्वं वात्मगुणः।।
यथा यथाकालं मलानां शोधनं प्रति कृतिः, प्रयत्नः, कर्तृत्वं वा शास्त्रेण विधीयते।।

क्रियावान् =
कर्मवान्। गुणवान्। गुणी। द्रव्यम्।
यथा घटः क्रियावान्, कर्मवान्, गुणवान्, गुणी द्रव्यं वा।
यथा कफः कर्मवान्, क्रियावान्, गुणवान्, गुणी द्रव्यं वा।

क्रोधः =
द्वेषः।
यथा द्वेषः, क्रोधः वा आत्मगुणः।
यथा वृद्धिहेतुविषयकः क्रोधः, द्वेषः वा दोषचयस्य लक्षणम्।<br

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=क...&oldid=7297" इत्यस्माद् प्रतिप्राप्तम्