मूलम्
क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां।
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं।
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः।। २०।।

पदच्छेदः-
क्रतौ सुप्ते जाग्रत् त्वम् असि फलयोगे क्रतुमतां।क्व कर्म प्रध्वस्तं फलति पुरुष-आराधनम् ऋते।। अतः त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं।श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः।। २०।।

अन्वयः
क्रतुमतां क्रतौ सुप्ते फलयोगे त्वम् जाग्रत् असि।पुरुष-आराधनम् ऋते प्रध्वस्तं कर्म क्व फलति ?अतः जनः क्रतुषु फलदान-प्रतिभुवं त्वां सम्प्रेक्ष्य श्रुतौ श्रद्धां बध्वा कर्मसु दृढपरिकरः (भवति)।। २०।।

सरलार्थः-
यदा यज्ञः समाप्तः भवति, तदा तस्य फलदानार्थं त्वं सिद्धः वर्तसे। पुरुषस्य आराधनं विना समाप्तिं गतं यज्ञकर्म कथं वा फलदं स्यात्? अतः यज्ञेषु फलदानस्य कर्म त्वं करोषि इति दृष्ट्वा जनः श्रुतिवचनेषु श्रद्धां बद्ध्वा यज्ञाय उद्यतः भवति॥२०

शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=क्रतौ_सुप्ते...&oldid=6175" इत्यस्माद् प्रतिप्राप्तम्