मूलम्
कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं।
क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः।।
इति चकितममन्दीकृत्य मां भक्तिराधाद्।
वरद चरणयोस्ते वाक्य-पुष्पोपहारम्।। ३१।।

पदच्छेदः -
कृश-परिणति-चेतः क्लेशवश्यं क्व च इदं।क्व च तव गुण-सीमा-उल्लङ्घिनी शश्वद्-ऋद्धिः।।
इति चकितम् अमन्दीकृत्य मां भक्तिः आधाद्।वरद चरणयोः ते वाक्य-पुष्पोपहारम्।। ३१।।

अन्वयः-
हे वरद, कृश-परिणति क्लेशवश्यं च इदं चेतः क्व ?तव गुण-सीमा-उल्लङ्घिनी शश्वद्-ऋद्धिः च क्व?इति चकितम् मां भक्तिः अमन्दीकृत्य ते चरणयोः वाक्य-पुष्पोपहारम् आधाद् ।। ३१।।

सरलार्थः-
हे वरद, मम चित्तम् अपरिपक्वम् अस्ति।महता क्लेशेन तद् मम वशे भवति।तव च ऐश्वर्यं निरन्तरं वर्तते।तद् ऐश्वर्यं गुणसीमाम् उल्लङ्घ्य अग्रे गतम्। क्व तादृशं मम अवशं चित्तं क्व च तव एतद् वैभवम् इति विचारेण अहं भीतः।तथापि मम भक्तिः मां सबलीकरोति।सा एव तव चरणयोः वाक्पुष्पाणाम् अञ्जलिं समर्पितवती॥३१


शिवस्तोत्राणि     शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=कृश-परिणति-चेतः...&oldid=6183" इत्यस्माद् प्रतिप्राप्तम्