कूजन्तं ... वाल्मीकिकोकिलम्

मूलम्
कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥

पदच्छेदः
कूजन्तं राम राम इति मधुरं मधुर-अक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥

अन्वयः
कविताशाखाम् आरुह्य, राम राम इति मधुर-अक्षरं मधुरं कूजन्तं वाल्मीकि-कोकिलम् (अहं) वन्दे ॥३४॥

सरलार्थः
वाल्मीकिरूपः कोकिलः कवितारूपां शाखाम् आरुह्य, राम राम इति मधुर-अक्षरं नाम मधुरवाण्या गायति। तम् वाल्मीकिकोकिलम् अहं वन्दे ॥३४॥

सन्धिविग्रहः ३४

सन्धिः विग्रहः सूत्रम्
रामरामेति रामराम इति आद्गुणः।६.१.८६
मधुराक्षरम् मधुर-अक्षरम् अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः३४
मधुराक्षरम्
मधुरम् अक्षरं यस्मिन् तत् मधुराक्षरं (नाम)।... अनेकमन्यपदार्थे।२.२.२४

कविताशाखाम्
कविता शाखा इव,ताम्।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६

वाल्मीकिकोकिलम्
वाल्मीकिः कोकिलः इव वाल्मीकिकोकिलः, तम्।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६

रामरक्षास्तोत्रम् - सान्वयं सार्थम्