मूलम्
कुसुमदशन-नामा सर्व-गन्धर्व-राजः।
शशिधरवर-मौलेर्देवदेवस्य दासः।।
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात्।
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः।। ३७।।

पदच्छेदः-
कुसुमदशन-नामा सर्व-गन्धर्व-राजः।शशिधरवर-मौलेः देवदेवस्य दासः।।
सः खलु निज-महिम्नः भ्रष्टः एव अस्य रोषात्।स्तवनम् इदम् अकार्षीद् दिव्य-दिव्यं महिम्नः।। ३७।।

अन्वयः-
शशिधरवर-मौलेः देवदेवस्य दासः कुसुमदशन-नामा सर्व-गन्धर्व-राजः (आसीत्)।सः खलु अस्य (शिवस्य) एव रोषात् निज-महिम्नो भ्रष्टः (सन्)(शिवस्य) महिम्नः इदम् दिव्य-दिव्यं स्तवनम् अकार्षीद् ।। ३७।।

सरलार्थः-
देवानाम् अपि देवः चन्द्रमौलिः।तस्य दासः पुष्पदन्तः।एषः पुष्पदन्तः गन्धर्वाणां मुख्यः।सः क्वचित् शिवस्य रोषेण स्वस्य महतः अधिकारपदात् भ्रष्टः।तदानीं सः शिवस्य माहात्म्यस्य एतद् अतिदिव्यं स्तोत्रं रचितवान्॥३७


शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=कुसुमदशन-नामा...&oldid=6189" इत्यस्माद् प्रतिप्राप्तम्