किमीहः किंकाय:...
मूलम्
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं।
किमाधारो धाता सृजति किमुपादान इति च।।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः।
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः।। ५।।
पदच्छेदः-
किम्-ईहः किं-कायः सः खलु किम्-उपायः त्रिभुवनं।किम्-आधारः धाता सृजति किम्-उपादानः इति च।।
अतर्क्य-ऐश्वर्ये त्वयि अनवसर-दुःस्थः हतधियः।कुतर्कः अयं कांश्चित् मुखरयति मोहाय जगतः।। ५।।
अन्वयः-
सः खलु धाता किम्-ईहः, किं-कायः, किम्-उपायः, किम्-आधारः, किम्-उपादानः त्रिभुवनं सृजति? इति च अतर्क्य-ऐश्वर्ये त्वयि अनवसर-दुःस्थः अयं कुतर्कः जगतः मोहाय कांश्चित् हतधियः मुखरयति।। ५।।
सरलार्थः-
सः ईश्वरः कया इच्छया त्रिभुवनं जनयति? तस्य ईश्वरस्य शरीरं किम्? तस्य उपकरणानि कानि? त्रिभुवनजनने तस्य आधारः कः? त्रिभुवनस्य उपादानं किम्? इति एते केचन तर्काः।तव ऐश्वर्यम् अतर्क्यम् अस्ति अतः त्वयि एते तर्काः न तिष्ठन्ति।तथापि एते तर्काः कांश्चन मन्दबुद्धीन् मुखरीकुर्वन्ति।तेन जगतः मोहः उत्पद्यते।५।
शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्