काव्यादर्शः-दण्डी
सम्स्कृत काव्यशास्त्र विषये दण्डिना रचितः ग्रन्थः काव्यादर्शः।
चतुर्मुखमुखाम्भोजवनहम्सवधूर्मम। मानसे रमताम् नित्यम् सर्वशुक्ला सरस्वती॥१
पूर्वशास्त्राणि सम्हृत्य प्रयोगानुपलक्ष्य च। यथासामर्थ्यम् अस्माभिः क्रियते काव्यलक्षणम्॥२
इह शिष्टानुशिष्टानाम् शिष्टानामपि सर्वथा। वाचामेव प्रसादेन लोकयात्रा प्रवर्तते॥३
इदमन्धम् तामकृत्स्नम् ज्ययेत भुवनत्रयम्। यदि शब्दाह्वयम् ज्योतिरासम्सारम् न दीप्यते ॥४
आदिराजयशोबिम्बम् आदर्शम् प्राप्य वाङ्मयम् ।तेषामसन्निधानेऽपि न स्वयम् पश्य नश्यति॥५
गोर्गौ कामदुघा सम्यग्प्रयुक्ता स्मर्यते बुधैः। दुष्प्रयुक्ता पुनर्गोत्वम् प्रयोक्तुः सैव शम्सति॥६
तदल्पमपि नोपेक्ष्यम् कव्ये दुष्टम् कथञ्चन। स्याद्वपुः सुन्दरनमपि श्वित्रेणैकेन दुर्भगम्॥७
गुणदोषानशास्त्रज्ञः कथम् विभजते जनः। किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु॥८
अधप्रजानाम् व्युत्पत्तिम् अभिसन्धाय सूरयः।वाचाम् विचित्रमर्गाणाम् निबबन्दहुः क्रियाविधिम्॥९
तैः शरीरम् च काव्यानाम् अलङ्काराश्च दर्शिताः। शरीरम् तावदिष्टार्थव्यवच्छिन्ना पदावलिः॥१०
पद्यम् गद्यम् च मिश्रम् च तत् त्रिधेति व्यवस्थितम्।पद्यम् चतुष्पदी तत्र वृत्तम् जातिरिति द्विधा॥११
छन्दोविचित्याम् सकलः तत्प्रपञ्चो निदर्शितः ।सा विद्या नौर्विवक्षूणाम् गम्भीरम् काव्यसागरम्॥१२
मुक्तकम् कुळकम् कोश सङ्घातः इति तादृशः। सर्वबन्धाम्शरूपत्वात् अनुक्तः पद्यविस्तरः॥१३
सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्। आशीर्नस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्॥१४
इतिहासकथोत्भूतमितरद्वा तदाश्रयम्। चतुर्वर्गफ़लायत्तम् चतुरोदात्त नायकम्॥१५
नगरार्णवशौलर्तु चन्द्रार्कोदय वर्णनैः। उद्यानसलिलक्रीडा मधुपान रतोत्सवैः॥१६
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः।मन्त्रद्यूतप्रयाणाजि नायकाभ्युदयैरपि॥१७
अलङ्कृतमसङ्क्षिप्तम् रसभावनिरन्तरम्। सर्गैरनतिविस्तीर्णैःश्रव्यवृत्तैः सुसन्धिभिः॥१८
सर्वत्र भिन्नवृत्तान्तैः उपेतम् लोकरञ्जनम्। काव्यम् कल्पान्तरस्थायि जायते सदलङ्कृतिः॥१९
न्यूनमप्यत्र यैः कश्चिद्ङ्गैः काव्यम् न दुष्यति। यद्युपात्तेषु सम्पत्तिराराधयति तद्विदः॥२०
गुणतः प्रागुपन्यस्य नायकम् तेन विद्विषाम् । निराकरण्मित्येष मार्गः प्रकृतिसुन्दरः॥२१
वर्णवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि। तज्जयात् नायकोत्कर्षकथानम् न धिनोति नः॥२२
अपादः पदसन्तानो गद्यमाख्यायिका कथा।इति तस्य प्रभेदो द्वौ तयोराख्यायिका किल॥२३
नायकेनेव वाच्यान्या नायकेनेतरेण वा।स्वगुणाविष्क्रियादोषो नात्र भूयार्थशम्सिनः॥२४
अपि त्वनियमो दृष्ट्स्तत्राप्यन्नैरुदीरणात् ।अन्यो वक्ता स्वयम् वेति कीदृग्वा भेदकारणम्॥२५
वक्त्रम् चापरवक्त्रम् च सोच्छ्वासत्वम् च भेदकम्। चिह्नमाख्यायिकायाश्चेत् प्रसङ्गेन कथास्वपि॥२६
आर्यादिवत् प्रवेशः किम् न वक्त्रापरवक्त्रयोः । भेदश्च दृष्टो लम्भादिरुच्छ्वासो वास्तु किम् ततः॥२७
तत् कथाख्यायिकेत्येका जातिः सज्ञा द्वयाङ्किता। अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यान जातयः॥२८
कन्याहरणसम्ग्रामविप्रलम्भोदयादयः। सर्गबन्धसमा एव नैतेवैशेषिका गुणाः॥२९
कविभावकृतम् चिह्नम् अन्यत्रापि न दुष्यति। मुखमिष्टार्थसम्सिद्धौ किम् हि न स्यात् कृतात्मनाम्॥३०
मिश्राणि नाटकादीनि तेषामन्यत्र विस्तरः। गद्यपद्यमयी किञ्चित् चम्पूरित्यभिधीयते॥३१
तदेतत् वाङ्मयम् भूयः सम्स्कृतम् प्राकृतम् तथा। अपभ्रम्शश्च मिश्रम् चेत्याहुरार्याश्चतुर्विधम्॥३२
सम्स्कृतम् नाम दैवी वागन्वाख्याता महर्षिभिः।तत्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः॥३३
महाराष्ट्राश्रयाम् भाषाम् प्रकृष्टम् प्राकृतम् विदुः।सागरम् सूक्तिरत्नानाम् सेतुबन्धादि यन्मयम्॥३४
शौरसेनी च गौडीच लाटीचान्या च तादृशी। याति प्राकृतमित्येवम् व्यवहारेषु सन्निधिम्॥३५
आभीरादि गिरः काव्येष्वपभ्रम्श इति स्मृताः।शास्त्रेषु सम्स्कृतादन्यदपभ्रम्शतयोदितम्॥३६
सम्स्कृतम् सर्गबन्धादि प्राकृतम् स्कन्धकादि यत्।ओसरादिरपभम्शो नाटकादि तु मिश्रकम्॥३७
कथा हि सर्वभाषाभि सम्स्कृतेन च बध्यते। भूतभाषामयिम् प्राहुरत्भुतार्थाम् बृहत्कथाम्॥३८
लास्यच्छलित्स्शम्पादि प्रेक्षार्थम् इतरत् पुनः। श्रव्यमेवेति सैषापि द्वयी गतिरुदाह्र्ता॥३९