काव्यप्रकाशः
मम्मटभट्टविरचितः काव्यप्रकाशः
प्रथमोल्लासः
सम्पाद्यताम्ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत्परामृशति -
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।। 1 ।।
नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षट्रसा न च हृद्यैव तैः तादृशी ब्रह्मणो निर्मितर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यत इति तां प्रत्यस्मि प्रणत इति लभ्यते ।
इहाभिधेयं सप्रयोजनमित्याह-
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये |
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे || 2 ||
कालिदासादीनामिव यशः, श्रीहर्षादेः धावकादीनामिव धनम्, राजादिगतोचिताचारपरिज्ञानम्, आदित्यादेः मयूरादीनामिव अनर्थनिवारणम्, सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वदनसमुद्भूतं विगलितवेद्यान्तरम् आनन्दम्, प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोः गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म, तत् कान्तेव सरसतापादनेन अभिमुखीकृत्य रामादिवत् वर्तितव्यं न रावणादिवत् इत्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ।।
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् |
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे || 3 ||
तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि |
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः || 4 ||
अतादृशी गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ।। 5 ।।
इति प्रथमोल्लासः ।।
द्वितीयोल्लासः
सम्पाद्यताम्तृतीयोल्लासः
सम्पाद्यताम्चतुर्थोल्लासः
सम्पाद्यताम्यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणालंकाराणां स्वरूपमभिधानीयम् तथापि धर्मिणि प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदान् आह।
(सू ३९) अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ।
अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ॥ २४ ॥
लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव, विवक्षितं वाच्यं यत्र स ध्वनौ' इत्यनुवादात् ध्वनिरिति ज्ञेय। तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम्। यथा -
त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति। आात्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्॥२३॥
अत्र वचनादि, उपदेशादिरूपतया परिणमति। क्वचिदनुपपद्यमानतया, अत्यन्तं तिरस्कृतम्। यथा -
उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्। विदधदीदृशमेव सदा सखे सुखितमास्स्व तत शरदां शतम्॥२४॥
एतद् अपकारिणं प्रति विपरीतलक्षणया कश्चिद्वक्ति॥
(सू ४०) विवक्षितं चान्यपरं वच्यं यत्रापरस्तु सः। अन्यपरं व्यङ्ग्यनिष्ठम्॥ एष च (सू ४१) कोऽप्यलक्ष्यक्रमव्यङ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः॥ २५ ॥ अलक्ष्येति। न खलु विभावानुभावव्यभिचारिण एब रसः। अपि तु रसस्तैः, इत्यस्तिक्रमः। स तु लाघवान्न लक्ष्यते॥ अत्र (सू ४२) रसभावतदाभासभावशान्त्यादिरक्रमः। भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥ २६ ॥ आदिग्हणाद्भावोदयभावसंधिभावशबलत्वानि। प्रधानतया यत्र स्थितो रसादिस्तत्रालंकार्यः, यथोदाहरिष्यते। अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्गये रसवत्प्रेयऊर्जस्विसमाहितादयोऽलंकाराः। ते च गुणीभूतव्यङ्ग्याभिधाने, उदाहरिष्यन्ते॥ तत्र रसस्वरूपमाह (सू ४३) कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादे स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ २७ ॥ विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिण। व्यक्त स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ २८ ॥ उक्तं हि भरतेन - विभावानुभावव्यमिचारिसंयोगाद् रसनिष्पत्तिः इति। एतदि्ववृण्वते - विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैः, स्थायी रत्यादिको भावो जनितः, अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यै प्रतीतियोग्यः कृतः, व्यभिचारिभिर्निर्वेदादिभिः सहकारिभिरुपचितः, मुख्यया वृत्या रामादावनुकार्ये तद्रूपतानुसंधानान्नर्तकेऽपि प्रतीयमानो रसः इति भट्टलोल्लटप्रभृतयः। राम एवायम् अयमेव राम इति न रामोऽयम्' इत्यौत्तरकालिके बाधे रामोऽयमिति राम स्याद्वा न वायमिति रामसदृशोऽयमिति च सम्यङि्मथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपत्या ग्राह्ये नटे - सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः। मनोरथश्रीर्मनसश्शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥२५॥ दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च। अविरलविलोलजलदः कालः समुपागतश्चायम्'॥२६॥ इत्यादिकाव्यानुसंधानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकार्यप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः संयोगात्' गम्यगमकभावरूपात् अनुमीयमानोऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः। न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नामिव्यज्यते, अपि तु काव्ये नाटये चाभिधातो द्वितीयेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतत्वेन भोगेन भुज्यते, इति भट्टनायकः। लोके प्रमदादिभिः स्थाय्यनुमानेऽभ्यासपाटववतां काव्ये नाटये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारवत्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते, इति संबन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतः चर्व्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत् सर्वमिव तिरोदधत् ब्रह्मानन्दास्वादमिवानुभावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः। स च न कार्यः। विभावादिविनाशेऽपि तस्य सम्भवप्रसङ्गात्। नापि ज्ञाप्यः सिद्धस्य तस्यासम्भवात्। अपि तु विभावादिभिर्व्यञ्जितः चर्वणीयः। कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेत्, न क्वचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम्। चर्वणानिष्पत्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम्। लौककिप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्येयोऽप्यभिधीयताम्। तद्ग्राहकं च प्रमाणं न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात्। नापि सविकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात्। उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः॥