प्र.- कार्याख्यानाधिकरणम् आरचयत।
उ.- अधिकरणसङ्गति:-
तृतीयाध्याये तृतीयपादे पूर्वस्मिन् अधिकरणे सत् इत्यस्य अर्थविषये सन्देह: वाक्यशेषबलात् निराकृत:।अत्रापि तथैव सन्दिग्धस्य आचमनस्य वाक्यशेषबलात् विधित्वं वक्तव्यमिति दृष्टान्तसङगत्या इदमधिकरणम् आरभ्यते। अत्र इदं सूत्रं विद्यते-
कार्याख्यानादपूर्वम्।३.३.१८
विषय:- अशिष्यन् आचामेत्।अशित्वा चाचामेत्।एतमेव तदनमनग्नं कुरुते।
विशय:-अत्र आचमनस्य विधि: उक्त: आहोस्वित् अनग्नतासङ्कल्पस्य विधि: उक्त: अथवा उभयो:?
पूर्वपक्ष:-उभयो: विधि: उक्त:, तथा श्रुतत्वात्।उभयो: विधिरत्र श्रूयते आचामेत् अनग्नं कुरुते इति।

उत्तरपक्ष:- अत्र अनग्नतासङ्कल्पस्य एव विधि: मन्तव्य: यतो हि
१ उभयविधौ वाक्यं भिद्यते।
२ ‘अप्राप्ते शास्त्रमर्थवत्’ इति न्याय:। आचमनं तु द्विजो नित्यमुपस्पृशेत् इति स्मृतिप्रमाणेन प्राप्तम्।अनग्नतासङ्कल्पस्तु न केनापि अन्येन प्रमाणेन प्राप्त: ।अत: तस्यात्र विधि: मन्तव्य:। स्मृतिप्रमाणेन प्राप्तस्य आचमनस्य तु अनुवादमात्रमत्र मन्तव्यम्।विधिस्तु अनग्नतासङ्कल्पस्य एव।
३ ‘अशिष्यन् आचामेत्।अशित्वा चाचामेत्’ इति श्रुतिरेव ‘द्विजो नित्यमुपस्पृशेत्’ इति स्मृते: मूलमिति न शङ्क्यम्।नैषा श्रुति: वर्णाश्रमधर्मविषयिणी।अत: अस्या: स्मृते: काचिदन्या श्रुति: मूलत्वेनानुमेया।
निर्णय: प्रकृते अनग्नतासङ्कल्प: एव विधीयते।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=कार्याख्यानाधिकरण...&oldid=5700" इत्यस्माद् प्रतिप्राप्तम्