कारणत्वाधिकरणम्
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्ते:।१.४.१४
पू.-ब्रह्मण: जन्मादिकारणत्वं प्रतिपत्तुं न शक्यम्।ब्रह्मविषये च गतिसामान्यं वेदान्तवाक्यानां प्रतिपत्तुं न शक्यम्, विगानदर्शनात्।प्रतिवेदान्तम् अन्यान्या सृष्टिरुपलभ्यते-
१ आत्मन आकाश: सम्भूत: (तै. २.१ )
२ तत्तेजोऽसृजत्। (छा. ६.२.३)
३ स प्राणमसृजत्, प्राणाच्छ्रद्धाम्।(प्र.६.४)
४ स इमांल्लोकानसृजत्। (ऐ. ४.१.२)
५ असद्वा इदमग्र आसीत् ,ततो सदजायत।तै. २.७
६ कुतस्तु खलु सौम्य एवं स्यादिति होवाच कथमसत: सज्जायेत इति सत्त्वेव सोम्येदमग्र आसीत्। (छा.६.२.२)
एवमनेकधा विप्रतिपत्ते: वेदान्तवाक्यानां जगत्कारणावधारणपरता न न्याय्या।
[छा. ७.१.३...]
तमेव विदित्वातिमृत्युमेति-श्वेता.३.८
पू.- कारणविषयमपि विगानं श्रुतौ दृश्यते-‘असद्वा इदमग्र आसीत् इत्यादि।
वे.- आकाशादिषु सृज्यमानेषु यद्यपि विगानं दृश्यते, तथापि कारणत्वेन स्रष्टरि विगानं नास्ति। एकस्मिन् वेदान्ते कारणं यथा व्यपदिष्टं, तथैव अन्यत्रापि तस्य शक्ति: दृश्यते।कार्यविषये विगानं दृश्यते परं ब्रह्मण: कारणत्वविषये विगानं न दृश्यते।अत: कार्यविषयकं विगानं दृष्ट्वा अविगीतं कारणं ब्रह्म न अधिक्षेपणीयम्।
पू.- कार्यस्य विगीतत्वमपि कथं समाधातव्यम्?
वे.- भवेदपि कार्यस्य विगीतत्वम्, अप्रतिपाद्यत्वात्।
पू. – कुत: अप्रतिपाद्यत्वम्?
वे.- कार्यरूप: प्रपञ्च: वेदान्तानां प्रतिपिपादयिषित: नास्त्येव, पुरुषार्थाभावात्।न च पुरुषार्थ: कश्चिदेतेषां वचनानां दृश्यते, श्रूयते वा।
पू.- तर्हि एतत्प्रतिबद्ध: कश्चित् पुरुषार्थ: कल्प्यते।
वे.-न।तत्र तत्र उपक्रमोपसंहाराभ्यां ब्रह्मविषयवाक्यै: साकमेकवाक्यतां गतानि एतानि प्रपञ्चपरवाक्यानि।सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थता श्रूयते- अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ, अद्भि: सोम शुङ्गेन तेजो मूलमन्विच्छ, तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ। (छा.६.८.४) ब्रह्मप्रतिपत्तिसम्बद्धं फलं श्रूयते- ‘ब्रह्मविदाप्नोति परम्।(तै. २.१) तरति शोकमात्मवित् (छा. ७.१.३)
समाकर्षात् । १.४.१५
वे.- असद्वा इदमग्र आसीत् इत्यत्र निरात्मकम् असत् न कारणत्वेन श्राव्यते, यतो हि असद्वादस्य अपवादं कृत्वा अस्तित्वलक्षणं ब्रह्म अन्नमयादिकोशपरम्परया निर्धारितम्- असन्नेव स भवति असद् ब्रह्मेति वेद चेत्।अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदु:।तत: सोऽकामयत इति तस्यैव प्रकृतस्य समाकर्ष: कृत:।सप्रपञ्चां सृष्टिं तस्मात् श्रावयित्वा ?
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् प्रथमाध्याये चतुर्थ: पाद: