कर्मानुस्मृतिशब्दविध्यधिकरणम्

स एव तु कर्मानुस्मृतिशब्दविधिभ्य:।३.२.९
विषय:- सता सोम्य तदा सम्पन्नो भवति (छा.६.८.१)
विशय: - निद्रात: प्रतिबुद्ध्यमान: किं स एव सत्सम्पन्न: आहोस्वित् अन्य:?
पूर्वपक्ष:-अनियमोऽत्र स्यात्।कदाचित् स एव उत्तिष्ठति, कदाचिदन्य:।य़था जलराशौ क्षिप्तो बिन्दु: जलराशि: सम्पद्यते।पुनरुद्धरणे स एव बिन्दु: उद्धृत: इति वक्तुं न शक्यते।एवमेव सुप्त: जीव: परेणात्मना एकीभवति।तत: पुन: स एवोत्तिष्ठति इति वक्तुं न शक्यते।कदाचित् स: स्यात्कदाचिदन्यो जीव: स्यात्।
वेदान्तपक्ष:- स एव सुप्त: जीव: पुन: उत्तिष्ठति, -
१ कर्मशेषानुष्ठानदर्शनात्.
२ अनुस्मृते:
३ शब्दात्
४ कर्मविद्याविधिभ्यश्च।
१ पूर्वेद्यु: अनुष्ठितस्य कर्मण: शेषमपरेद्यु: अनुतिष्ठति सुप्त: जीव:।अत: य: सुप्त: स: एवोत्थित:।
२ पूर्वेद्यु: यमहमद्राक्षं तमेवाद्याहं पश्यामि इति अनुस्मृति: भवति। सा तदैव उपपन्ना यदा सुप्त: एवोत्तिष्ठति।
३ श्रुतिशब्देभ्य: अपि सुप्त: एवोत्तिष्ठतीति गम्यते।
पू.- के ते श्रुतिशब्दा:?
वेदान्ती-
अ) पुन: प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव।(बृ. ४.३.१६)
आ) सर्वा: प्रजा: अहरहर्गच्छन्त्य: एतं ब्रह्मलोकं न विन्दन्ति।(छा.८.३.२)
इ) त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा पतङ्गो वा दंशो वा मशको वा यद्यद् भवन्ति तत्तदाभवन्ति।(छा.६.९.३) एते श्रुतिशब्दा: स्वापबोधाधिकारे पठिता:।यदि आत्मान्तरोस्योत्थानम् अङ्गीकुर्म: तर्हि एतेषां श्रुतिशब्दानां सामञ्जस्यं न स्यात्।
पू.प.- ‘कर्मविद्याविधिभ्यां सुप्तस्यैव पुनरुत्थानं गम्यते’ इति उक्तं, तत्कथम्?
वे.- यदि सुप्तादन्य एवोत्तिष्ठति, तर्हि कालान्तरफलं कर्म तथा कालान्तरफलां विद्यामुद्दिश्य विधि: विफल: स्यात्।
इतोऽपि अन्ये दोषा: सम्भवन्ति अन्योत्थानपक्षे।
पू.प.- के ते दोषा:?
वे.-
१) शरीरान्तरे व्यवहरमाणो जीवो यद्युत्तिष्ठेत् तर्हि तत्रत्यव्यवहारलोप: स्यात्।
२) यदि अन्यत्र सुप्त: अन्यत्र उत्तिष्ठेत्, तर्हि को वा लाभोऽनया कल्पनया?
३) अथ यदि मुक्त: उत्तिष्ठेत्, मोक्ष: अनित्य: स्यात्।
४) निवृत्ताविद्यस्य च पुनरुत्थानं नोपपद्यते।अत: ईश्वरस्योत्थानं न सम्भवति।
५) अन्यजीवोत्थाने सति अकृताभ्यागम: कृतप्रणाश: इति एतौ दोषौ ध्रुवौ।
तस्मात् सुप्त: एवोत्तिष्ठतीति मन्तव्यम्।
पू.प.- ननु जलराशौ क्षिप्त: बिन्दु: पुनरुद्धर्तुं न शक्यते तथा सति सम्पन्न: जीव: नोत्पतितुम् अर्हति।
वे.- दृष्टान्ते विवेककारणाभावात् जलबिन्दो: उद्धरणं न शक्यते।दार्ष्टान्ते विवेककारणं विद्यते अत: उद्धरणमपि शक्यम्।
पू.- किं विवेककारणं विद्यते?
वे.- कर्म च अविद्या च।
पू.-तथापि दुर्विवेच: स एव जीव:।
वे.- सत्यं तथापि नाशक्यम्।नीरक्षीरयो: विवेक: अस्मज्जातीयै: कर्तुमशक्य: परं हंसै: क्रियते।अपि च न जीव: सतो भिन्न:।सदेव उपाधिसंसर्गात् जीव इत्युपचर्यते।
पू.प.-तर्हि एक: जीव: अपर: जीव: इति व्यवहार: कथमुपपद्यते?
वे.- यावद् एकोपाधिगता बन्धानुवृत्ति: तावद् एकजीवव्यवहार:।उपाध्यन्तरगतायां बन्धानुवृत्तौ जीवान्तरव्यवहार:।तस्य तस्य जीवस्य स एवोपाधि: स्वापप्रबोधयो: बीजाङ्कुरन्यायेन वर्तते इति अस्माभि: उच्यते।अत: सुप्त: एव जीव: प्रतिबुद्ध्यते इति युक्तम्।

तृतीयाध्याये द्वितीय: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्