कर्ता शास्त्रार्थवत्त्वात्।२.३.३३
वे.- जीव: कर्ता शास्त्रार्थवत्त्वात्।
१ यजेत जुहुयात् इत्यादि शास्त्रम्।एतस्य शास्त्रस्य अर्थवत्त्वं तदा एव सम्भवति, यदा जीवस्य कर्तृत्वं स्वीक्रियते।
२ एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष: (प्र.५.९) इत्येतदपि शास्त्रम्।एतच्च तदैव अर्थवत् यदा जीव: कर्ता अङ्गीक्रियते।

विहारोपदेशात्।२.३.३४
वे.- जीवस्य कर्तृत्वं विद्यते,तस्य विहारोपदेशात्।विहारोपदेश: एवम्-
१ स ईयतेऽमृतो यत्र कामम्।(बृ.४.३.१२) २ शरीरे यथाकामं परिवर्तते (बृ.२.१.१८) इति च।

उपादानात्।२.३.३५
वे.- जीव: कर्ता।यतो हि जीवप्रक्रियायाम् एव करणानाम् उपादानं प्रतिपादयति श्रुति:- ‘तदेषां प्राणानां विज्ञानेन विज्ञानम् आदाय’(बृ.२१.१.१७)इति प्राणान् गृहीत्वा (बृ.२.१.१८) इति च।

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय:।२.३.३६
वे.- जीव: कर्ता, यतो हि अस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम्- ‘विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च।(तैत्ति.२.५.१)
पू.- ननु विज्ञानशब्दो बुद्धौ रूढ: ।कथं तेन जीवस्य निर्देशोऽत्र क्रियते?
वे.- जीवस्य एवायं निर्देश:, न बुद्धे:।यदि जीवस्यायं निर्देशो न स्यात्, तर्हि निर्देशविपर्यय: स्यात्- ‘ विज्ञानेनेति’ यत्र विज्ञानशब्देन बुद्धि: विवक्षिता तत्र करणविभक्त्या निर्देशो भवति यथा तदेषां प्राणानां विज्ञानेन विज्ञानमादाय (बृ.२.१.१७)।प्रकृते विज्ञानशब्दस्य कर्तृसमानाधिकरणनिर्देशो विद्यते। अत: अत्र बुद्धिव्यतिरिक्तस्य एव आत्मन: कर्तृत्वं सूच्यते।

उपलब्धिवदनियम:।२.३.३७
पू.- यदि बुद्धिव्यतिरिक्तो जीव: कर्ता स्यात् तर्हि स: स्वतन्त्र: भवितुम् अर्हति।तथा सति स: नियमेन स्वहितमेव सम्पादयेत्, नाहितम्।परं तथा न दृश्यते।जीवो विपरीतमपि सम्पादयन् दृश्यते।स्वतन्त्रस्य आत्मन: अनियमेन दृश्यमाना इयं प्रवृत्ति: नोपपद्यते।
वे.- जीव: उपलब्धिविषये स्वतन्त्र:।तथापि अनियमेन इष्टम् अनिष्टं चोपलभते।तथैव जीव: कर्मणि स्वतन्त्रोऽपि अनियमेन इष्टमनिष्टं च सम्पादयति।
पू.- परमुपलब्धौ तु जीव: स्वतन्त्र: नास्ति।उपलब्धिहेतवस्तत्रापि आवश्यका:।
वे.- ते उपलब्धिहेतव: विषयप्रकल्पनामात्रप्रयोजना:।साक्षादुपलब्धौ चेतन आत्मा नान्यदपेक्षते। अपि चार्थक्रियायां न जीव: अत्यन्तं स्वतन्त्र:, देशकालनिमित्तविशेषापेक्ष: स:।अपरं च सहायापेक्षा अस्ति इति कर्तु: कर्तृत्वं न निवर्तते, भवति ह्येधोदकाद्यपेक्षस्यापि पक्तु: पक्तृत्वम्। सहकारिवैचित्र्याच्च इष्टानिष्टार्थक्रियायाम् अनियमेन प्रवृत्ति: सम्भवति।

शक्तिविपर्ययात्।२.३.३८
वे.- जीव: कर्ता, यदि तस्य कर्तृत्वं न स्वीक्रियते, तर्हि विज्ञानवाच्याया: बुद्धे: कर्तृत्वं स्वीकरणीयम्।तथा सति शक्तिविपर्यय: भवति।बुद्धे: करणशक्ति: हीयते, कर्तृशक्ति: प्राप्यते।यदि बुद्धे: कर्तृत्वम् अङ्गीकृतं तर्हि सा अहं-प्रत्ययस्य विषय: भवितुम् अर्हति यतो हि सर्वत्र अहं करोमि अहं गच्छामि इत्यादि अहङ्कारपूर्विका एव प्रवृत्ति: दृश्यते।एवं कल्पिते सति तस्या: बुद्धे: कारणम् अन्यत् किमपि कल्पनीयं यतो हि अत्रापि करणभिन्नस्य कर्तृत्वम् अङ्गीकृतम्। अस्माकमपि तदेवाभिप्रेतम्।

समाध्यभावाच्च।२.३.३९
वे.- आत्मप्रतिपत्तिप्रयोजन: समाधि: उपनिषत्सु उपदिष्ट:- ‘आत्मा वा अरे द्रष्टव्य:, श्रोतव्यो, मन्तव्यो, निदिध्यासितव्य: सोऽन्वेष्टव्य: स विजिज्ञासितव्य: (बृ.२.४.५) ‘ओमित्येव ध्यायथ आत्मानम् (मुण्ड.२.२.६) एष: समाधि: आत्मन: कर्तृत्वे असति नोपपद्यते।अत: सिद्धमस्य आत्मन: कर्तृत्वम्।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये तृतीय: पाद:

"https://sa.wikibooks.org/w/index.php?title=कर्त्रधिकरणम्&oldid=5638" इत्यस्माद् प्रतिप्राप्तम्