कम्पनात्।१.३.३९

पू.- यदिदं किञ्च जगत्सर्वं प्राण एजति नि:सृतम्।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति॥ का. २.६.२
अत्र प्राणशब्देन पञ्चवृत्तिर्वायुर्निर्दिष्ट:,प्रसिद्धे:।
१ सर्वं जगत् वायौ प्रतिष्ठाय एजते।
२ वायौ हि प्रवर्तमाने विद्युद् निर्वर्तते, वृष्टि: निर्वर्तते, अशनि: निर्वर्तते इति महद्भयं वायुनिमित्तमेव।
३ वायुविज्ञानादमृतत्वम् – ‘ वायुरेव व्यष्टि: वायु: समष्टिरप पुनर्मृत्युं जयति य एवं वेद’।
वे.- अत्र प्राणशब्देन ब्रह्म निर्दिष्टं, पूर्वोत्तरालोचनात्।
पूर्वग्रन्थे ब्रह्म निर्दिश्यते –
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते।तस्मिंल्लोका: श्रिता: सर्वे तदु नात्येति कश्चन॥ का. २.६.१
उत्तरग्रन्थेऽपि ब्रह्म निर्दिश्यते –
भयादस्याग्निस्तपति भयात्तपति सूर्य:।भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम:॥का. २.६.३
अकस्मादन्तराले एव वायुनिर्देशो न युज्यते।
सवायुकस्य जगत: भयहेतुत्वमत्र ब्रह्मण एव।तदेवोद्यतं वज्रमिति परामृश्यते।अमृतफलश्रवणादपि ब्रह्मैवेदमिति गम्यते, यतो हि ब्रह्मज्ञानादेवामृतप्राप्ति:- ‘तमेव विदित्वातिमृत्युमेति नान्य: पन्था विद्यतेऽयनाय।(श्वेता. ६.१५)
क्वचिद्वायुविज्ञानादमृतत्वमभिहितं, तदापेक्षिकम्।
प्रकरणादप्यत्र ब्रह्मनिश्चय: , स एवम्-
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद।।-का.२.१४
इति परमात्मविषये पृच्छया प्रकरणमारब्धम्।अत: परमात्मा एवात्र प्रकृत:, न वायु:।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   प्रथमाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=कम्पनाधिकरणम्&oldid=5519" इत्यस्माद् प्रतिप्राप्तम्