एतां रामबलोपेतां ...विनयी भवेत्

मूलम्
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥

पदच्छेदः
एतां रामबल-उपेतां रक्षां यः सुकृती पठेत् । सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥

अन्वयः
यः सुकृती रामबल-उपेताम् एतां रक्षां पठेत्,सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥

सरलार्थः
यः पुण्यवान् जनः रामबलयुताम् एतां रामरक्षां पठति, सः दीर्घायुः ,सुखी, पुत्रवान्, विजयी तथा विनयी भवति॥१०

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
रामबलोपेतां रामबल-उपेतां आद्गुणः।६.१.८६

समासविग्रहः१०
रामबलोपेताम्
रामस्य बलं रामबलम्। षष्ठी ।२.२.८
रामबलेन उपेता रामबलोपेता, ताम्।


चिरायुः
चिरम् आयुः यस्य सः।... अनेकमन्यपदार्थे।२.२.२४

रामरक्षास्तोत्रम् - सान्वयं सार्थम्