एतत्तन्तुसंयुक्तपटे एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं...

प्र.- एतत्तन्तुसंयुक्तपटे एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं विद्यते न वा? चर्चां कुरुत
उ.-सन्दर्भ:-
अंशित्वप्रकरणे चित्सुखाचार्यस्य अनुमाने इयं चर्चा पठ्यते।तदनुमानम् इत्थम्-
अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात्, इतरांशिवत्।अत्र
पक्ष:-अयं पट:
साध्यम्- एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्
हेतु:-अंशित्वम्।
अस्मिन् हेतौ व्यभिचारदोष: पूर्वपक्षेण एवम् उक्त:।कश्चन एतत्तन्तुसंयुक्त: पट: चिन्त्यताम्।तत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं नास्ति इति प्रत्यक्षसिद्धम्।एवं तत्र संयुक्तपटे साध्याभाव: अस्ति, तथापि अंशित्वरूप: हेतु: विद्यते इति व्यभिचारदोष:।
समाधानम्-
1) अत्र व्यभिचार: नास्ति।एतत्तन्तुसमवेतपटस्य अत्यन्ताभावप्रतियोगित्वम् अस्माकं सिषाधयिषितं तथैव एतत्तन्तुसंयुक्तपटस्य अपि अत्यन्ताभावप्रतियोगित्वं सिषाधयिषितम् एव।अत: तत्र साध्यम् अस्मन्मते वर्तते।अत: साध्याभाववद्वृत्तित्वं अंशित्वहेतौ नास्ति।
२अ) अपर: दोष: पूर्वपक्षेण अत्र उत्थापित:- अर्थान्तरम् इति।पटे मिथ्यात्वं जिज्ञासितम् अस्ति। तदेव सिद्धान्तिना कथनीयमं तथापि सिद्धान्ती ‘एतत्तन्तुषु संयोगेन अपर: पट: अस्ति अपि, अपर: पट: नास्ति अपि’ इति साधयितुं प्रयतते।अनेन पटान्तरस्य अव्याप्यवृत्तित्वमात्रं सिद्ध्यति, न तु मिथ्यात्वम्।स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् अव्याप्यवृत्तित्वम्। तदत्र संयुक्तपटे विद्यते इत्येव सिद्ध्यति।परमेतत् तु न जिज्ञासितम् आसीत् अत: अर्थान्तरदोष: अत्र विद्यते।
समाधानम्-
पट-तदभावयो: एकाधिकरणवृत्तित्वे विरोध: अस्ति।यदि तथा विरोधं नाङ्गीकुर्म:, तर्हि विरोध: जगति कुत्रापि न सम्भवेत्।अत: एतत्तन्तुषु समकाले पट-तदभावयो: अङ्गीकारं वयं न कुर्म:।
आक्षेप: (२ आ) भवतु तथा।परं संयोग-तदभावयो: एकाधिकरणवृत्तित्वं तु अङ्गीकार्यम्।तथा नैयायिकै: अपि अङ्गीक्रियते।

समाधानम्-तथापि संयोग-तदभावयो: एकाधिकरणवृत्तित्वं वयं नाङ्गीकुर्म:।
अथापि यदि अङ्गीकरणीयं, तर्हि यथा नैयायिका: कुर्वन्ति तथैव कुर्म:।नैयायिका: कपिवृक्षसंयोगस्थले शाखावच्छेदेन कपिसंयोगं मूलावच्छेदेन कपिसंयोगाभावं मन्यन्ते।
अस्माभि: अपि तथैव अत्यन्ताभावस्य अवच्छेदकं कथ्यते,तेन अयं पट:, एतत्तन्तुनिष्ठ-एतत्तन्तु-अवच्छिन्न-अत्यन्ताभावप्रतियोगी इति अस्माकं प्रतिज्ञावचनम्।अत्र नैयायिकमतेन अपि अर्थान्तरदोष: न सम्भवति।
ई) अनेन विशेषणेन दैशिक-अव्याप्यवृत्तिरूपम् अर्थान्तरं निवृत्तं तथापि कालिक-अव्याप्यृवत्तिरूपम् अर्थान्तरं तु विद्यते एव।यथा संयुक्तपटे एतत्तन्तु-अवच्छिन्न-एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम् इदानीमस्ति, पूर्वं नासीत्, उत्तरकाले न स्यात्।तेन कालान्तरीयम् अव्याप्यवृत्तित्वं संयुक्तपटे विद्यते।अव्याप्यवृत्तित्वम् अर्थान्तरमेव।
समाधानम्-
‘एतत्कालीनत्वम्’ इत्यपि विशेषणं देयम्।तेन प्रतिज्ञावाक्यम् एवं स्यात्-
अयं पट: एतत्तन्तुनिष्ठ-एतत्तन्तु-अवच्छिन्न-एतत्कालावच्छिन्न-अत्यन्ताभावप्रतियोगी
उपसंहार:-
एवम् अनया चर्चया सिद्धान्तिना दर्शितं यत् एतत्तन्तुसंयुक्त: पट: अपि एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अस्ति।



दीर्घोत्तरप्रश्ना: