उपसंहारदर्शनाधिकरणम्

उपसंहारदर्शनान्नेति चेत, न क्षीरवद्धि।२.१.२४
पू.- चेतनं ब्रह्म एकमेवाद्वितीयं जगत: कारणं नोपपद्यते।यतो हि लोके कुलालादय: साधनानामुपसंहारेण घटादिकार्यं निर्मान्ति।ब्रह्म चासहायम्।कथं तस्य कर्तृत्वं शक्यम्?
वे.- नायं दोष:।दधिभवनशक्ति: क्षीरे विद्यते।औष्ण्यादिबाह्यसाधनानामुपसंहारेण तस्य पूर्णता सम्पाद्यते।ब्रह्म तु परिपूर्णशक्तिकम्।तस्य साधनान्तरेण पूर्णता सम्पादनीया नास्ति।
पू.- किमत्र प्रमाणम्?
वे.- श्रुति:।-
न तस्य कार्यं करणं च विद्यते न तत् समश्चाभ्यधिकश्च दृश्यते।परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च।(श्वेता. ६.८)

देवादिवदपि लोके। २.१.२५
पू.- क्षीरादीनामचेतनानां बाह्यसाधनमनपेक्ष्य दध्यादिभवनं स्यादपि।नायं दृष्टान्त: ब्रह्मणि उपपद्यते। यतो हि ब्रह्म चेतनम्।अतो विषमोऽयं दृष्टान्त:।
वे.- देवादिवद् ब्रह्म जगत्कारणम्।देवा:, ऋषय:, पितर: च ऐश्वर्यविशेषयोगात् बाह्यं साधनं विनापि शरीरान्तराणि प्रासादादीन् रथादीन् वा निर्मान्ति।तथा ब्रह्मापि।
पू. किमत्र प्रमाणम्?
वे.- मन्त्रार्थवादेतिहासपुराणानि।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद:
"https://sa.wikibooks.org/w/index.php?title=उपसंहारदर्शनाधिकरणम्&oldid=5602" इत्यस्माद् प्रतिप्राप्तम्