लक्षणम्-
उद्देशः नाम सङ्क्षेपाभिधानम्।यथा हेतुलिङ्गौषधज्ञानम्।(सू.१) अनेन सर्वायुर्वेदाभिधेयोद्देशः ।

लक्षणम्-
निर्देशो नाम सङ्खेयोक्तस्य विवरणम् यथा हेतुलिङ्गौषधस्य पुनः प्रपञ्चनम्।सर्वदा सर्वभावानामित्यादिना इत्युक्तं कारणम् इत्यन्तेन कारणप्रपञ्चमित्यादि। च.सि.१२.४२
विवरणम्
उद्देशे नाममात्रेण विषयवस्तुनः सङ्कीर्तनम् भवति।एवं ये सङ्कीर्तिताः पदार्थाः तेषां विस्तरेण विवेचनं निर्देशे भवति।अतः उद्देश-निर्देशौ एतौ परस्परापेक्षिकौ।‘अयम् उद्देशग्रन्थः’ इति वक्तव्यं चेत् अस्य निर्देशग्रन्थः कः इति अवश्यं वक्तव्यम्।‘अयं निर्देशग्रन्थः’ इति वक्तव्यं चेत् कस्य अयं निर्देशग्रन्थः इति अवश्यं वक्तव्यम्। अतः उद्देश-निर्देशयोः उदाहरणानि एकत्र एव वक्तव्यानि।चक्रपाणिना तथैव कृतम्। ‘हेतुलिङ्गौषधज्ञानम्’ इत्ययमुद्देशग्रन्थः इति वदता तेन ‘सर्वायुर्वेदाभिधेयम् अस्य निर्देशः’ इति उक्तम्।

उदाहरणानि

सम्पाद्यताम्

अधः अष्टाङ्गहृदये सूत्रस्थाने उपलब्धानि उद्देशनिर्देशयोः कतिपयानि उदाहरणानि एकत्र उच्यन्ते -
-
उद्देशः -रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः। इति प्रथमाध्याये षण्णां रसानां सङ्क्षेपाभिधानं कृतम्। अयम् उद्देशग्रन्थः।-
निर्देशः -अत्र उद्दिष्टानां षण्णां रसानां प्रपञ्चनं सूत्रस्थाने दशमे अध्याये कृतम् - क्ष्माम्भोऽग्निक्ष्माम्बुतेजःखवाय्वग्न्यनिलगोऽनिलैः (१०.१) इत्यादिना ।दशमाध्यायः अयं सकलः निर्देशग्रन्थः।-
-
उद्देशः - संयोगाः सप्तपञ्चाशत् ......... ।(अ.हृ.सू. १०.३९)इति सूत्रे रससंयोगानां केवलं सङ्ख्यया उल्लेखः कृतः। एतत् उद्देशसूत्रम्।
निर्देशः एकैकहीनांस्तानपञ्च .......। (अ.हृ.सू. १०.४०)इत्यारभ्य निर्देशः - षट् पञ्चकाः ... । (अ.हृ.सू. १०.४३) इति एतावत्पर्यन्तं कृतः।
-
उद्देशः - चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु । वर्षादिषु तु पित्तस्य श्लेष्मणः शिशिरादिषु ॥ अ.हृ.सू. १२.२४,२५
निर्देशः - चीयते ..... इति कालस्वभाविऽयम् ।अ.हृ.सू. १२.२५-२८
-
उद्देशः - तेषां कोपे तु कारणम् .......... भिद्यते तत्पुनस्त्रिधा ।अ.हृ.सू. १२.३४,३५
निर्देशः - हीनोऽर्थेनेन्द्रियस्य ........ वा कृतम् । अ.हृ.सू. १२.३६-४३
५-
उद्देशः - कुर्वन्ति विविधान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु ।अ.हृ.सू. १२.४४
निर्देशः - शाखा रक्तादयः ............चिरकारिता । अ.हृ.सू. १२.५४
६-
उद्देशः - स्रंसव्यास............... चिरकारिता । अ.हृ.सू. १२.४९-५३
निर्देशः - अशेषामयव्यापीनि दोषलक्षणानि ।अ.हृ.सू. १२.५४
-
उद्देशः - व्याधिरेव त्रिधा स्मृतः । अ.हृ.सू. १२.५७
निर्देशः - यथानिदानं .............. क्षयम् ।अ.हृ.सू. १२.५९
-
उद्देशः - द्विधा स्वपरतन्त्रत्वात् ... । अ.हृ.सू. १२.६०
निर्देशः - पूर्वजाः ............ ततोऽन्ये तु । अ.हृ.सू. १२.६१
-
उद्देशः - कफार्तो रूक्षणं रूक्षो रुक्षः स्निग्धं कफानिले ।
निर्देशः - आमाशयगते वाते कफे पक्वाशयाश्रिते रूक्षपूर्वं तथा स्नेहपूर्वं स्नानानुरोधतः ।
१०-
उद्देशः - चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु । वर्षादिषु तु पित्तस्य श्लेष्मणः शिशिरादिषु ॥ अ.हृ.सू. १२.२४,२५
निर्देशः - चीयते ..... इति कालस्वभावोऽयम् ।अ.हृ.सू. १२.२५-२८
११-
उद्देशः - तेषां कोपे तु कारणम् .......... भिद्यते तत्पुनस्त्रिधा ।अ.हृ.सू. १२.३४,३५
निर्देशः - हीनोऽर्थेनेन्द्रियस्य ........ वा कृतम् । अ.हृ.सू. १२.३६-४३
१२-
उद्देशः - कुर्वन्ति विविधान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु ।अ.हृ.सू. १२.४४
निर्देशः - शाखा रक्तादयः ............चिरकारिता । अ.हृ.सू. १२.५४
१३-
उद्देशः - स्रंसव्यास............... चिरकारिता । अ.हृ.सू. १२.४९-५३
निर्देशः - अशेषामयव्यापीनि दोषलक्षणानि ।अ.हृ.सू. १२.५४
१४-
उद्देशः - व्याधिरेव त्रिधा स्मृतः । अ.हृ.सू. १२.५७
निर्देशः - यथानिदानं .............. क्षयम् ।अ.हृ.सू. १२.५९
१५-
उद्देशः - द्विधा स्वपरतन्त्रत्वात् ... । अ.हृ.सू. १२.६०
निर्देशः - पूर्वजाः ............ ततोऽन्ये तु । अ.हृ.सू. १२.६१

आयुर्वेदोक्ता: तन्त्रयुक्तय:
"https://sa.wikibooks.org/w/index.php?title=उद्देशः,_निर्देशः&oldid=6007" इत्यस्माद् प्रतिप्राप्तम्