उदात्तादीनां स्वतन्त्रोपदेश: किमर्थं नास्ति?

यदि इष्टवर्णानां स्पष्टज्ञानाय वर्णोपदेश: तर्हि उदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानां स्वतन्त्रोपदेश: किमर्थं नास्ति?
अ-वर्णे उपदिष्टे सति अ-कारस्य सर्वेषां भेदानां तत्र ग्रहणं भवति अत: स्वतन्त्रोपदेश: न क्रियते।

पस्पशाह्निक-प्रश्नोत्तरसङ्ग्रह: