ईषद् ईषत् ..... शिरीषकुसुमानि ॥१.०४॥
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥१.०४॥
पदच्छेदः-
ईषद् ईषत् चुम्बितानि भ्रमरैः सुकुमार-केसरशिखानि ।अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥१.०४॥
अन्वयः-
दयमानाः प्रमदाः, भ्रमरैः ईषद् ईषत् चुम्बितानि सुकुमार-केसरशिखानि शिरीषकुसुमानि अवतंसयन्ति ॥१.०४॥
सन्दर्भः-
सरलार्थः-
शिरीषपुष्पाणां कोमलाः केसरशिखाः भ्रमरैः अल्पशः चुम्बिताः। तादृशानि शिरीषपुष्पाणि मदोत्कटाः स्त्रियः अलङ्काररूपेण धारयन्ति।
वृत्तम् –
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले ...वृत्तनिबद्धानि पद्यानि सुभग-सलिल-अवगाहाः.....परिणामरमणीयाः ॥१.०३॥ तव अस्मि .....अतिरंहसा ॥१.०५॥