ईश्वरस्य सापेक्षत्वनिरपेक्षत्वविषये पाशुपतमतं लिखत।
ईश्वरस्य सापेक्षत्वनिरपेक्षत्वविषये पाशुपतमतं लिखत।
ईश्वरः जीवेभ्यः सुखदुःखरूपं फलं वितरति इति सर्वेषु आस्तिकेषु दर्शनेषु अभ्युपगम्यते।स च ईश्वरः जीवानां कर्म अपेक्ष्य फलं ददाति आहोस्वित् कर्म अनपेक्ष्य इति तावद् विवाद्यविषयः।
शास्त्रान्तरेषु ‘ईश्वरः कर्मापेक्ष्य फलं ददाति’ इति सम्मतम्।पाशुपतशास्त्रे तु ईश्वरः स्वतन्त्रः अङ्गीकृतः।सः कर्म अनपेक्ष्य फलं वितरति। तत्र आक्षेपः एवं यद् यदि ईश्वरः कर्मनिरपेक्षं फलं ददाति तर्हि द्वौ दोषौ उद्भवतः कर्मवैफल्यं, समसमयसमुत्पादः च।
१ कर्मवैफल्यदोषः
यदि ईश्वरः कर्मनिरपेक्षं फलं ददाति तर्हि जीवानां कर्म विफलं स्यात्।ततः च जीवस्य कर्मणि प्रवृत्तौ प्रयोजनमेव किमपि न स्यात्।
समाधानम्-
ईश्वरानुगृहीतं चेत् जीवस्य कर्म सफलं भवति एव।ईश्वरस्यानुग्रहः नास्ति चेत् कदाचित् सफलं भवति, कदाचित् निष्फलं भवति।
कर्मनिष्फलतायाः सम्भावना अस्ति चेत् जीवस्य कर्मणि प्रवृत्तिः एव न स्यात् इति न मन्तव्यम्।यथा कर्षकः धान्यलाभविषये सन्दिहानः अपि कृषिकर्मणि प्रवर्तते एव, तथा जीवस्य अपि कर्मणि प्रवृत्तिः उपपद्यते।
२ समसमयसमुत्पाददोषः
यदि ईश्वरः कर्मानपेक्षः सन् कारणं तर्हि सर्वेषां कार्याणां समे समये समुत्पादः स्यात्।यतो हि कार्योत्पादे किमपि नियामकं नास्ति।ईश्वरः सदैव विद्यते अतः तत्कार्यस्य अपि सदैव उत्पत्तिः प्राप्ता।
समाधानम्
नैवम्।ईश्वरस्य शक्तिः अचिन्त्या।सा च ईश्वरेच्छाम् अनुसरति।अतः सर्वेषां कार्याणां समसमुत्पादः न भवति, ईश्वरस्य तथाविधेच्छाभावात्।
तस्मात् ईश्वरः निरपेक्षः कारणम् इति पाशुपतमते सिद्धान्तः।
सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्