इच्छा =
कामः।
यथा इच्छा कामः वात्मगुणः।
यथा विपरीतगुणविषये इच्छा, कामः वा दोषचयस्य लक्षणम्।

इच्छाविषयः =
इष्टम्।
यथा क्षुधितस्य अन्नम् इच्छाविषयः इष्टं वा।
यथा कटुरसः कफरोगिणः इष्टः,इच्छाविषयः वा।

इतरत्वम् =
अन्यत्वम्।अन्योन्याभावः।भिन्नत्वम्।भेदः।भेदवत्वम्।
यथा घटे पटेतरत्वं, पटान्यत्वं,पट-अन्योन्याभावः, पटभिन्नत्वं, पटभेदः, पटभेदवत्वं वा ।
यथा पित्ते रक्तेतरत्वं, रक्तान्यत्व. रक्तान्योन्याभावः, रक्तभिन्नत्वं, रक्तभेदः, रक्तभेदवत्त्वं वा।

इन्द्रियजन्यप्रत्यक्षाविषयत्वम् =
अतीन्द्रियत्वम्।इन्द्रियाग्राह्यत्वम्।
यथा मनः इन्द्रियजन्यप्रत्यक्षाविषयं अतीन्द्रियम् इन्द्रियाग्राह्यम् वा।

इन्द्रियम् =
प्रत्यक्षम्। प्रत्यक्षप्रमाणम्।
यथा पुरोवर्ती घटः इन्द्रियेण, प्रत्यक्षेण, प्रत्यक्षप्रमाणेन वा गृह्यते ।
यथा रुग्णस्य वर्णः इन्द्रियेण, प्रत्यक्षेण, प्रत्यक्षप्रमाणेन वा गृह्यते ।

इन्द्रियाग्राह्यत्वम् =
अतीन्द्रियत्वम्।इन्द्रियजन्यप्रत्यक्षाविषयत्वम्।
यथा मनः इन्द्रियाग्राह्यम् अतीन्द्रियम् इन्द्रियजन्यप्रत्यक्षाविषयं वा।

इष्टम् =
इच्छाविषयः।
यथा क्षुधितस्य अन्नम् इष्टम् इच्छाविषयः वा।
यथा कटुरसः कफरोगिणः इष्टः,इच्छाविषयः वा

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=इ...&oldid=7301" इत्यस्माद् प्रतिप्राप्तम्