त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् । ब्रसू-२,४.१७ ।
विशय: -मुख्य: एक: प्राण:, इतरे एकादश प्राणा: इति सिद्धे पुन: सन्देह: जायते, मुख्यस्य एव प्राणस्य वृत्तिभेदा: इतरे प्राणा: आहोस्वित् तत्त्वान्तराणीति।
पू.- मुख्यस्य एव प्राणस्य वृत्तिभेदा: इतरे प्राणा:।यतो हि श्रुति: मुख्यान् इतरांश्च प्राणान् उक्त्वा इतरेषां मुख्यात्मतां ब्रूते- ‘हन्तास्यैव सर्वे रूपमसाम इति तु एतस्यैव सर्वे रूपमभवन्’। (बृ. १.५.२१)
वे.- प्राणाद् वागादीनि तत्त्वान्तराणि एव, व्यपदेशभेदात्।
पू.- कोऽयं व्यपदेशभेद:?
वे.- ते प्रकृता: प्राणा: श्रेष्ठं वर्जयित्वा इन्द्रियाणीति व्यपदिश्यन्ते।एवं तेषां व्यपदेशात् एकादश प्राणा: मुख्यप्राणात् तत्त्वान्तरम् इति मन्तव्यम्।
पू.- कुत्र विद्यतेऽयं व्यपदेश:?
वे.- एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च। (मुण्ड. २.१.३)
एतादृशेषु श्रुतिवचनेषु प्राणस्य व्यपदेश: पृथक् क्रियते, इन्द्रियाणां व्यपदेश: पृथक् क्रियते।अत: प्राणा: इन्द्रियेतरतत्त्वरूपा: इति मन्तव्यम्। पू.- ननु ‘मन: सर्वेन्द्रियाणि च’ इति मनस: अपि इन्द्रियेभ्य: पृथग् व्यपदेश: दृश्यते।अत: मन: अपि इन्द्रियत्वेन न गणनीयम्।
वे.- सत्यम्।तथापि स्मृतौ एकादशेन्द्रियाणां व्यपदेशो भवति अत: मन: अपि श्रोत्रादिवद् इन्द्रियत्वेन ग्राह्यम्।तथा प्राणस्य इन्द्रियत्वं न श्रुतौ दृश्यते, न वा स्मृतौ।अत: इन्द्रियेभ्य: पृथगेव प्राणा:।
योऽयम् इन्द्रियेभ्य: भिन्नत्वेन प्राणानां व्यपदेश: भवति, तत: सिद्धमिदं यद् मुख्य: प्राण: इन्द्रियेभ्योऽतिरिक्त:।

भेदश्रुते:।२.४.१८
वे.- इन्द्रियेभ्य: तत्त्वान्तरभूत: मुख्य: प्राण:, तस्य भेदेन श्रवणात्।
पू.- कुत्र विद्यते एतादृशं श्रवणम्?
वे.- बृहदारण्यकोपनिषदि (१.३.२) । ‘ ते ह वायुमूचु:’ इत्युपक्रम: कृत:। तत् प्रकरणम् उपसंहृतम्। अग्रे ‘अथ हेममासत्यं प्राणमूचु:’ इति मुख्यस्य प्राणस्य भेदेन उपक्रम: कृत:।
‘मनो वाचं प्राणं तान्यात्मने अकुरु’ इत्येवमाद्या: श्रुतय: अपि प्राणस्य इन्द्रियेभ्य: भेदं सूचयन्ति।

वैलक्षण्याच्च । ब्रसू-२,४.१९ ।
वे.- मुख्य: प्राण: इतरे च इत्येतेषु वैलक्षण्यं भवति अत: अपि उभयो: तत्त्वत: भेद: अङ्गीकरणीय:।तच्च वैलक्षण्यम् इत्थम्-

मुख्य: प्राण: इतरे प्राणा:
सततं जागर्ति सुप्ति: सम्भवति।
अस्य स्थिति: देहधारणस्य निमित्तम्। एषां स्थिति: देहधारणस्य निमित्तं न।
अस्य उत्क्रान्ति: देहपतनस्य निमित्तम्। -
अस्य विषयालोचनहेतुत्वं नास्ति। एषां विषयालोचनहेतुत्वम् अस्ति।

पू.- ‘त एतस्यैव सर्वे रूपमभवन्’ (बृ.१.५.२१) इत्यस्या: श्रुते: का गति:? प्राण एवेन्द्रियाणि इति अस्या: श्रुते: अभिप्रायो वर्तते।
वे.- नैवम्।अत्रापि पौर्वापर्यालोचनाद् भेद: ज्ञायते।स च पूर्वापरसन्दर्भ: एवम्-
१ ‘वदिष्यामेवाहम्’ इति वाग् दध्रे।(बृ. १.५.२१)
२ एवं प्रतीन्द्रियं वचनम्।तत:
३ ‘तानि मृत्यु: श्रमो भूत्वा उपयेमे तस्मात् श्राम्यत्येव वाक्’ इति श्रमरूपमृत्युना इन्द्रियाणां ग्रस्तत्वम् उक्तम्।तत: ४ ‘अथेममेव नाप्नोद्योऽयं मध्यम: प्राण:’ (बृ.१.५.२१) इत्येवं श्रमरूपमृत्युना प्राण: न ग्रस्त: इति अभिहितम्। तत:
५ ‘अयं वै न: श्रेष्ठ:’ इति प्राणस्य श्रेष्ठता इन्द्रियै: निर्णीता।
इदानीम् अस्य प्रतिपादनस्य अविरोधेन एव ‘त एतस्यैव सर्वे रूपमभवन्’ इति अस्य वचनस्य अर्थ: बोद्धव्य:।अत: ‘इन्द्रियाणि परिस्पन्दलाभाय प्राणायत्तानि सन्ति अत एव क्वचिद् इन्द्रियेषु प्राणशब्द: लाक्षणिक: भवति।यथा -
‘त एतस्यैव सर्वे रूपमभवन् तस्मादेत एतेनाख्यायन्ते प्राणा:’ (बृ.१.५.२१)
अत्र प्राणशब्दस्य इन्द्रियेषु लाक्षणिकी वृत्ति: श्रुत्या दर्शिता।तस्मात् तत्त्वान्तराणि इन्द्रियाणि मुख्यप्राणात्।

द्वितीयाध्याये चतुर्थ: पाद:   ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्
"https://sa.wikibooks.org/w/index.php?title=इन्द्रियाधिकरणम्&oldid=5650" इत्यस्माद् प्रतिप्राप्तम्