इदं किल..... ऋषिः व्यवस्यति ॥१.१८॥
इदं किलाव्याजमनोहरं वपु –
स्तपः क्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां च्छेत्तुमृषिव्यवस्यति ॥१.१८॥
पदच्छेदः-
इदं किल अव्याजमनोहरं वपुः
तपःक्षमं साधयितुं यः इच्छति ।
ध्रुवं सः नीलोत्पलपत्रधारया
शमीलतां छेत्तुम् ऋषिः व्यवस्यति ॥१.१८॥
अन्वयः-
इदम् अव्याजमनोहरं वपुः तपःक्षमं साधयितुं यः इच्छति किल, सः ऋषिः ध्रुवं नीलोत्पलपत्रधारया शमीलतां छेत्तुम् व्यवस्यति ॥१.१८॥
सन्दर्भः-
आश्रमे शकुन्तलां दृष्ट्वा दुष्यन्तः चिन्तयति।
सरलार्थः-
अलङ्कारैः विना अपि इदं शरीरं मनोहरम्।ईदृशं जनं तपसि योजयितुं यः ऋषिः इच्छति, सः नूनं नीलकमलपत्रस्य धारया शमीच्छेदनं कर्तुं प्रयतते।१.१८
वृत्तम् –
वंशस्थम्
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले वंशस्थ-वृत्तनिबद्धानि पद्यानि शुध्दान्तदुर्लभम्..... वनलताभिः ॥१.१७॥ इदम् ..... पाण्डुपत्रोदरेण॥१.१९