मूलम्
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम्।
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम्।। ३९।।

पदच्छेदः-
आसमाप्तम् इदं स्तोत्रं पुण्यं गन्धर्व-भाषितम्।अनौपम्यं मनोहारि सर्वम् ईश्वरवर्णनम्।।

अन्वयः
गन्धर्व-भाषितम् इदं ईश्वरवर्णनम् स्तोत्रं पुण्यं आसमाप्तम् अनौपम्यं मनोहारि शिवं च ।। ३९।।

सरलार्थः-
एतत् स्तोत्रं गन्धर्वेण प्रोक्तम्।इदम् ईश्वरवर्णनपरं स्तोत्रं समाप्तिपर्यन्तम् अनौपम्यं मनोहारि तथा पवित्रम् अस्ति॥३९

शिवस्तोत्राणि    शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=आसमाप्तमिदं...&oldid=7128" इत्यस्माद् प्रतिप्राप्तम्