मूलम्
आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान् सः नः प्रभुः ॥१६॥

पदच्छेदः
आरामः कल्पवृक्षाणां विरामः सकल-आपदाम् । अभिरामः त्रिलोकानां रामः श्रीमान् सः नः प्रभुः ॥१६॥

अन्वयः
(यः) कल्पवृक्षाणाम् आरामः, सकल-आपदां विरामः,त्रिलोकानाम् अभिरामः, सः श्रीमान् रामः नः प्रभुः ॥१६॥

सरलार्थः
यः कल्पतरूणां वनम् अस्ति, यः सर्वेषां सङ्कटानां समाप्तिः अस्ति, यः त्रिषु लोकेषु सुन्दरः अस्ति,सः श्रीमान् रामः अस्माकं स्वामी अस्ति॥१६

सन्धिविग्रहः १६

सन्धिः विग्रहः सूत्रम्
सकलापदाम् सकल-आपदाम् अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः १६
कल्पवृक्षाणाम्
कल्पः नाम वृक्षः।... विशेषणं विशेष्येण बहुलम्।२.१.५७

सकलापदाम्
सकलाः आपदः सकलापदः, तासाम्।... विशेषणं विशेष्येण बहुलम्।२.१.५७

रामरक्षास्तोत्रम् - सान्वयं सार्थम्
"https://sa.wikibooks.org/w/index.php?title=आरामः_...सः_नः_प्रभुः&oldid=7219" इत्यस्माद् प्रतिप्राप्तम्