श्रीभैरवः ।

Tin > Subtypes

खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरं तत्र गुणैः श्रेष्ठं गुणहीनं तु मिश्रकम् ॥ आक-२,६.१ ॥

खुर > फ्य्स्. प्रोपेर्तिएस्

धवलं मृदुलं स्निग्धं द्रुतद्रावं सगौरवम् ।

मिश्रक > फ्य्स्. प्रोपेर्तिएस्

निःशब्दं खुरवङ्गं स्यान्मिश्रकं श्यामशुभ्रकम् ॥ आक-२,६.२ ॥

तिन् > स्य्नोन्य्म्स्

त्रपु त्रपुसमारूपं वङ्गं च कुटिलं हिमम् ।
कुरूप्यं विच्चटं रङ्गं पूतिगन्धं रसाह्वयम् ॥ आक-२,६.३ ॥

तिन् > परीक्षा > गोओद् ॠउअलित्य्

स्वच्छम् उष्णासहं शीतं सूक्ष्मपत्रकरं लघु ।
रुङ्नाशे रूप्यकरणे तद्वङ्गं श्रेष्ठमुच्यते ॥ आक-२,६.४ ॥

वङ्गशुद्धि (१)

द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसैः ।
विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥ आक-२,६.५ ॥

अम्लतक्रविनिपिष्टवर्षाभूवृषसिन्धुभिः ।
कट्वलाबुगतं वङ्गं द्वितयं परिशुध्यति ॥ आक-२,६.६ ॥

सतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ ।
बोधिचिञ्चात्वचः क्षारैर् दद्याल्लघुपुटानि च ॥ आक-२,६.७ ॥

मर्दयित्वा चरेद्भस्म तद्रसादिषु कीर्तितम् ।

वङ्गशुद्धि (२)

नागवच्छोधयेद् वङ्गं तद्वदश्वत्थचिञ्चयोः ॥ आक-२,६.८ ॥

तद्भस्म हरितालं च तुल्यमम्लेन मर्दयेत् ।
पलाशोत्थद्रवैर् वाथ लोलयित्वान्ध्रयेत्पुटे ॥ आक-२,६.९ ॥

उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ।

वङ्गशुद्धि (३)

पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् ॥ आक-२,६.१० ॥

एकविंशत्पुटैर्वङ्गो मृतो भवति रोगहा ।
शिरीषरजनीचूर्णैः कुमार्या युतगोलकम् ॥ आक-२,६.११ ॥

सूतलिप्तं वङ्गपत्रं गोलकं सममर्दितम् ।
रुद्ध्वा लघुपुटैः पक्वं मृतं स्यात्पूर्वसंख्यया ॥ आक-२,६.१२ ॥

अक्षभल्लातकीतोयैः पिष्ट्वा पत्राणि लेपयेत् ।
ततस्तिलखरीमध्ये क्षिप्त्वा रुद्ध्वा पुटैः पचेत् ॥ आक-२,६.१३ ॥

चत्वारिंशद्गजपुटैर् वङ्गकं भस्म जायते ।

वङ्गगुणाः

वङ्गं तीक्ष्णोष्णकटुकमीषद्वातप्रकोपनम् ॥ आक-२,६.१४ ॥

मेदःश्लेष्मामयघ्नं च क्रिमिघ्नं मेहनाशनम् ।
हिमं कषायलवणं पाण्डुदाहहरं सरम् ॥ आक-२,६.१५ ॥

लेखनं पित्तलं किंचित् त्रपु सीसं च तद्गुणम् ।

सीसक

सीसकं तु जडं शीतं यवनेष्टं भुजङ्गमम् ॥ आक-२,६.१६ ॥

योगीष्टं नागम् उरगं कुवङ्गं परिपिष्टकम् ।
मृदु कृष्णायसं पक्ष्मतारशुद्धिकरं स्मृतम् ॥ आक-२,६.१७ ॥

सिरावृत्तं च वङ्गं स्याच्चीनपिष्टं च षोडश ।
सीसं तु वङ्गसाम्यं स्याद्रसवीर्यविपाकतः ॥ आक-२,६.१८ ॥

अशुद्धवङ्गनागसेवने दोषाः

पाकहीनौ नागवङ्गौ कुष्ठगुल्मरुजाकरौ ।
मेहपाण्डुज्वरश्लेष्मवातपित्तप्रदौ स्मृतौ ॥ आक-२,६.१९ ॥

द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् ।
पूतिगन्धं बहिः कृष्णं शुद्धं सीसमतोऽन्यथा ॥ आक-२,६.२० ॥

निर्गुण्डीमूलचूर्णेन सार्कदुग्धेन लेपयेत् ।
नागपत्रं ततः शुष्कं द्रावयित्वा निषेचयेत् ॥ आक-२,६.२१ ॥

लिप्त्वा द्राव्यं पुनः सेच्यं सप्तवारं विशुद्धये ।
निशातुम्बुरुबीजानि कोकिलाक्षीकुबेरकम् ॥ आक-२,६.२२ ॥

गौरीफलं मल्लिका च मोक्षो ब्रह्मा मयूरकम् ।
यथालाभं तु भस्मैषां वज्रीक्षीरेण भावयेत् ॥ आक-२,६.२३ ॥

तन्मध्ये द्रावितं नागं शुद्धं सेच्यं तु सप्तधा ।
महिषस्यास्थिचूर्णेन सुपाकं मूत्रसेचनात् ॥ आक-२,६.२४ ॥

वङ्गं शुद्धं भवेत्तद्वन्नागो नागास्थिमूत्रतः ।

नागभस्म (१)

अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः ॥ आक-२,६.२५ ॥

क्षिप्त्वा चुल्ल्यां पचेदग्नौ चालयेल्लोहचट्टुना ।
यावद्भस्म तमुद्धृत्य भस्मतुल्यां मनःशिलाम् ॥ आक-२,६.२६ ॥

जम्बीरैर् आरनालैर् वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ।
स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशे शिलाम्लके ॥ आक-२,६.२७ ॥

एवं षष्टिपुटैः पक्त्वा नागः स्यात्तु निरुत्थितः ।

नागभस्म (२)

अथवा नागपत्राणि चूर्णलिप्तानि खर्परे ॥ आक-२,६.२८ ॥

अल्पाग्नौ पाचयेद्यामं भस्म तच्चित्रकद्रवैः ।
भर्जयेल्लोहपात्रे तत्पार्थदण्डेन चालयन् ॥ आक-२,६.२९ ॥

यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः ।
दण्डेन मर्दयेद्गाढमुद्धृतं चित्रकदवैः ॥ आक-२,६.३० ॥

लोलयित्वा निरुध्याथ षट्पुटैर् म्रियते लघु ।

नागभस्म (३)

चिञ्चाक्षमिक्षुभल्लातवाशावज्रलताभवैः ॥ आक-२,६.३१ ॥

अपामार्गार्जुनाश्वत्थसमुद्भूतैश्च भस्मभिः ।
दृढं पालाशदण्डेन लोहपात्रे तु भर्जयेत् ॥ आक-२,६.३२ ॥

सप्तभिर्दिवसैरेव म्रियते नात्र संशय ।

नागभस्म (४)

पिष्ट्वागस्त्यं च भूनागं लिप्त्वा भाण्डं विशोधयेत् ॥ आक-२,६.३३ ॥

तद्भाण्डे द्रावयेन्नागं द्रुते नागे विनिक्षिपेत् ।
वाशाचिञ्चटयोः क्षारं वाशाकाष्ठेन घट्टयेत् ॥ आक-२,६.३४ ॥

यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् ।
संचूर्ण्य च शिलाताप्ये वाशकक्षारसंयुतम् ॥ आक-२,६.३५ ॥

चतुस्तुल्यं पूर्वनागं विंशत्येकपुटैः पचेत् ।
द्विपुटं चिञ्चिकक्षारैर् देयं वाशारसान्वितैः ॥ आक-२,६.३६ ॥

नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् ।
अत्युष्णं सीसकं स्निग्धं तिक्तं वातकफापहम् ॥ आक-२,६.३७ ॥

प्रमेहतोयदोषघ्नं दीपनं चामवातनुत् ॥ आक-२,६.३८ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_2.6&oldid=7082" इत्यस्माद् प्रतिप्राप्तम्