आदिष्टवान् ... बुधकौशिकः

मूलम्
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥१५॥

पदच्छेदः
आदिष्टवान् यथा स्वप्ने रामरक्षाम् इमां हरः । तथा लिखितवान् प्रातः प्रबुद्धः बुधकौशिकः ॥१५॥

अन्वयः
हरः इमां रामरक्षां स्वप्ने यथा आदिष्टवान्, तथा प्रातः प्रबुद्धः बुधकौशिकः लिखितवान्॥१५॥

सरलार्थः
शङ्करः एतां रामरक्षां बुधकौशिकाय ऋषये स्वप्ने उपदिष्टवान्।प्रातः प्रबुद्धः बुधकौशिकः ऋषिः यथा उपदिष्टं तथा लिखितवान्॥१५

सन्धिविग्रहः १५

सन्धिः विग्रहः सूत्रम्
प्रबुद्धो बुधकौशिकः प्रबुद्धस् बुधकौशिकः ससजुषो रुः।८.२.६६
हशि च।६.१.११२

समासविग्रहः १५
रामरक्षाम्
रामस्य रक्षा रामरक्षा, ताम्।... षष्ठी।२.२.८


रामरक्षास्तोत्रम् - सान्वयं सार्थम्