मूलम्
असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे।
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी।।
लिखति यदि गृहीत्वा शारदा सर्वकालं।
तदपि तव गुणानामीश पारं न याति।। ३२।।

पदच्छेदः-
असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे।सुर-तरुवर-शाखा लेखनी पत्रम् उर्वी।।
लिखति यदि गृहीत्वा शारदा सर्वकालं।तद् अपि तव गुणानाम् ईश पारं न याति।। ३२।।

अन्वयः
हे ईश, सिन्धु-पात्रे असित-गिरि-समं कज्जलं स्यात्, सुर-तरुवर-शाखा लेखनी स्यात्, उर्वी पत्रम् स्यात्, यदि (एतत् सर्वं) गृहीत्वा शारदा सर्वकालं लिखति तद् अपि तव गुणानाम् पारं न याति।। ३२।।

सरलार्थः-
हे ईश, यदि समुद्रस्य मसीपात्रं भवति, कृष्णपर्वतस्य कज्जलं भवति, कल्पवृक्षस्य शाखा लेखनी भवति, पृथ्वी पत्रं भवति, तथा च एतैः साधनैः शारदा देवी सर्वकालं तव गुणान् लिखति, तथापि सा तव गुणानां पारं न गमिष्यति।३२


शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=असित-गिरि-समं...&oldid=6184" इत्यस्माद् प्रतिप्राप्तम्