अष्टमोऽध्यायः सम्पाद्यताम्


(उपसंहारः) सम्पाद्यताम्


अध्यायसंबन्धः सम्पाद्यताम्


९९७. सर्वस्यैवगीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वश्च वेदार्थः वक्तव्यः इत्येवमर्थः अयं अध्यायः आरभ्यते । सर्वो हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यते । अर्जुनस्तु संन्यासत्यागशब्दार्थयोरेव विशेषं बुभुत्सुः उवाच -

संन्यासत्यागशब्दयोः अर्थः
अर्जुन उवाच -
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥१॥

"https://sa.wikibooks.org/w/index.php?title=अष्टादशोऽध्यायः&oldid=4100" इत्यस्माद् प्रतिप्राप्तम्