अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वाभाव: दृश्यत्वम्
प्र.- स्पष्टीकुरुत – अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वाभाव: दृश्यत्वम्।
उ.-
सन्दर्भ:-
विमतं मिथ्या, दृश्यत्वाद् इति अनुमानम् अद्वैतसिद्धिकारेण प्रतिपादितम्। तत्र दृश्यत्वम् इति हेतु:। तस्य अर्थस्य चर्चायां नाना दृश्यत्वलक्षणानि परामृष्टानि।तत्रेदमन्यतमं दृश्यत्वलक्षणम्।
स्पष्टीकरणम्-
अवेद्यत्वं नाम फलव्याप्त्यभाव:। एतद् विशेषणदलम्। अपरोक्षव्यवहारयोग्यत्वाभाव: इति विशेष्यदलम्। सतिसप्तम्या: विशिष्टार्थ:।अत: फलव्याप्त्यभावविशिष्ट-अपरोक्षव्यवहारयोग्यत्वाभाव: दृश्यत्वमिति लक्षणम्।
अवेद्यत्वमात्रोपादाने अवेद्यत्वं दृश्यत्वमिति लक्षणं स्यात्। तदा अवेद्यत्वं ब्रह्मणि विद्यते इति ब्रह्मणि लक्षणमतिव्याप्तम्।अत: विशेष्यदलम् आवश्यकम्। यद्यपि ब्रह्मणि अवेद्यत्वम् अस्ति, तथापि अपरोक्षव्यवहारयोग्यताभाव: नास्ति|ब्रह्म अपरोक्षव्यवहारयोग्यतावद् अस्ति। अत: विशेष्याभावाद् लक्षणं ब्रह्मणि न वर्तते।
अपरोक्षव्यवहारयोग्यत्वाभाव: दृश्यत्वम् इति एतावन्मात्रोक्ते घटादौ अव्याप्ति:। घटादौ अपरोक्षव्यवहारयोग्यत्वम् अस्ति।तत्र दृश्यत्वं न स्यात्।अत: विशेषणदलमावश्यकम्।घट: वेद्य: अस्ति। तत्र फलव्याप्ति: अङ्गीक्रियते।अत: फलव्याप्त्यभावविशिष्ट-अपरोक्षव्यवहारयोग्यताभाव: घटे अस्ति ।अत: घटादौ लक्षणं विद्यते इति अव्याप्ति: परिहृता।वैशिष्ट्यमत्र सामानाधिकरण्यम्।
अत्र आशङ्का वर्तते।फलव्याप्त्यभावविशिष्ट: अपरोक्षव्यवहारयोग्यत्वाभाव: अविद्यायाम्, अन्त:करणे तथा शुक्तिरजतादौ अपि न विद्यते।
अविद्यादिषु अपरोक्षव्यवहारयोग्यता अस्ति।अत: विशेष्याभावात् अविद्यादिषु लक्षणं न विद्यते। तेन अव्याप्ति: स्यात्।
तत्र एवं समाधानम् उच्यते। अपरोक्षव्यवहारयोग्यतापदेन अविद्यानिवर्तकवृत्तिविषयत्वयोग्यता विवक्षिता।तादृशी योग्यता अविद्यादिषु नास्ति। अत: फलव्याप्त्यभावविशिष्ट: अपरोक्षव्यवहारयोग्यत्वाभाव: तेषु वर्तते इति न अव्याप्ति: स्यात्।
लघूत्तरप्रश्ना: