अर्थान्तरत्वव्यपदेशाधिकरणम्

आकाशोऽर्थान्तरत्वादिव्यपदेशात्।१.३.४१

पू.- आकाशो वै नाम नामरूपनिर्वहिता ये तदन्तरा तद्ब्रह्म तदमृतं स आत्मा(छा. ८.१४.१) इति श्रूयते।तत्र आकाशशब्देन भूताकाशं ग्राह्यं, प्रसिद्धे:।
वे.- जीवस्य ब्रह्माभेदेन नामरूपकर्तृत्वम् अत्रोच्यते।अत: आकाशशब्देन ब्रह्मैव ग्राह्यं, न जीव:।
पू.- स्रष्टृत्वादिकं किमपि स्पष्टं ब्रह्मलिङ्गमत्र नास्ति।कथं ब्रह्मैव ग्राह्यम्?
वे.-
१ नामरूपनिर्वहणादेव स्रष्टृत्वादिकं ब्रह्मलिङ्गमुक्तं भवति।
२ तद् ब्रह्म तदमृतं स आत्मा (छा.८.१४) एतानि स्पष्टानि ब्रह्मलिङ्गानि सन्ति एव।
पू.- नामरूपनिर्वहणं तस्मिन् आकाशे योजयितुं शक्यते, अवकाशदानद्वारा।
वे.- न।अर्थान्तरत्वादिव्यपदेशाद् ब्रह्मणोऽन्यत्रायं निर्देशो न शक्यते।‘ते (नामरूपे ) यदन्तरा, तद्ब्रह्म’ इति वचनात् नामरूपाभ्यामर्थान्तररूपमाकाशमत्र विवक्षितम्।भूताकाशं तु नामरूपान्तर्गतमेवास्ति।नामरूपाभ्यामर्थान्तरं ब्रह्मण एव सम्भवति, नान्यस्य कस्यचित्।
२ नामरूपनिर्वहणं निरङ्कुशं ब्रह्मण एव सम्भवति, नान्यस्य। ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा.६.३.२) इति नामरूपयो: ब्रह्मकर्तृकत्वं श्रूयते।
पू.- ननु ‘आकाशस्तल्लिङगात्’(ब्र.सू. १.१.२२)इत्यत्रायं विषय: परामृष्ट:।पुनरत्र किमर्थमुत्थापित:?
वे.- तस्यैवायं प्रपञ्च:।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   प्रथमाध्याये तृतीय: पाद: