अर्थशास्त्रम् अध्याय 03

(डेतेर्मिनतिओन् ओf (वलिद् अन्द् इन्वलिद्) त्रन्सच्तिओन्स्) (Fइलिन्ग् ओf लw-सुइत्स्)

अशा-०३.१.०१
धर्मस्थास् त्रयस् त्रयो_अमात्या जन.पद.संधि.संग्रहण.द्रोण.मुख.स्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः ॥

अशा-०३.१.०२
तिरोहित.अन्तर्.अगार.नक्त.अरण्य.उपध्य्.उपह्वर.कृतांश् च व्यवहारान् प्रतिषेधयेयुः ॥

अशा-०३.१.०३
कर्तुः कारयितुः पूर्वः साहस.दण्डः ॥

अशा-०३.१.०४
श्रोतृऋणाम् एक.एकं प्रत्यर्ध.दण्डाः ॥

अशा-०३.१.०५
श्रद्धेयानां तु द्रव्य.व्यपनयः ॥

अशा-०३.१.०६
परोक्षेण_अधिक.ऋण.ग्रहणम् अवक्तव्य.करा वा तिरोहिताः सिध्येयुः ॥

अशा-०३.१.०७
दाय.निक्षेप.उपनिधि.विवाह.युक्ताः स्त्रीणाम् अनिष्कासिनीनां व्याधितानां च_अमूढ.संज्ञानाम् अन्तर्.अगार.कृताः सिध्येयुः ॥

अशा-०३.१.०८
साहस.अनुप्रवेश.कलह.विवाह.राज.नियोग.युक्ताः पूर्व.रात्र.व्यवहारिणां च रात्रि.कृताः सिध्येयुः ॥

अशा-०३.१.०९
सार्थ.व्रज.आश्रम.व्याध.चारण.मध्येष्व् अरण्य.चराणाम् अरण्य.कृताः सिध्येयुः ॥

अशा-०३.१.१०
गूढ.आजीविषु च_उपधि.कृताः सिध्येयुः ॥

अशा-०३.१.११
मिथः.समवाये च_उपह्वर.कृताः सिध्येयुः ॥

अशा-०३.१.१२
अतो_अन्यथा न सिध्येयुः, अपाश्रयवद्भिश् च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेन_अविभक्त.अंशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दास.आहितकाभ्याम्, अप्राप्त.अतीत.व्यवहाराभ्याम्, अभिशस्त.प्रव्रजित.न्यङ्ग.व्यसनिभिश् च, अन्यत्र निषृष्ट.व्यवहारेभ्यः ॥

अशा-०३.१.१३
तत्र_अपि क्रुद्धेन_आर्तेन मत्तेन.उन्मत्तेन_अवगृहीतेन वा कृता व्यवहारा न सिध्येयुः ॥

अशा-०३.१.१४
कर्तृ.कारयितृ.श्रोतृऋणां पृथग् यथा.उक्ता दण्डाः ॥

अशा-०३.१.१५
स्वे स्वे तु वर्गे देशे काले च स्व.करण.कृताः सम्पूर्ण.आचाराः शुद्ध.देशा दृष्ट.रूप.लक्षण.प्रमाण.गुणाः सर्व.व्यवहाराः सिध्येयुः ॥

अशा-०३.१.१६
पश्चिमं च_एषां करणम् आदेश.आधिवर्जं श्रद्धेयम् ॥ इति व्यवहार.स्थापना ।

अशा-०३.१.१७
संवत्सरम् ऋतुं मासं पक्षं दिवसं करणम् अधिकरणम् ऋणं वेदक.आवेदकयोः कृत.समर्थ.अवस्थयोर् देश.ग्राम.जाति.गोत्र.नाम.कर्माणि च_अभिलिख्य वादि.प्रतिवादि.प्रश्नान् अर्थ.आनुपूर्व्या निवेशयेत् ॥

अशा-०३.१.१८
निविष्टांश् च_अवेक्षेत ॥

अशा-०३.१.१९
निबद्धं वादम् उत्सृज्य_अन्यं वादं संक्रामति, पूर्व.उक्तं पश्चिमेन_अर्थेन न_अभिसंधत्ते, पर.वाक्यम् अनभिग्राह्यम् अभिग्राह्य_अवतिष्ठते, प्रतिज्ञाय देशं निर्दिश_इत्य् उक्ते न निर्दिशति, हीन.देशम् अदेशं वा निर्दिशति, निर्दिष्टाद् देशाद् अन्यं देशम् उपस्थापयति, उपस्थिते देशे_अर्थ.वचनं न_एवम् इत्य् अपव्ययते, साक्षिभिर् अवधृतं न_इच्छति, असम्भाष्ये देशे साक्षिभिर् मिथः सम्भाषते, इति परा.उक्त.हेतवः ॥

अशा-०३.१.२०
परा.उक्त.दण्डः पञ्च.बन्धः ॥

अशा-०३.१.२१
स्वयं.वादि.दण्डो दश.बन्धः ॥

अशा-०३.१.२२
पुरुष.भृतिर् अष्ट.अंशः ॥

अशा-०३.१.२३
पथि.भक्तम् अर्घ.विशेषतः ॥

अशा-०३.१.२४
तद् उभयं नियम्यो दद्यात् ॥

अशा-०३.१.२५
अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलह.साहस.सार्थ.समवायेभ्यः ॥

अशा-०३.१.२६
न च_अभियुक्ते_अभियोगे_अस्ति ॥

अशा-०३.१.२७
अभियोक्ता चेत् प्रत्युक्तस् तद्.अहर् एव न प्रतिब्रूयात् परा.उक्तः स्यात् ॥

अशा-०३.१.२८
कृत.कार्य.विनिश्चयो ह्य् अभियोक्ता न_अभियुक्तः ॥

अशा-०३.१.२९
तस्य_अप्रतिब्रुवतस् त्रि.रात्रं सप्त.रात्रम् इति ॥

अशा-०३.१.३०
अत ऊर्ध्वं त्रि.पण.अवर.अर्ध्यं द्वादश.पण.परं दण्डं कुर्यात् ॥

अशा-०३.१.३१
त्रि.पक्षाद् ऊर्ध्वम् अप्रतिब्रुवतः परा.उक्त.दण्डं कृत्वा यान्य् अस्य द्रव्याणि स्युस् ततो_अभियोक्तारं प्रतिपादयेद्, अन्यत्र वृत्त्य्.उपकरणेभ्यः ॥

अशा-०३.१.३२
तद् एव निष्पततो_अभियुक्तस्य कुर्यात् ॥

अशा-०३.१.३३
अभियोक्तुर् निष्पात.सम.कालः परा.उक्त.भावः ॥

अशा-०३.१.३४
प्रेतस्य व्यसनिनो वा साक्षि.वचनम् असारम् ॥

अशा-०३.१.३५
अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ॥

अशा-०३.१.३६
आधिं वा स कामं प्रवेशयेत् ॥

अशा-०३.१.३७
रक्षोघ्न.रक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात् ॥

अशा-०३.१.३८कख’’’
चतुर्.वर्ण.आश्रमस्य_अयं लोकस्य_आचार.रक्षणात् ।


अशा-०३.१.३८गघ’’’
नश्यतां सर्व.धर्माणां राजा धर्म.प्रवर्तकः ॥


अशा-०३.१.३९कख’’’
धर्मश् च व्यवहारश् च चरित्रं राज.शासनम् ।


अशा-०३.१.३९गघ’’’
विवाद.अर्थश् चतुष्पादः पश्चिमः पूर्व.बाधकः ॥


अशा-०३.१.४०कख’’’
तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।


अशा-०३.१.४०गघ’’’
चरित्रं संग्रहे पुंसां राज्ञाम् आज्ञा तु शासनम् ॥


अशा-०३.१.४१कख’’’
राज्ञः स्व.धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः ।


अशा-०३.१.४१गघ’’’
अरक्षितुर् वा क्षेप्तुर् वा मिथ्या.दण्डम् अतो_अन्यथा ॥


अशा-०३.१.४२कख’’’
दण्डो हि केवलो लोकं परं च_इमं च रक्षति ।


अशा-०३.१.४२गघ’’’
राज्ञा पुत्रे च शत्रौ च यथा.दोषं समं धृतः ॥


अशा-०३.१.४३कख’’’
अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया ।


अशा-०३.१.४३गघ’’’
न्यायेन च चतुर्थेन चतुर्.अन्तां वा महीं जयेत् ॥


अशा-०३.१.४४कख’’’
संस्था या धर्म.शास्त्रेण शास्त्रं वा व्यावहारिकम् ।


अशा-०३.१.४४गघ’’’
यस्मिन्न् अर्थे विरुध्येत धर्मेण_अर्थं विनिर्णयेत् ॥


अशा-०३.१.४५कख’’’
शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् ।


अशा-०३.१.४५गघ’’’
न्यायस् तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति ॥


अशा-०३.१.४६कख’’’
दृष्ट.दोषः स्वयं.वादः स्व.पक्ष.पर.पक्षयोः ।


अशा-०३.१.४६गघ’’’
अनुयोग.आर्जवं हेतुः शपथश् च_अर्थ.साधकः ॥


अशा-०३.१.४७कख’’’
पूर्व.उत्तर.अर्थ.व्याघाते साक्षि.वक्तव्य.कारणे ।


अशा-०३.१.४७गघ’’’
चार.हस्ताच् च निष्पाते प्रदेष्टव्यः पराजयः ॥

(Cओन्चेर्निन्ग् मर्रिअगे) ((इ) ऌअw ओf मर्रिअगे_ (ई) ऋउलेस् चोन्चेर्निन्ग् wओमन्ऽस् प्रोपेर्त्य्_ (ईइ) Cओन्चेर्निन्ग् सुपेर्सेस्सिओन् (ओf अ wइfए) ब्य् अ सेचोन्द् मर्रिअगे)

अशा-०३.२.०१
विवाह.पूर्वो व्यवहारः ॥

अशा-०३.२.०२
कन्या.दानं कन्याम् अलंकृत्य ब्राह्मो विवाहः ॥

अशा-०३.२.०३
सह.धर्म.चर्या प्राजापत्यः ॥

अशा-०३.२.०४
गो.मिथुन.आदानाद् आर्षः ॥

अशा-०३.२.०५
अन्तर्.वेद्याम् ऋत्विजे दानाद् दैवः ॥

अशा-०३.२.०६
मिथः.समवायाद् गान्धर्वः ॥

अशा-०३.२.०७
शुल्क.आदानाद् आसुरः ॥

अशा-०३.२.०८
प्रसह्य.आदानाद् राक्षसः ॥

अशा-०३.२.०९
सुप्त.मत्त.आदानात् पैशाचः ॥

अशा-०३.२.१०
पितृ.प्रमाणाश् चत्वारः पूर्वे धर्म्याः, माता.पितृ.प्रमाणाः शेषाः ॥

अशा-०३.२.११
तौ हि शुल्क.हरौ दुहितुः, अन्यतर.अभावे_अन्यतरो वा ॥

अशा-०३.२.१२
द्वितीयं शुल्कं स्त्री हरेत ॥

अशा-०३.२.१३
सर्वेषां प्रीत्य्.आरोपणम् अप्रतिषिद्धम् ॥ इति विवाह.धर्मः ।

अशा-०३.२.१४
वृत्तिर् आबन्ध्यं वा स्त्री.धनम् ॥

अशा-०३.२.१५
पर.द्वि.साहस्रा स्थाप्या वृत्तिः, आबन्ध्य.अनियमः ॥

अशा-०३.२.१६
तद् आत्म.पुत्र.स्नुषा.भर्मणि प्रवास.अप्रतिविधाने च भार्याया भोक्तुम् अदोषः, प्रतिरोधक.व्याधि.दुर्भिक्ष.भय.प्रतीकारे धर्म.कार्ये च पत्युः, सम्भूय वा दम्पत्योर् मिथुनं प्रजातयोः ॥

अशा-०३.२.१७
त्रि.वर्ष.उपभुक्तं च धर्मिष्ठेषु विवाहेषु न_अनुयुञ्जीत ॥

अशा-०३.२.१८
गान्धर्व.आसुर.उपभुक्तं स-वृद्धिकम् उभयं दाप्येत, राक्षस.पैशाच.उपभुक्तं स्तेयं दद्यात् ॥

अशा-०३.२.१९
मृते भर्तरि धर्म.कामा तदानीम् एव स्थाप्य_आभरणं शुल्क.शेषं च लभेत ॥

अशा-०३.२.२०
लब्ध्वा वा विन्दमाना स-वृद्धिकम् उभयं दाप्येत ॥

अशा-०३.२.२१
कुटुम्ब.कामा तु श्वशुर.पति.दत्तं निवेश.काले लभेत ॥

अशा-०३.२.२२
निवेश.कालं हि दीर्घ.प्रवासे व्याख्यास्यामः ॥

अशा-०३.२.२३
श्वशुर.प्रातिलोम्येन वा निविष्टा श्वशुर.पति.दत्तं जीयेत ॥

अशा-०३.२.२४
ज्ञाति.हस्ताद्.अभिमृष्टाया ज्ञातयो यथा.गृहीतं दद्युः ॥

अशा-०३.२.२५
न्याय.उपगतायाः प्रतिपत्ता स्त्री.धनं गोपयेत् ॥

अशा-०३.२.२६
पति.दायं विन्दमाना जीयेत ॥

अशा-०३.२.२७
धर्म.कामा भुञ्जीत ॥

अशा-०३.२.२८
पुत्रवती विन्दमाना स्त्री.धनं जीयेत ॥

अशा-०३.२.२९
तत् तु स्त्री.धनं पुत्रा हरेयुः ॥

अशा-०३.२.३०
पुत्र.भरण.अर्थं वा विन्दमाना पुत्र.अर्थं स्फाती.कुर्यात् ॥

अशा-०३.२.३१
बहु.पुरुष.प्रजानां पुत्राणां यथा.पितृ.दत्तं स्त्री.धनम् अवस्थापयेत् ॥

अशा-०३.२.३२
काम.करणीयम् अपि स्त्री.धनं विन्दमाना पुत्र.संस्थं कुर्यात् ॥

अशा-०३.२.३३
अपुत्रा पति.शयनं पालयन्ती गुरु.समीपे स्त्री.धनम् आयुः.क्षयाद् भुञ्जीत ॥

अशा-०३.२.३४
आपद्.अर्थं हि स्त्री.धनम् ॥

अशा-०३.२.३५
ऊर्ध्वं दायादं गच्छेत् ॥

अशा-०३.२.३६
जीवति भर्तरि मृतायाः पुत्रा दुहितरश् च स्त्री.धनं विभजेरन्, अपुत्राया दुहितरः, तद्.अभावे भर्ता ॥

अशा-०३.२.३७
शुल्कम् अन्वाधेयम् अन्यद् वा बन्धुभिर् दत्तं बान्धवा हरेयुः ॥ इति स्त्री.धन.कल्पः ।

अशा-०३.२.३८
वर्षाण्य् अष्टाव् अप्रजायमानाम् अपुत्रां वन्ध्यां च_आकाङ्क्षेत, दश निन्दुम्, द्वादश कन्या.प्रसविनीम् ॥

अशा-०३.२.३९
ततः पुत्र.अर्थी द्वितीयां विन्देत ॥

अशा-०३.२.४०
तस्य_अतिक्रमे शुल्कं स्त्री.धनम् अर्धं च_आधिवेदनिकं दद्यात्, चतुर्.विंशति.पण.परं च दण्डम् ॥

अशा-०३.२.४१
शुल्कं स्त्री.धनम् अशुल्क.स्त्री.धनायास् तत्.प्रमाणम् आधिवेदनिकम् अनुरूपां च वृत्तिं दत्त्वा बह्वीर् अपि विन्देत ॥

अशा-०३.२.४२
पुत्र.अर्था हि स्त्रियः ॥

अशा-०३.२.४३
तीर्थ.समवाये च_आसां यथा.विवाहं पूर्व.ऊढां जीवत्.पुत्रां वा पूर्वं गच्छेत् ॥

अशा-०३.२.४४
तीर्थ.गूहन.आगमने षण्.णवतिर् दण्डः ॥

अशा-०३.२.४५
पुत्रवतीं धर्म.कामां वन्ध्यां निन्दुं नीरजस्कां वा न_अकामाम् उपेयात् ॥

अशा-०३.२.४६
न च_अकामः पुरुषः कुष्ठिनीम् उन्मत्तां वा गच्छेत् ॥

अशा-०३.२.४७
स्त्री तु पुत्र.अर्थम् एवं.भूतं वा_उपगच्छेत् ॥

अशा-०३.२.४८कख’’’
नीचत्वं पर.देशं वा प्रस्थितो राज.किल्बिषी ।


अशा-०३.२.४८गघ’’’
प्राण.अभिहन्ता पतितस् त्याज्यः क्लीबो_अपि वा पतिः ॥

((इव्) ंरितल् दुत्य्_ (व्) ंैन्तेनन्चे_ (वि) Cरुएल्त्य्_ (वी) डिसffएच्तिओन्_ (वीइ) ंिस्चोन्दुच्त्_ (इx) ড়्रोहिबितिओन् ओf fअवोउर्स् अन्द् देअलिन्ग्स्)

अशा-०३.३.०१
द्वादश.वर्षा स्त्री प्राप्त.व्यवहारा भवति, षोडश.वर्षः पुमान् ॥

अशा-०३.३.०२
अत ऊर्ध्वम् अशुश्रूषायां द्वादश.पणः स्त्रिया दण्डः, पुंसो द्वि.गुणः ॥ इति शुश्रूषा ।

अशा-०३.३.०३
भर्मण्यायाम् अनिर्दिष्ट.कालायां ग्रास.आच्छादनं वा_अधिकं यथा.पुरुष.परिवापं सविशेषं दद्यात् ॥

अशा-०३.३.०४
निर्दिष्ट.कालायां तद् एव संख्याय बन्धं च दद्यात् ॥

अशा-०३.३.०५
शुल्क.स्त्री.धन.आधिवेदनिकानाम् अनादाने च ॥

अशा-०३.३.०६
श्वशुर.कुल.प्रविष्टायां विभक्तायां वा न_अभियोज्यः पतिः ॥ इति भर्म ।

अशा-०३.३.०७
"नष्टे" "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्य् अनिर्देशेन विनय.ग्राहणम् ॥

अशा-०३.३.०८
वेणु.दल.रज्जु.हस्तानाम् अन्यतमेन वा पृष्ठे त्रिर् आघातः ॥

अशा-०३.३.०९
तस्य_अतिक्रमे वाग्.दण्ड.पारुष्य.दण्डाभ्याम् अर्ध.दण्डाः ॥

अशा-०३.३.१०
तद् एव स्त्रिया भर्तरि प्रसिद्ध.दोषायाः ॥

अशा-०३.३.११
ईर्ष्यया बाह्य.विहारेषु द्वारेष्व् अत्ययो यथा.निर्दिष्टः ॥ इति पारुष्यम् ।

अशा-०३.३.१२
भर्तारं द्विषती स्त्री सप्त.आर्तवान्य् अमण्डयमाना तदानीम् एव स्थाप्य_आभरणं निधाय भर्तारम् अन्यया सह शयानम् अनुशयीत ॥

अशा-०३.३.१३
भिक्षुक्य्.अन्वाधि.ज्ञाति.कुलानाम् अन्यतमे वा भर्ता द्विषन् स्त्रियम् एकाम् अनुशयीत ॥

अशा-०३.३.१४
दृष्ट.लिङ्गे मैथुन.अपहारे सवर्ण.अपसर्प.उपगमे वा मिथ्या.वादी द्वादश.पणं दद्यात् ॥

अशा-०३.३.१५
अमोक्ष्या भर्तुर् अकामस्य द्विषती भार्या, भार्यायाश् च भर्ता ॥

अशा-०३.३.१६
परस्परं.द्वेषान् मोक्षः ॥

अशा-०३.३.१७
स्त्री.विप्रकाराद् वा पुरुषश् चेन् मोक्षम् इच्छेद् यथा.गृहीतम् अस्यै दद्यात् ॥

अशा-०३.३.१८
पुरुष.विप्रकाराद् वा स्त्री चेन् मोक्षम् इच्छेन् न_अस्यै यथा.गृहीतं दद्यात् ॥

अशा-०३.३.१९
अमोक्षो धर्म.विवाहानाम् ॥ इति द्वेषः ।

अशा-०३.३.२०
प्रतिषिद्धा स्त्री दर्प.मद्य.क्रीडायां त्रि.पणं दण्डं दद्यात् ॥

अशा-०३.३.२१
दिवा स्त्री.प्रेक्षा.विहार.गमने षट्.पणो दण्डः, पुरुष.प्रेक्षा.विहार.गमने द्वादश.पणः ॥

अशा-०३.३.२२
रात्रौ द्वि.गुणः ॥

अशा-०३.३.२३
सुप्त.मत्त.प्रव्रजने भर्तुर् अदाने च द्वारस्य द्वादश.पणः ॥

अशा-०३.३.२४
रात्रौ निष्कसने द्वि.गुणः ॥

अशा-०३.३.२५
स्त्री.पुंसयोर् मैथुन.अर्थेन_अङ्ग.विचेष्टायां रहो_अश्लील.सम्भाषायां वा चतुर्.विंशति.पणः स्त्रिया दण्डः, पुंसो द्वि.गुणः ॥

अशा-०३.३.२६
केश.नीवि.दन्त.नख.आलम्बनेषु पूर्वः साहस.दण्डः, पुंसो द्वि.गुणः ॥

अशा-०३.३.२७
शङ्कित.स्थाने सम्भाषायां च पण.स्थाने शिफा.दण्डः ॥

अशा-०३.३.२८
स्त्रीणां ग्राम.मध्ये चण्डालः पक्ष.अन्तरे पञ्च.शिफा दद्यात् ॥

अशा-०३.३.२९
पणिकं वा प्रहारं मोक्षयेत् ॥ इत्य् अतीचारः ।

अशा-०३.३.३०
प्रतिषिद्धयोः स्त्री.पुंसयोर् अन्योन्य.उपकारे क्षुद्रक.द्रव्याणां द्वादश.पणो दण्डः, स्थूलक.द्रव्याणां चतुर्.विंशति.पणः, हिरण्य.सुवर्णयोश् चतुष्.पञ्चाशत्.पणः स्त्रिया दण्डः, पुंसोर् द्वि.गुणः ॥

अशा-०३.३.३१
त एव_अगम्ययोर् अर्ध.दण्डाः, तथा प्रतिषिद्ध.पुरुष.व्यवहारेषु च ॥ इति प्रतिषेधः ।

अशा-०३.३.३२कख’’’
राज.द्विष्ट.अतिचाराभ्याम् आत्म.अपक्रमणेन च ।


अशा-०३.३.३२गघ’’’
स्त्री.धन.आनीत.शुल्कानाम् अस्वाम्यं जायते स्त्रियाः ॥

(ऌएअविन्ग् होमे_ ङोइन्ग् अwअय् (wइथ् अ मन्)_ ष्होर्त् अब्सेन्चे fरोम् होमे_ ऌओन्ग् अब्सेन्चे fरोम् होमे)

अशा-०३.४.०१
पति.कुलान् निष्पतितायाः स्त्रियाः षट्.पणो दण्डः, अन्यत्र विप्रकारात् ॥

अशा-०३.४.०२
प्रतिषिद्धायां द्वादश.पणः ॥

अशा-०३.४.०३
प्रतिवेश.गृह.अतिगतायाः षट्.पणः ॥

अशा-०३.४.०४
प्रातिवेशिक.भिक्षुक.वैदेहकानाम् अवकाश.भिक्षा.पण्य.दाने द्वादश.पणो दण्डः ॥

अशा-०३.४.०५
प्रतिषिद्धानां पूर्वः साहस.दण्डः ॥

अशा-०३.४.०६
पर.गृह.अतिगतायाश् चतुर्.विंशति.पणः ॥

अशा-०३.४.०७
पर.भार्या.अवकाश.दाने शत्यो दण्डः, अन्यत्र_आपद्भ्यः ॥

अशा-०३.४.०८
वारण.अज्ञानयोर् निर्दोषः ॥

अशा-०३.४.०९
"पति.विप्रकारात् पति.ज्ञाति.सुख.अवस्थ.ग्रामिक.अन्वाधि.भिक्षुकी.ज्ञाति.कुलानाम् अन्यतमम् अपुरुषं गन्तुम् अदोषः" इति आचार्याः ॥

अशा-०३.४.१०
स-पुरुषं वा ज्ञाति.कुलम् ॥

अशा-०३.४.११
कुतो हि साध्वी.जनस्यच्_छलम् ॥

अशा-०३.४.१२
सुखम् एतद् अवबोद्धुम्, इति कौटिल्यः ॥

अशा-०३.४.१३
प्रेत.व्याधि.व्यसन.गर्भ.निमित्तम् अप्रतिषिद्धम् एव ज्ञाति.कुल.गमनम् ॥

अशा-०३.४.१४
तन्.निमित्तं वारयतो द्वादश.पणो दण्डः ॥

अशा-०३.४.१५
तत्र_अपि गूहमाना स्त्री.धनं जीयेत, ज्ञातयो वा छादयन्तः शुल्क.शेषम् ॥ इति निष्पतनम् ।

अशा-०३.४.१६
पति.कुलान् निष्पत्य ग्राम.अन्तर.गमने द्वादश.पणो दण्डः स्थाप्या.आभरण.लोपश् च ॥

अशा-०३.४.१७
गम्येन वा पुंसा सह प्रस्थाने चतुर्.विंशति.पणः सर्व.धर्म.लोपश् च, अन्यत्र भर्म.दान.तीर्थ.गमनाभ्याम् ॥

अशा-०३.४.१८
पुंसः पूर्वः साहस.दण्डः तुल्य.श्रेयसोः, पापीयसो मध्यमः ॥

अशा-०३.४.१९
बन्धुर्.अदण्ड्यः ॥

अशा-०३.४.२०
प्रतिषेधे_अर्ध.दण्डाः ॥

अशा-०३.४.२१
पथि व्यन्तरे गूढ.देश.अभिगमने मैथुन.अर्थेन शङ्कित.प्रतिषिद्धायां वा पथ्य्.अनुसरणे संग्रहणं विद्यात् ॥

अशा-०३.४.२२
ताल.अवचर.चारण.मत्स्य.बन्धक.लुब्धक.गो.पालक.शौण्डिकानाम् अन्येषां च प्रसृष्ट.स्त्रीकाणां पथ्य्.अनुसरणम् अदोषः ॥

अशा-०३.४.२३
प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास् त एव_अर्ध.दण्डाः ॥ इति पथ्य्.अनुसरणम् ।

अशा-०३.४.२४
ह्रस्व.प्रवासिनां शूद्र.वैश्य.क्षत्रिय.ब्राह्मणानां भार्याः संवत्सर.उत्तरं कालम् आकाङ्क्षेरन् अप्रजाताः, संवत्सर.अधिकं प्रजाताः ॥

अशा-०३.४.२५
प्रतिविहिता द्वि.गुणं कालम् ॥

अशा-०३.४.२६
अप्रतिविहिताः सुख.अवस्था बिभृयुः, परं चत्वारि वर्षाण्य् अष्टौ वा ज्ञातयः ॥

अशा-०३.४.२७
ततो यथा.दत्तम् आदाय प्रमुञ्चेयुः ॥

अशा-०३.४.२८
ब्राह्मणम् अधीयानं दश.वर्षाण्य् अप्रजाता, द्वादश प्रजाता, राज.पुरुषम् आयुः.क्षयाद् आकाङ्क्षेत ॥

अशा-०३.४.२९
सवर्णतश् च प्रजाता न_अपवादं लभेत ॥

अशा-०३.४.३०
कुटुम्ब.ऋद्धि.लोपे वा सुख.अवस्थैर् विमुक्ता यथा.इष्टं विन्देत, जीवित.अर्थम् आपद्.गता वा ॥

अशा-०३.४.३१
धर्म.विवाहात् कुमारी परिग्रहीतारम् अनाख्याय प्रोषितम् अश्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं श्रूयमाणम् ॥

अशा-०३.४.३२
आख्याय प्रोषितम् अश्रूयमाणं पञ्च तीर्थान्य् आकाङ्क्षेत, दश श्रूयमाणम् ॥

अशा-०३.४.३३
एक.देश.दत्त.शुल्कं त्रीणि तीर्थान्य् अश्रूयमाणम्, श्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत ॥

अशा-०३.४.३४
दत्त.शुल्कं पञ्च तीर्थान्य् अश्रूयमाणम्, दश श्रूयमाणम् ॥

अशा-०३.४.३५
ततः परं धर्मस्थैर् विसृष्टा यथा.इष्टं विन्देत ॥

अशा-०३.४.३६
तीर्थ.उपरोधो हि धर्म.वध इति कौटिल्यः ॥ इति ह्रस्व.प्रवासः ॥

अशा-०३.४.३७
दीर्घ.प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं प्रजाता ॥

अशा-०३.४.३८
ततः पति.सोदर्यं गच्छेत् ॥

अशा-०३.४.३९
बहुषु प्रत्यासन्नं धार्मिकं भर्म.समर्थं कनिष्ठम् अभार्यं वा ॥

अशा-०३.४.४०
तद्.अभावे_अप्य् असोदर्यं सपिण्डं कुल्यं वा_आसन्नम् ॥

अशा-०३.४.४१
एतेषाम् एष एव क्रमः ॥

अशा-०३.४.४२कख’’’
एतान् उत्क्रम्य दायादान् वेदने जार.कर्मणि ।


अशा-०३.४.४२गघ’’’
जार.स्त्री.दातृ.वेत्तारः सम्प्राप्ताः संग्रह.अत्ययम् ॥

(ড়र्तितिओन् ओf इन्हेरितन्चे) (Oर्देर् ओf इन्हेरितन्चे)

अशा-०३.५.०१
अनीश्वराः पितृमन्तः स्थित.पितृ.मातृकाः पुत्राः ॥

अशा-०३.५.०२
तेषाम् ऊर्ध्वं पितृतो दाय.विभागः पितृ.द्रव्याणाम् ॥

अशा-०३.५.०३
स्वयं.आर्जितम् अविभाज्यम्, अन्यत्र पितृ.द्रव्याद् उत्थितेभ्यः ॥

अशा-०३.५.०४
पितृ.द्रव्याद् अविभक्त.उपगतानां पुत्राः पौत्रा वा आ.चतुर्थाद् इत्य् अंश.भाजः ॥

अशा-०३.५.०५
तावद् अविच्छिन्नः पिण्डो भवति ॥

अशा-०३.५.०६
विच्छिन्न.पिण्डाः सर्वे समं विभजेरन् ॥

अशा-०३.५.०७
अपितृ.द्रव्या विभक्त.पितृ.द्रव्या वा सह जीवन्तः पुनर् विभजेरन् ॥

अशा-०३.५.०८
यतश् च_उत्तिष्ठेत स द्व्य्.अंशं लभेत ॥

अशा-०३.५.०९
द्रव्यम् अपुत्रस्य सोदर्या भ्रातरः सह.जीविनो वा हरेयुः कन्याश् च ॥

अशा-०३.५.१०
रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ॥

अशा-०३.५.११
तद्.अभावे पिता धरमाणः ॥

अशा-०३.५.१२
पित्र्.अभावे भ्रातरो भ्रातृ.पुत्राश् च ॥

अशा-०३.५.१३
अपितृका बहवो_अपि च भ्रातरो भ्रातृ.पुत्राश् च पितुर् एकम् अंशं हरेयुः ॥

अशा-०३.५.१४
सोदर्याणाम् अनेक.पितृकाणां पितृतो दाय.विभागः ॥०३.५.१५
पितृ.भ्रातृ.पुत्राणां पूर्वे विद्यमाने न_अपरम् अवलम्बन्ते, ज्येष्ठे च कनिष्ठम् अर्थ.ग्राहिणम् ॥

अशा-०३.५.१६
जीवद्.विभागे पिता न_एकं विशेषयेत् ॥

अशा-०३.५.१७
न च_एकम् अकारणान् निर्विभजेत ॥

अशा-०३.५.१८
पितुर् असत्य् अर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्या.वृत्तेभ्यः ॥

अशा-०३.५.१९
प्राप्त.व्यवहाराणां विभागः ॥

अशा-०३.५.२०
अप्राप्त.व्यवहाराणां देय.विशुद्धं मातृ.बन्धुषु ग्राम.वृद्धेषु वा स्थापयेयुः आ.व्यवहार.प्रापणात्, प्रोषितस्य वा ॥

अशा-०३.५.२१
सम्निविष्ट.समम् असम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश् च प्रादानिकम् ॥

अशा-०३.५.२२
ऋण.रिक्थयोः समो विभागः ॥

अशा-०३.५.२३
"उद.पात्राण्य् अपि निष्किंचना विभजेरन्" इत्य् आचार्याः ॥

अशा-०३.५.२४
छलम् एतद् इति कौटिल्यः ॥

अशा-०३.५.२५
सतो_अर्थस्य विभागो न_असतः ॥

अशा-०३.५.२६
एतावान् अर्थः सामान्यस् तस्य_एतावान् प्रत्य्.अंश इत्य् अनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् ॥

अशा-०३.५.२७
दुर्विभक्तम् अन्योन्य.अपहृतम् अन्तर्हितम् अविज्ञात.उत्पन्नं वा पुनर् विभजेरन् ॥

अशा-०३.५.२८
अदायादकं राजा हरेत् स्त्री.वृत्ति.प्रेत.कार्य.वर्जम्, अन्यत्र श्रोत्रिय.द्रव्यात् ॥

अशा-०३.५.२९
तत् त्रैवेद्येभ्यः प्रयच्छेत् ॥

अशा-०३.५.३०
पतितः पतिताज् जातः क्लीबश् च_अनंशाः, जड.उन्मत्त.अन्ध.कुष्ठिनश् च ॥

अशा-०३.५.३१
सति भार्य.अर्थे तेषाम् अपत्यम् अतद्.विधं भागं हरेत् ॥

अशा-०३.५.३२
ग्रास.आच्छादनम् इतरे पतित.वर्जाः ॥

अशा-०३.५.३३कख’’’
तेषां च कृत.दाराणां लुप्ते प्रजनने सति ।


अशा-०३.५.३३गघ’’’
सृजेयुर् बान्धवाः पुत्रांस् तेषाम् अंशान् प्रकल्पयेत् ॥

(डिविसिओन् इन्तो स्हरेस्)

अशा-०३.६.०१
एक.स्त्री.पुत्राणां ज्येष्ठ.अंशः - ब्राह्मणानाम् अजाः, क्षत्रियाणाम् अश्वाः, वैश्यानां गावः, शूद्राणाम् अवयः ॥

अशा-०३.६.०२
काण.लङ्गास् तेषां मध्यम.अंशः, भिन्न.वर्णाः कनिष्ठ.अंशः ॥

अशा-०३.६.०३
चतुष्पद.अभावे रत्न.वर्जानां दशानां भागं द्रव्याणाम् एकं ज्येष्ठो हरेत् ॥

अशा-०३.६.०४
प्रतिमुक्त.स्वधा.पाशो हि भवति ॥

अशा-०३.६.०५
इत्य् औशनसो विभागः ॥

अशा-०३.६.०६
पितुः परिवापाद् यानम् आभरणं च ज्येष्ठ.अंशः, शयन.आसनं भुक्त.कांस्यं च मध्यम.अंशः, कृष्णं धान्य.आयसं गृह.परिवापो गो.शकटं च कनिष्ठ.अंशः ॥

अशा-०३.६.०७
शेष.द्रव्याणाम् एक.द्रव्यस्य वा समो विभागः ॥

अशा-०३.६.०८
अदायादा भगिन्यः, मातुः परिवापाद् भुक्त.कांस्य.आभरण.भागिन्यः ॥

अशा-०३.६.०९
मानुष.हीनो ज्येष्ठस् तृतीयम् अंशं ज्येष्ठ.अंशाल् लभेत, चतुर्थम् अन्याय.वृत्तिः, निवृत्त.धर्म.कार्यो वा ॥

अशा-०३.६.१०
काम.आचारः सर्वं जीयेत ॥

अशा-०३.६.११
तेन मध्यम.कनिष्ठौ व्याख्यातौ ॥

अशा-०३.६.१२
तयोर् मानुष.उपेतो ज्येष्ठ.अंशाद् अर्धं लभेत ॥

अशा-०३.६.१३
नाना.स्त्री.पुत्राणां तु संस्कृत.असंस्कृतयोः कन्या.कृत.क्षतयोर् अभावे च एकस्याः पुत्रयोर् यमयोर् वा पूर्व.जन्मना ज्येष्ठ.भावः ॥

अशा-०३.६.१४
सूत.मागध.व्रात्य.रथ.काराणाम् ऐश्वर्यतो विभागः ॥

अशा-०३.६.१५
शेषास् तम् उपजीवेयुः ॥

अशा-०३.६.१६
अनीश्वराः सम.विभागाः ॥

अशा-०३.६.१७
चातुर्वर्ण्य.पुत्राणां ब्राह्मणी.पुत्रश् चतुरो_अंशान् हरेत्, क्षत्रिया.पुत्र.स्त्रीन् अंशान्, वैश्या.पुत्रो द्वाव् अंशौ, एकं शूद्रा.पुत्रः ॥

अशा-०३.६.१८
तेन त्रि.वर्ण.द्वि.वर्ण.पुत्र.विभागः क्षत्रिय.वैश्ययोर् व्याख्यातः ॥

अशा-०३.६.१९
ब्राह्मणस्य_अनन्तरा.पुत्रस् तुल्य.अंशः ॥

अशा-०३.६.२०
क्षत्रिय.वैश्ययोर् अर्ध.अंशः तुल्य.अंशो वा मानुष.उपेतः ॥

अशा-०३.६.२१
तुल्य.अतुल्ययोर् एक.पुत्रः सर्वं हरेत्, बन्धूंश् च बिभृयात् ॥

अशा-०३.६.२२
ब्राह्मणानां तु पारशवस् तृतीयम् अंशं लभेत, द्वाव् अंशौ सपिण्डः कुल्यो वा_आसन्नः, स्वधा.दान.हेतोः ॥

अशा-०३.६.२३
तद्.अभावे पितुर् आचार्यो_अन्तेवासी वा ॥

अशा-०३.६.२४कख’’’
क्षेत्रे वा जनयेद् अस्य नियुक्तः क्षेत्रजं सुतम् ।


अशा-०३.६.२४गघ’’’
मातृ.बन्धुः सगोत्रो वा तस्मै तत् प्रदिशेद् धनम् ॥

(Cलस्सिfइचतिओन् ओf सोन्स्)

अशा-०३.७.०१
"पर.परिग्रहे बीजम् उत्सृष्टं क्षेत्रिणः" इत्य् आचार्याः ॥

अशा-०३.७.०२
"माता भस्त्रा, यस्य रेतस् तस्य_अपत्यम्" इत्य् अपरे ॥

अशा-०३.७.०३
विद्यमानम् उभयम् इति कौटिल्यः ॥

अशा-०३.७.०४
स्वयं.जातः कृत.क्रियायाम् औरसः ॥

अशा-०३.७.०५
तेन तुल्यः पुत्रिका.पुत्रः ॥

अशा-०३.७.०६
सगोत्रेण_अन्य.गोत्रेण वा नियुक्तेन क्षेत्र.जातः क्षेत्रजः पुत्रः ॥

अशा-०३.७.०७
जनयितुर् असत्य् अन्यस्मिन् पुत्रे स एव द्वि.पितृको द्वि.गोत्रो वा द्वयोर् अपि स्वधा.रिक्थ.भाग् भवति ॥

अशा-०३.७.०८
तत्.सधर्मा बन्धूनां गृहे गूढ.जातस् तु गूढजः ॥

अशा-०३.७.०९
बन्धुना_उत्सृष्टो_अपविद्धः संस्कर्तुः पुत्रः ॥

अशा-०३.७.१०
कन्या.गर्भः कानीनः ॥

अशा-०३.७.११
सगर्भ.ऊढायाः सह.ऊढः ॥

अशा-०३.७.१२
पुनर्.भूतायाः पौनर्भवः ॥

अशा-०३.७.१३
स्वयं.जातः पितुर् बन्धूनां च दायादः ॥

अशा-०३.७.१४
पर.जातः संस्कर्तुर् एव न बन्धूनाम् ॥

अशा-०३.७.१५
तत्.सधर्मा माता.पितृभ्याम् अद्भिर् मुक्तो दत्तः ॥

अशा-०३.७.१६
स्वयं बन्धुभिर् वा पुत्र.भाव.उपगत उपगतः ॥

अशा-०३.७.१७
पुत्रत्वे_अधिकृतः कृतकः ॥

अशा-०३.७.१८
परिक्रीतः क्रीतः ॥ इति ।

अशा-०३.७.१९
औरसे तु_उत्पन्ने सवर्णास् तृतीय.अंश.हराः, असवर्णा ग्रास.आच्छादन.भागिनः ॥

अशा-०३.७.२०
ब्राह्मण.क्षत्रिययोर् अनन्तरा.पुत्राः सवर्णाः, एक.अन्तरा असवर्णाः ॥

अशा-०३.७.२१
ब्राह्मणस्य वैश्यायाम् अम्बष्ठः, शूद्रायां निषादः पारशवो वा ॥

अशा-०३.७.२२
क्षत्रियस्य शूद्रायाम् उग्रः ॥

अशा-०३.७.२३
शूद्र एव वैश्यस्य ॥

अशा-०३.७.२४
सवर्णासु च_एषाम् अचरित.व्रतेभ्यो जाता व्रात्याः ॥

अशा-०३.७.२५
इत्य् अनुलोमाः ॥

अशा-०३.७.२६
शूद्राद् आयोगव.क्षत्त.चण्डालाः ॥

अशा-०३.७.२७
वैश्यान् मागध.वैदेहकौ ॥

अशा-०३.७.२८
क्षत्रियात् सूतः ॥

अशा-०३.७.२९
पौराणिकस् त्व् अन्यः सूतो मागधश् च, ब्रह्म.क्षत्राद् विशेषः ॥

अशा-०३.७.३०
त एते प्रतिलोमाः स्वधर्म.अतिक्रमाद् राज्ञः सम्भवन्ति ॥

अशा-०३.७.३१
उग्रान् नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः ॥

अशा-०३.७.३२
वैदेहिकायाम् अम्बष्ठाद् वैणः, विपर्यये कुशीलवः ॥

अशा-०३.७.३३
क्षत्तायाम् उग्रात्_श्व.पाकः ॥

अशा-०३.७.३४
इत्य् एते_अन्ये च_अन्तरालाः ॥

अशा-०३.७.३५
कर्मणा वैश्यो रथ.कारः ॥

अशा-०३.७.३६
तेषां स्व.योनौ विवाहः, पूर्व.अपर.गामित्वं वृत्त.अनुवृत्तं च ॥

अशा-०३.७.३७
शूद्र.सधर्माणो वा, अन्यत्र चण्डालेभ्यः ॥

अशा-०३.७.३८
केवलम् एवं वर्तमानः स्वर्गम् आप्नोति राजा, नरकम् अन्यथा ॥

अशा-०३.७.३९
सर्वेषाम् अन्तरालानां समो विभागः ॥

अशा-०३.७.४०कख’’’
देशस्य जात्याः संघस्य धर्मो ग्रामस्य वा_अपि यः ।


अशा-०३.७.४०गघ’’’
उचितस् तस्य तेन_एव दाय.धर्मं प्रकल्पयेत् ॥

(ईम्मोवब्ले प्रोपेर्त्य्) (ड्wएल्लिन्ग्-प्लचेस्)

अशा-०३.८.०१
सामन्त.प्रत्यया वास्तु.विवादाः ॥

अशा-०३.८.०२
गृहं क्षेत्रम् आरामः सेतु.बन्धस् तटाकम् आधारो वा वास्तुः ॥

अशा-०३.८.०३
कर्ण.कील.आयस.सम्बन्धो_अनुगृहं सेतुः ॥

अशा-०३.८.०४
यथा.सेतु.भोगं वेश्म कारयेत् ॥

अशा-०३.८.०५
अभूतं वा पर.कुड्याद् अपक्रम्य द्वाव् अरत्नी त्रिपदीं वा देश.बन्धं कारयेत् ॥

अशा-०३.८.०६
अवस्करं भ्रमम् उद.पानं वा न गृह.उचिताद् अन्यत्र, अन्यत्र सूतिका.कूपाद् आ.निर्दश.अहाद् इति ॥

अशा-०३.८.०७
तस्य_अतिक्रमे पूर्वः साहस.दण्डः ॥

अशा-०३.८.०८
तेन_इन्धनावघातन.कृतं कल्याण.कृत्येष्व् आचाम.उदक.मार्गाश् च व्याख्याताः ॥

अशा-०३.८.०९
त्रिपदी.प्रतिक्रान्तम् अध्यर्धम् अरत्निं वा गाढ.प्रसृतम् उदक.मार्गं प्रस्रवण.प्रपातं वा कारयेत् ॥

अशा-०३.८.१०
तस्य_अतिक्रमे चतुष्.पञ्चाशत्.पणो दण्डः ॥

अशा-०३.८.११
एकपदी.प्रतिक्रान्तम् अरत्निं वा चक्रि.चतुष्पद.स्थानम् अग्निष्ठम् उदन्.जर.स्थानं रोचनीं कुट्टनीं वा कारयेत् ॥

अशा-०३.८.१२
तस्य_अतिक्रमे चतुर्.विंशति.पणो दण्डः ॥

अशा-०३.८.१३
सर्व.वास्तुकयोः प्राक्षिप्तकयोर् वा शालयोः किष्कुर् अन्तरिका त्रिपदी वा ॥

अशा-०३.८.१४
तयोश् चतुर्.अङ्गुलं नीप्र.अन्तरम्<नीव्र.अन्तरम्?> समारूढकं वा ॥

अशा-०३.८.१५
किष्कु.मात्रम् आणि.द्वारम् अन्तरिकायां खण्ड.फुल्ल.अर्थम् असम्पातं कारयेत् ॥

अशा-०३.८.१६
प्रकाश.अर्थम् अल्पम् ऊर्ध्वं वात.अयनं कारयेत् ॥

अशा-०३.८.१७
तद्.अवसिते वेश्मनिच्_छादयेत् ॥

अशा-०३.८.१८
सम्भूय वा गृह.स्वामिनो यथा.इष्टं कारयेयुः, अनिष्टं वारयेयुः ॥

अशा-०३.८.१९
वान.लट्याश् च_ऊर्ध्वम् आवार्य.भागं कट.प्रच्छन्नम् अवमर्श.भित्तिं वा कारयेद् वर्ष.आबाध.भयात् ॥

अशा-०३.८.२०
तस्य_अतिक्रमे पूर्वः साहस.दण्डः, प्रतिलोम.द्वार.वात.अयन.बाधायां च, अन्यत्र राज.मार्ग.रथ्याभ्यः ॥

अशा-०३.८.२१
खात.सोपान.प्रणाली.निश्रेण्य्.अवस्कर.भागैर् बहिर्.बाधायां भोग.निग्रहे च ॥

अशा-०३.८.२२
पर.कुड्यम् उदकेन_उपघ्नतो द्वादश.पणो दण्डः, मूत्र.पुरीष.उपघाते द्वि.गुणः ॥

अशा-०३.८.२३
प्रणाली.मोक्षो वर्षति, अन्यथा द्वादश.पणो दण्डः ॥

अशा-०३.८.२४
प्रतिषिद्धस्य च वसतः, निरस्यतश् च_अवक्रयिणम् अन्यत्र पारुष्य.स्तेय.साहस.संग्रहण.मिथ्या.भोगेभ्यः ॥

अशा-०३.८.२५
स्वयं.अभिप्रस्थितो वर्ष.अवक्रय.शेषं दद्यात् ॥

अशा-०३.८.२६
सामान्ये वेश्मनि साहाय्यम् अप्रयच्छतः, सामान्यम् उपरुन्धतो भोगं च गृहे द्वादश.पणो दण्डः ॥

अशा-०३.८.२७
विनाशयतस् तद्.द्वि.गुणः ॥

अशा-०३.८.२८कख’’’
कोष्ठक.अङ्गण.वर्चानाम् अग्नि.कुट्टन.शालयोः ।


अशा-०३.८.२८गघ’’’
विवृतानां च सर्वेषां सामान्यो भोग इष्यते ॥

(षले ओf इम्मोवब्ले प्रोपेर्त्य्_ Fइxइन्ग् ओf बोउन्दरिएस्_ Eन्च्रोअछ्मेन्त् अन्द् डमगे)

अशा-०३.९.०१
ज्ञाति.सामन्त.धनिकाः क्रमेण भूमि.परिग्रहान् क्रेतुम् अभ्याभवेयुः ॥

अशा-०३.९.०२
ततो_अन्ये बाह्याः ॥

अशा-०३.९.०३
सामन्त.चत्वारिंशत्.कुल्येषु गृह.प्रतिमुखे वेश्म श्रावयेयुः, सामन्त.ग्राम.वृद्धेषु क्षेत्रम् आरामं सेतु.बन्धं तटाकम् आधारं वा मर्यादासु यथा.सेतु.भोगं "अनेन_अर्घेण कः क्रेता" इति ॥

अशा-०३.९.०४
त्रिर् आघुषितम् अव्याहतं क्रेता क्रेतुं लभेत ॥

अशा-०३.९.०५
स्पर्धया वा मूल्य.वर्धने मूल्य.वृद्धिः स-शुल्का कोशं गच्छेत् ॥

अशा-०३.९.०६
विक्रय.प्रतिक्रोष्टा शुल्कं दद्यात् ॥

अशा-०३.९.०७
अस्वामि.प्रतिक्रोशे चतुर्.विंशति.पणो दण्डः ॥

अशा-०३.९.०८
सप्त.रात्राद् ऊर्ध्वम् अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ॥

अशा-०३.९.०९
प्रतिक्रुष्ट.अतिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्.विंशति.पणो दण्डः ॥ इति वास्तु.विक्रयः ।

अशा-०३.९.१०
सीम.विवादं ग्रामयोर् उभयोः सामन्ता पञ्च.ग्रामी दश.ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर् वा कुर्यात् ॥

अशा-०३.९.११
कर्षक.गो.पालक.वृद्धाः पूर्व.भुक्तिका वा बाह्याः सेतूनाम् अभिज्ञा बहव एको वा निर्दिश्य सीम.सेतून् विपरीत.वेषाः सीमानं नयेयुः ॥

अशा-०३.९.१२
उद्दिष्टानां सेतूनाम् अदर्शने सहस्रं दण्डः ।

अशा-०३.९.१३
तद् एव नीते सीम.अपहारिणां सेतुच्.छिदां च कुर्यात् ॥

अशा-०३.९.१४
प्रनष्ट.सेतु.भोगं वा सीमानं राजा यथा.उपकारं विभजेत् ॥ इति सीम.विवादः ।

अशा-०३.९.१५
क्षेत्र.विवादं सामन्त.ग्राम.वृद्धाः कुर्युः ॥

अशा-०३.९.१६
तेषां द्वैधी.भावे यतो बहवः शुचयो_अनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ॥

अशा-०३.९.१७
तद्.उभय.परा.उक्तं वास्तु राजा हरेत्, प्रनष्ट.स्वामिकं च ॥

अशा-०३.९.१८
यथा.उपकारं वा विभजेत् ॥

अशा-०३.९.१९
प्रसह्य.आदाने वास्तुनि स्तेय.दण्डः ॥

अशा-०३.९.२०
कारण.आदाने प्रयासम् आजीवं च परिसंख्याय बन्धं दद्यात् ॥ इति क्षेत्र.विवादः ।

अशा-०३.९.२१
मर्यादा.अपहरणे पूर्वः साहस.दण्डः ॥

अशा-०३.९.२२
मर्यादा.भेदे चतुर्.विंशति.पणः ॥

अशा-०३.९.२३
तेन तपो.वन.विवीत.महा.पथ.श्मशान.देव.कुल.यजन.पुण्य.स्थान.विवादा व्याख्याताः ॥ इति मर्यादा.स्थापनम् ।

अशा-०३.९.२४
सर्व एव विवादाः सामन्त.प्रत्ययाः ॥

अशा-०३.९.२५
विवीत.स्थल.केदार.षण्ड.खल.वेश्म.वाहन.कोष्ठानां पूर्वं.पूर्वम् आबाधं सहेत ॥

अशा-०३.९.२६
ब्रह्म.सोम.अरण्य.देव.यजन.पुण्य.स्थान.वर्जाः स्थल.प्रदेशाः ॥

अशा-०३.९.२७
आधार.परिवाह.केदार.उपभोगैः पर.क्षेत्र.कृष्ट.बीज.हिंसायां यथा.उपघातं मूल्यं दद्युः ॥

अशा-०३.९.२८
केदार.आराम.सेतु.बन्धानां परस्पर.हिंसायां हिंसा.द्वि.गुणो दण्डः ॥

अशा-०३.९.२९
पश्चान्.निविष्टम् अधर.तटाकं न_उपरि.तटाकस्य केदारम् उदकेन_आप्लावयेत् ॥

अशा-०३.९.३०
उपरि.निविष्टं न_अधर.तटाकस्य पूर.आस्रावं वारयेद्, अन्यत्र त्रि.वर्ष.उपरत.कर्मणः ॥

अशा-०३.९.३१
तस्य_अतिक्रमे पूर्वः साहस.दण्डः, तटाक.वामनं च ॥

अशा-०३.९.३२
पञ्च.वर्ष.उपरत.कर्मणः सेतु.बन्धस्य स्वाम्यं लुप्येत, अन्यत्र_आपद्भ्यः ॥

अशा-०३.९.३३
तटाक.सेतु.बन्धानां नव.प्रवर्तने पाञ्चवर्षिकः परिहारः, भग्न.उत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः ॥

अशा-०३.९.३४
स्व.आत्म.आधाने विक्रये च ॥

अशा-०३.९.३५
खात.प्रावृत्तिम् अनदी.निबन्ध.आयतन.तटाक.केदार.आराम.षण्ड.वापानां सस्य.वर्ण.भाग.उत्तरिकम् अन्येभ्यो वा यथा.उपकारं दद्युः ॥

अशा-०३.९.३६
प्रक्रय.अवक्रय.अधिभाग.भोगनिषृष्ट.उपभोक्तारश् च_एषां प्रतिकुर्युः ॥

अशा-०३.९.३७
अर्पतीकारे हीन.द्वि.गुणो दण्डः ॥

अशा-०३.९.३८कख’’’
सेतुभ्यो मुञ्चतस् तोयम् अवारे षट्.पणो दमः ।


अशा-०३.९.३८गघ’’’
वारे वा तोयम् अन्येषां प्रमादेन_उपरुन्धतः ॥

(डमगे तो पस्तुरेस्, fइएल्द्स् अन्द् रोअद्स्)

अशा-०३.१०.०१
कर्म.उदक.मार्गम् उचितं रुन्धतः कुर्वतो_अनुचितं वा पूर्वः साहस.दण्डः, सेतु.कूप.पुण्य.स्थान.चैत्य.देव.आयतनानि च पर.भूमौ निवेशयतः ॥

अशा-०३.१०.०२
पूर्व.अनुवृत्तं धर्म.सेतुम् आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस.दण्डः, श्रोतृऋणाम् उत्तमः, अन्यत्र भग्न.उत्सृष्टात् ॥

अशा-०३.१०.०३
स्वाम्य् अभावे ग्रामाः पुण्य.शीला वा प्रतिकुर्युः ॥

अशा-०३.१०.०४
पथि.प्रमाणं दुर्ग.निवेशे व्याख्यातम् ॥

अशा-०३.१०.०५
क्षुद्र.पशु.मनुष्य.पथं रुन्धतो द्वादश.पणो दण्डः, महा.पशु.पथं चतुर्.विंशति.पणः, हस्ति.क्षेत्र.पथं चतुष्.पञ्चाशत्.पणः, सेतु.वन.पथं षट्.शतः, श्मशान.ग्राम.पथं द्विशतः, द्रोण.मुख.पथं पञ्च.शतः, स्थानीय.राष्ट्र.विवीत.पथं साहस्रः ॥

अशा-०३.१०.०६
अतिकर्षणे च_एषां दण्ड.चतुर्था दण्डाः ॥

अशा-०३.१०.०७
कर्षणे पूर्व.उक्ताः ॥

अशा-०३.१०.०८
क्षेत्रिकस्य_अक्षिपतः क्षेत्रम् उपवासस्य वा त्यजतो बीज.काले द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥

अशा-०३.१०.०९
करदाः करदेष्व् आधानं विक्रयं वा कुर्युः, ब्रह्म.देयिका ब्रह्म.देयिकेषु ॥

अशा-०३.१०.१०
अन्यथा पूर्वः साहस.दण्डः ॥

अशा-०३.१०.११
करदस्य वा_अकरद.ग्रामं प्रविशतः ॥

अशा-०३.१०.१२
करदं तु प्रविशतः सर्व.द्रव्येषु प्राकाम्यं स्यात्, अन्यत्र_अगारात् ॥

अशा-०३.१०.१३
तद् अप्य् अस्मै दद्यात् ॥

अशा-०३.१०.१४
अनादेयम् अकृषतो_अन्यः पञ्च.वर्षाण्य् उपभुज्य प्रयास.निष्क्रयेण दद्यात् ॥

अशा-०३.१०.१५
अकरदाः परत्र वसन्तो भोगम् उपजीवेयुः ॥

अशा-०३.१०.१६
ग्राम.अर्थेन ग्रामिकं व्रजन्तम् उपवासाः पर्यायेण_अनुगच्छेयुः ॥

अशा-०३.१०.१७
अननुगच्छन्तः पण.अर्ध.पणिकं योजनं दद्युः ॥

अशा-०३.१०.१८
ग्रामिकस्य ग्रामाद् अस्तेन.पारदारिकं निरस्यतश् चतुर्.विंशति.पणो दण्डः, ग्रामस्य_उत्तमः ॥

अशा-०३.१०.१९
निरस्तस्य प्रवेशो ह्य् अभिगमेन व्याख्यातः ॥

अशा-०३.१०.२०
स्तम्भैः समन्ततो ग्रामाद् धनुः.शत.अपकृष्टम् उपसालं कारयेत् ॥

अशा-०३.१०.२१
पशु.प्रचार.अर्थं विवीतम् आलवनेन_उपजीवेयुः ॥

अशा-०३.१०.२२
विवीतं भक्षयित्वा_अपसृतानाम् उष्ट्र.महिषाणां पादिकं रूपं गृह्णीयुः, गव.अश्व.खराणां च_अर्ध.पादिकम्, क्षुद्र.पशूनां षोडश.भागिकम् ॥

अशा-०३.१०.२३
भक्षयित्वा निषण्णानाम् एत एव द्वि.गुणा दण्डाः, परिवसतां चतुर्.गुणाः ॥

अशा-०३.१०.२४
ग्राम.देव.वृषा वा_अनिर्दश.अहा वा धेनुर् उक्षाणो गो.वृषाश् च_अदण्ड्याः ॥

अशा-०३.१०.२५
सस्य.भक्षणे सस्य.उपघातं निष्पत्तितः परिसंख्याय द्वि.गुणं दापयेत् ॥

अशा-०३.१०.२६
स्वामिनश् च_अनिवेद्य चारयतो द्वादश.पणो दण्दः, प्रमुञ्चतश् चतुर्.विंशति.पणः ॥

अशा-०३.१०.२७
पालिनाम् अर्ध.दण्डाः ॥

अशा-०३.१०.२८
तद् एव षण्ड.भक्षणे कुर्यात् ॥

अशा-०३.१०.२९
वाट.भेदे द्वि.गुणः वेश्म.खल.वलय.गतानां च धान्यानां भक्षणे ॥

अशा-०३.१०.३०
हिंसा.प्रतीकारं कुर्यात् ॥

अशा-०३.१०.३१
अभय.वन.मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथा_अवध्यास् तथा प्रतिषेद्धव्याः ॥

अशा-०३.१०.३२
पशवो रश्मि.प्रतोदाभ्यां वारयितव्याः ॥

अशा-०३.१०.३३
तेषाम् अन्यथा हिंसायां दण्ड.पारुष्य.दण्डाः ॥

अशा-०३.१०.३४
प्रार्थयमाना दृष्ट.अपराधा वा सर्व.उपायैर् नियन्तव्याः ॥ इति क्षेत्र.पथ.हिंसा ।

अशा-०३.१०.३५
कर्षकस्य ग्रामम् अभ्युपेत्य_अकुर्वतो ग्राम एव_अत्ययं हरेत् ॥

अशा-०३.१०.३६
कर्म.अकरणे कर्म.वेतन.द्वि.गुणम्, हिरण्य.अदाने प्रत्यंश.द्वि.गुणम्, भक्ष्य.पेय.अदाने च प्रहवणेषु द्वि.गुणम् अंशं दद्यात् ॥

अशा-०३.१०.३७
प्रेक्षायाम् अनंशदः, स-स्व.जनो न प्रेक्षेत ॥

अशा-०३.१०.३८
प्रच्छन्न.श्रवण.ईक्षणे च सर्व.हिते च कर्मणि निग्रहेण द्वि.गुणम् अंशं दद्यात् ॥

अशा-०३.१०.३९
सर्व.हितम् एकस्य ब्रुवतः कुर्युर् आज्ञाम् ॥

अशा-०३.१०.४०
अकरणे द्वादश.पणो दण्डः ॥

अशा-०३.१०.४१
तं चेत् सम्भूय वा हन्युः पृथग् एषाम् अपराध.द्वि.गुणो दण्डः ॥

अशा-०३.१०.४२
उपहन्तृषु विशिष्टः ॥

अशा-०३.१०.४३
ब्राह्मणश् च_एषां ज्यैष्ठ्यं नियम्येत ॥

अशा-०३.१०.४४
प्रहवणेषु च_एषां ब्राह्मणा न_अकामाः कुर्युः, अंशं च लभेरन् ॥

अशा-०३.१०.४५
तेन देश.जाति.कुल.संघानां समयस्य_अनपाकर्म व्याख्यातम् ॥

अशा-०३.१०.४६कख’’’
राजा देश.हितान् सेतून् कुर्वतां पथि संक्रमान् ।


अशा-०३.१०.४६गघ’’’
ग्राम.शोभाश् च रक्षाश् च तेषां प्रिय.हितं चरेत् ॥

(णोन्-पय्मेन्त् ओf देब्त्स्)

अशा-०३.११.०१
सपाद.पणा धर्म्या मास.वृद्धिः पण.शतस्य, पञ्च.पणा व्यावहारिकी, दश.पणा कान्तारगाणाम्, विंशति.पणा सामुद्राणाम् ॥

अशा-०३.११.०२
ततः परं कर्तुः कारयितुश् च पूर्वः साहस.दण्डः, श्रोतृऋणाम् एक.एकं प्रत्यर्ध.दण्डः ॥

अशा-०३.११.०३
राजन्य् अयोग.क्षेम.आवहे तु धनिक.धारणिकयोश् चरित्रम् अवेक्षेत ॥

अशा-०३.११.०४
धान्य.वृद्धिः सस्य.निष्पत्ताव् उपार्धा, परं मूल्य.कृता वर्धेत ॥

अशा-०३.११.०५
प्रक्षेप.वृद्धिर् उदयाद् अर्धं सम्निधान.सन्ना वार्षिकी देया ॥

अशा-०३.११.०६
चिर.प्रवासः स्तम्भ.प्रविष्टो वा मूल्य.द्वि.गुणं दद्यात् ॥

अशा-०३.११.०७
अकृत्वा वृद्धिं साधयतो वर्धयतो वा, मूल्यं वा वृद्धिम् आरोप्य श्रावयतो बन्ध.चतुर्.गुणो दण्डः ॥

अशा-०३.११.०८
तुच्छ.श्रावणायाम् अभूत.चतुर्.गुणः ॥

अशा-०३.११.०९
तस्य त्रि.भागम् आदाता दद्यात्, शेषं प्रदाता ॥

अशा-०३.११.१०
दीर्घ.सत्त्र.व्याधि.गुरु.कुल.उपरुद्धं बालम् असारं वा न_ऋणम् अनुवर्धेत ॥

अशा-०३.११.११
मुच्यमानम् ऋणम् अप्रतिगृह्णतो द्वादश.पणो दण्डः ॥

अशा-०३.११.१२
कारण.अपदेशेन निवृत्त.वृद्धिकम् अन्यत्र तिष्ठेत् ॥

अशा-०३.११.१३
दश.वर्ष.उपेक्षितम् ऋणम् अप्रतिग्राह्यम्, अन्यत्र बाल.वृद्ध.व्याधित.व्यसनि.प्रोषित.देश.त्याग.राज्य.विभ्रमेभ्यः ॥

अशा-०३.११.१४
प्रेतस्य पुत्राः कुसीदं दद्युः, दायादा वा रिक्थ.हराः, सह.ग्राहिणः, प्रतिभुवो वा ॥

अशा-०३.११.१५
न प्रातिभाव्यम् अन्यत् ॥

अशा-०३.११.१६
असारं बाल.प्रातिभाव्यम् ॥

अशा-०३.११.१७
असंख्यात.देश.कालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ॥

अशा-०३.११.१८
जीवित.विवाह.भूमि.प्रातिभाव्यम् असंख्यात.देश.कालं तु पुत्राः पौत्रा वा वहेयुः ॥

अशा-०३.११.१९
नाना_ऋण.समवाये तु न_एकं द्वौ युगपद् अभिवदेयाताम्, अन्यत्र प्रतिष्ठमानात् ॥

अशा-०३.११.२०
तत्र_अपि गृहीत.आनुपूर्व्या राज.श्रोत्रिय.द्रव्यं वा पूर्वं प्रतिपादयेत् ॥

अशा-०३.११.२१
दम्पत्योः पिता.पुत्रयोः भ्रातृऋणां च_अविभक्तानां परस्पर..कृतम् ऋणम् असाध्यम् ॥

अशा-०३.११.२२
अग्राह्याः कर्म.कालेषु कर्षका राज.पुरुषाश् च ॥

अशा-०३.११.२३
स्त्री च_अप्रतिश्राविणी पति.कृतम् ऋणम्, अन्यत्र गो.पालक.अर्ध.सीतिकेभ्यः ॥

अशा-०३.११.२४
पतिस् तु ग्राह्यः स्त्री.कृतम् ऋणम्, अप्रति.विधाय प्रोषित इति ॥

अशा-०३.११.२५
सम्प्रतिपत्ताव् उत्तमः ॥

अशा-०३.११.२६
अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयो_अनुमता वा त्रयो_अवर.अर्ध्याः ॥

अशा-०३.११.२७
पक्ष.अनुमतौ वा द्वौ, ऋणं प्रति न त्व् एव_एकः ॥

अशा-०३.११.२८
प्रतिषिद्धाः स्याल.सहाय.अन्वर्थि.धनिक.धारणिक.वैरि.न्यङ्ग.धृत.दण्डाः, पूर्वे च_अव्यवहार्याः ॥

अशा-०३.११.२९
राज.श्रोत्रिय.ग्राम.भृतक.कुष्ठि.व्रणिनः पतित.चण्डाल.कुत्सित.कर्माणो_अन्ध.बधिर.मूक.अहं.वादिनः स्त्री.राज.पुरुषाश् च, अन्यत्र स्व.वर्गेभ्यः ॥

अशा-०३.११.३०
पारुष्य.स्तेय.संग्रहणेषु तु वैरि.स्याल.सहाय.वर्जाः ॥

अशा-०३.११.३१
रहस्य.व्यवहारेष्व् एका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद् राज.तापस.वर्जम् ॥

अशा-०३.११.३२
स्वामिनो भृत्यानाम् ऋत्विग्.आचार्याः शिष्याणां माता.पितरौ पुत्राणां च_अनिग्रहेण साक्ष्यं कुर्युः, तेसाम् इतरे वा ॥

अशा-०३.११.३३
परस्पर.अभियोगे च_एषाम् उत्तमाः परा.उक्ता दश.बन्धं दद्युः, अवराः पञ्च.बन्धम् ॥ इति साक्ष्य्.अधिकारः ॥

अशा-०३.११.३४
ब्राह्मण.उद.कुम्भ.अग्नि.सकाशे साक्षिणः परिगृह्णीयात् ॥

अशा-०३.११.३५
तत्र ब्राह्मणं ब्रूयात् "सत्यं ब्रूहि" इति ॥

अशा-०३.११.३६
राजन्यं वैश्यं वा "मा तव_इष्टा.पूर्त.फलम्, कपाल.हस्तः शत्रु.कुलं भिक्षा.अर्थी गच्छेः" इति ॥

अशा-०३.११.३७
शूद्रं "जन्म.मरण.अन्तरे यद् वः पुण्य.फलं तद् राजानं गच्छेद्, राज्ञश् च किल्बिषं युष्मान् अन्यथा.वादे, दण्डश् च_अनुबद्धः, पश्चाद् अपि ज्ञायेत यथा.दृष्ट.श्रुतम्, एक.मन्त्राः सत्यम् उपहरत" इति ॥

अशा-०३.११.३८
अनुपहरतां सप्त.रात्राद् ऊर्ध्वं द्वादश.पणो दण्डः, त्रि.पक्षाद् ऊर्ध्वम् अभियोगं दद्युः ॥

अशा-०३.११.३९
साक्षि.भेदे यतो बहवः शुचयो_अनुमता वा ततो नियच्छेयुः, मध्यं वा गृह्णीयुः ॥

अशा-०३.११.४०
तद् वा द्रव्यं राजा हरेत् ॥

अशा-०३.११.४१
साक्षिणश् चेद् अभियोगाद् ऊनं ब्रूयुर् अतिरिक्तस्य_अभियोक्ता बन्धं दद्यात् ॥

अशा-०३.११.४२
अतिरिक्तं वा ब्रूयुस् तद्.अतिरिक्तं राजा हरेत् ॥

अशा-०३.११.४३
बालिश्याद् अभियोक्तुर् वा दुह्श्रुतं दुर्लिखितं प्रेत.अभिनिवेशं वा समीक्ष्य साक्षि.प्रत्ययम् एव स्यात् ॥

अशा-०३.११.४४
"साक्षि.बालिष्येष्व् एव पृथग्.अनुयोगे देश.काल.कार्याणां पूर्व.मध्यम.उत्तमा दण्डाः" इत्य् औशनसाः ॥

अशा-०३.११.४५
"कूट.साक्षिणो यम् अर्थम् अभूतं कुर्युर् भूतं वा नाशयेयुस् तद् दश.गुणं दण्डं दद्युः" इति मानवाः ॥

अशा-०३.११.४६
"बालिश्याद् वा विसंवादयतां चित्रो घातः" इति बार्हस्पत्याः ॥

अशा-०३.११.४७
न_इति कौटिल्यः ॥

अशा-०३.११.४८
ध्रुवं हि साक्षिभिः श्रोतव्यम् ॥

अशा-०३.११.४९
अशृण्वतां चतुर्.विंशति.पणो दण्डः, ततो_अर्धम् अब्रुवाणानाम् ॥

अशा-०३.११.५०कख’’’
देश.काल.अविदूरस्थान् साक्षिणः प्रतिपादयेत् ।


अशा-०३.११.५०गघ’’’
दूरस्थान् अप्रसारान् वा स्वामि.वाक्येन साधयेत् ॥

(डेपोसित्स्)

अशा-०३.१२.०१
उपनिधिर् ऋणेन व्याख्यातः ॥

अशा-०३.१२.०२
पर.चक्र.आटविकाभ्यां दुर्ग.राष्ट्र.विलोपे वा, प्रतिरोधकैर् वा ग्राम.सार्थ.व्रज.विलोपे, चक्र.युक्त.नाशे वा, ग्राम.मध्य.अग्न्य्.उदक.आबाधे ज्वाला.वेग.उपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयम् उपरूढो न_उपनिधिम् अभ्यावहेत् ॥

अशा-०३.१२.०३
उपनिधि.भोक्ता देश.काल.अनुरूपं भोग.वेतनं दद्यात्, द्वादश.पणं च दण्डम् ॥

अशा-०३.१२.०४
उपभोग.निमित्तं नष्टं विनष्टं वा_अभ्यावहेत्, चतुर्.विंशति.पणश् च दण्डः, अन्यथा वा निष्पतने ॥

अशा-०३.१२.०५
प्रेतं व्यसन.गतं वा न_उपनिधिम् अभ्यावहेत् ॥

अशा-०३.१२.०६
आधान.विक्रय.अपव्ययनेषु च_अस्य चतुर्.गुण.पञ्च.बन्धो दण्डः ॥

अशा-०३.१२.०७
परिवर्तने निष्पातने वा मूल्य.समः ॥

अशा-०३.१२.०८
तेन_आधि.प्रणाश.उपभोग.विक्रय.आधान.अपहारा व्याख्याताः ॥

अशा-०३.१२.०९
न_आधिः स-उपकारः सीदेत्, न च_अस्य मूल्यं वर्धेत, अन्यत्र निसर्गात् ॥

अशा-०३.१२.१०
निरुपकारः सीदेत्, मूल्यं च_अस्य वर्धेत ॥

अशा-०३.१२.११
उपस्थितस्य_आधिम् अप्रयच्छतो द्वादशण्पणो दण्डः ॥

अशा-०३.१२.१२
प्रयोजक.असम्निधाने वा ग्राम.वृद्धेषु स्थापयित्वा निष्क्रयम् आधिं प्रतिपद्येत ॥

अशा-०३.१२.१३
निवृत्त.वृद्धिको वा_आधिस् तत्.काल.कृत.मूल्यस् तत्र_एव_अवतिष्ठेत, अनाश.विनाश.करण.अधिष्ठितो वा ॥

अशा-०३.१२.१४
धारणिक.असम्निधाने वा विनाश.भयाद् उद्गत.अर्घं धर्मस्थ.अनुज्ञातो विक्रीणीत, आधि.पाल.प्रत्ययो वा ॥

अशा-०३.१२.१५
स्थावरस् तु प्रयास.भोग्यः फल.भोग्यो वा प्रक्षेप.वृद्धि.मूल्य.शुद्धम् आजीवम् अमूल्य.क्षयेण_उपनयेत् ॥

अशा-०३.१२.१६
अनिसृष्ट.उपभोक्ता मूल्य.शुद्धम् आजीवं बन्धं च दद्यात् ॥

अशा-०३.१२.१७
शेषम् उपनिधिना व्याख्यातम् ॥

अशा-०३.१२.१८
एतेन_आदेशो_अन्वाधिश् च व्याख्यातौ ॥

अशा-०३.१२.१९
सार्थेन_अन्वाधि.हस्तो वा प्रदिष्टां भूमिम् अप्राप्तश् चोरैर् भग्न.उत्सृष्टो वा न_अन्वाधिम् अभ्यावहेत् ॥

अशा-०३.१२.२०
अन्तरे वा मृतस्य दायादो_अपि न_अभ्यावहेत् ॥

अशा-०३.१२.२१
शेषम् उपनिधिना व्यकह्यातम् ॥

अशा-०३.१२.२२
याचितकम् अवक्रीतकं वा यथा.विधं गृह्णीयुस् तथा.विधम् एव_अर्पयेयुः ॥

अशा-०३.१२.२३
भ्रेष.उपनिपाताभ्यां देश.काल.उपरोधि दत्तं नष्टं विनष्टं वा न_अभ्यावहेयुः ॥

अशा-०३.१२.२४
शेषम् उपनिधिना व्याख्यातम् ॥

अशा-०३.१२.२५
वैयावृत्य.विक्रयस् तु - वैयावृत्य.करा यथा.देश.कालं विक्रीणानाः पण्यं यथा.जातं मूल्यम् उदयं च दद्युः ॥

अशा-०३.१२.२६
देश.काल.अतिपातने वा परिहीणं सम्प्रदान.कालिकेन_अर्घेण मूल्यम् उदयं च दद्युः ॥

अशा-०३.१२.२७
यथा.सम्भाषितं वा विक्रीणाना न_उदयम् अधिगच्छेयुः, मूल्यम् एव दद्युः ॥

अशा-०३.१२.२८
अर्घ.पतने वा परिहीणं यथा.परिहीणं मूल्यम् ऊनं दद्युः ॥

अशा-०३.१२.२९
सांव्यवहारिकेषु वा प्रात्ययिकेष्व् अराज.वाच्येषु भ्रेष.उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यम् अपि न दद्युः ॥

अशा-०३.१२.३०
देश.काल.अन्तरितानां तु पण्यानां क्षय.व्यय.विशुद्धं मूल्यम् उदयं च दद्युः, पण्य.समवायानां च प्रत्यंशम् ॥

अशा-०३.१२.३१
शेषम् उपनिधिना व्याख्यातम् ॥

अशा-०३.१२.३२
एतेन वैयावृत्य.विक्रयो व्याख्यातः ॥

अशा-०३.१२.३३
निक्षेपश् च_उपनिधिना ॥

अशा-०३.१२.३४
तम् अन्येन निक्ष्पितम् अन्यस्य_अर्पयतो हीयेत ॥

अशा-०३.१२.३५
निक्षेप.अपहारे पूर्व.अपदानं निक्षेप्तारश् च प्रमाणम् ॥

अशा-०३.१२.३६
अशुचयो हि कारवः ॥

अशा-०३.१२.३७
न_एषां करण.पूर्वो निक्षेप.धर्मः ॥

अशा-०३.१२.३८
करण.हीनं निक्षेपम् अपव्ययमानं गूढ.भित्ति.न्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वन.अन्ते वा मद्य.प्रहवण.विश्वासेन ॥

अशा-०३.१२.३९
रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते निक्षिप्य_अपगच्छेत् ॥

अशा-०३.१२.४०
तस्य प्रतिदेशेन पुत्रो भ्राता वा_अभिगम्य निक्षेपं याचेत ॥

अशा-०३.१२.४१
दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥

अशा-०३.१२.४२
प्रव्रज्या.अभिमुखो वा श्रद्धेयः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते निक्षिप्य प्रतिष्ठेत ॥

अशा-०३.१२.४३
ततः काल.अन्तर.आगतो याचेत ॥

अशा-०३.१२.४४
दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥

अशा-०३.१२.४५
कृत.लक्षणेन वा द्रव्येण प्रत्यानयेद् एनम् ॥

अशा-०३.१२.४६
बालिश.जातीयो वा रात्रौ राज.दायिका.क्षण.भीतः सारम् अस्य हस्ते निक्षिप्य_अपगच्छेत् ॥

अशा-०३.१२.४७
स एनं बन्धन.अगार.गतो याचेत ॥

अशा-०३.१२.४८
दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥

अशा-०३.१२.४९
अभिज्ञानेन च_अस्य गृहे जनम् उभयं याचेत ॥

अशा-०३.१२.५०
अन्यतर्त.आदाने यथा.उक्तं पुरस्तात् ॥

अशा-०३.१२.५१
द्रव्य.भोगानाम् आगमं च_अस्य_अनुयुञ्जीत, तस्य च_अर्थस्य व्यवहार.उपलिङ्गनम्, अभियोक्तुश् च_अर्थ.सामर्थ्यम् ॥

अशा-०३.१२.५२
एतेन मिथः.समवायो व्याख्यातः ॥

अशा-०३.१२.५३कख’’’
तस्मात् साक्षिमद् अच्छन्नं कुर्यात् सम्यग्.विभाषितम् ।


अशा-०३.१२.५३गघ’’’
स्वे परे वा जने कार्यं देश.काल.अग्र.वर्णतः ॥

(ऌअw चोन्चेर्निन्ग् स्लवेस् अन्द् लबोउरेर्स्)

अशा-०३.१३.०१
उदर.दास.वर्जम् आर्य.प्राणम् अप्राप्त.व्यवहारं शूद्रं विक्रय.आधानं नयतः स्व.जनस्य द्वादश.पणो दण्डः, वैश्यं द्वि.गुणः, क्षत्रियं त्रि.गुणः, ब्राह्मणं चतुर्.गुणः ॥

अशा-०३.१३.०२
पर.जनस्य पूर्व.मध्यम.उत्तम.वधा दण्डाः, क्रेतृ.श्रोतृऋणां च ॥

अशा-०३.१३.०३
म्लेच्छानाम् अदोषः प्रजां विक्रेतुम् आधातुं वा ॥

अशा-०३.१३.०४
न त्व् एव_आर्यस्य दास.भावः ॥

अशा-०३.१३.०५
अथवा_आर्यम् आधाय कुल.बन्धन आर्याणाम् आपदि, निष्क्रयं च_अधिगम्य बालं साहाय्य.दातारं वा पूर्वं निष्क्रीणीरन् ॥

अशा-०३.१३.०६
सकृद्.आत्म.आधाता निष्पतितः सीदेत्, द्विर् अन्येन_आहितकः, सकृद् उभौ पर.विषय.अभिमुखौ ॥

अशा-०३.१३.०७
वित्त.अपहारिणो वा दासस्य_आर्य.भावम् अपहरतो_अर्ध.दण्डः ॥

अशा-०३.१३.०८
निष्पतित.प्रेत.व्यसनिनाम् आधाता मूल्यं भजेत ॥

अशा-०३.१३.०९
प्रेत.विण्.मूत्र.उच्छिष्ट.ग्राहणम् आहितस्य नग्न.स्नापनं दण्ड.प्रेषणम् अतिक्रमणं च स्त्रीणां मूल्य.नाश.करं, धात्री.परिचारिक.अर्ध.सीतिक.उपचारिकाणां च मोक्ष.करम् ॥

अशा-०३.१३.१०
सिद्धम् उपचारकस्य_अभिप्रजातस्य_अपक्रमणम् ॥

अशा-०३.१३.११
धात्रीम् आहितिकां वा_अकामां स्व.वशां गच्छतः पूर्वः साहस.दण्डः, पर.वशां मध्यमः ॥

अशा-०३.१३.१२
कन्याम् आहितिकां वा स्वयम् अन्येन वा दुषयतो मूल्य.नाशः शुल्कं तद्.द्वु.गुणश् च दण्डः ॥

अशा-०३.१३.१३
आत्म.विक्रयिणः प्रजाम् आर्यां विद्यात् ॥

अशा-०३.१३.१४
आत्म.अधिगतं स्वामि.कर्म.अविरुद्धं लभेत, पित्र्यं च दायम् ॥

अशा-०३.१३.१५
मूल्येन च_आर्यत्वं गच्छेत् ॥

अशा-०३.१३.१६
तेन_उदर.दास.आहितकौ व्याख्यातौ ॥

अशा-०३.१३.१७
प्रक्षेप.अनुरूपश् च_अस्य निष्क्रयः ॥

अशा-०३.१३.१८
दण्ड.प्रणीतः कर्मणा दण्डम् उपनयेत् ॥

अशा-०३.१३.१९
आर्य.प्राणो ध्वज.आहृतः कर्म.काल.अनुरूपेण मूल्य.अर्धेन वा विमुच्येत ॥

अशा-०३.१३.२०
गृहे.जात.दाय.आगत.लब्ध.क्रीतानाम् अन्यतमं दासम् ऊन.अष्ट.वर्षं विबन्धुम् अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भाम् अप्रतिविहित.गर्भ.भर्मण्यां विक्रय.आधानं नयतः पूर्वः साहस.दण्डः, क्रेतृ.श्रोतृऋणां च ॥

अशा-०३.१३.२१
दासम् अनुरूपेण निष्क्रयेण_आर्यम् अकुर्वतो द्वादश.पणो दण्डः, संरोधश् च_आ.करणात् ॥

अशा-०३.१३.२२
दास.द्रव्यस्य ज्ञातयो दायादाः, तेषाम् अभावे स्वामी ॥

अशा-०३.१३.२३
स्वामिनः स्वस्यां दास्यां जातं समातृकम् अदासं विद्यात् ॥

अशा-०३.१३.२४
गृह्या चेत् कुटुम्ब.अर्थ.चिन्तनी माता भ्राता भगिनी च_अस्या अदासाः स्युः ॥

अशा-०३.१३.२५
दासं दासीं वा निष्क्रीय पुनर् विक्रय.आधानं नयतो द्वादश.पणो दण्डः, अन्यत्र स्वयं.वादिभ्यः ॥ इति दास.कल्पः ।

अशा-०३.१३.२६
कर्म.करस्य कर्म.सम्बन्धम् आसन्ना विद्युः ॥

अशा-०३.१३.२७
यथा.सम्भाषितं वेतनं लभेत, कर्म.काल.अनुरूपम् असम्भाषित.वेतनः ॥

अशा-०३.१३.२८
कर्षकः सस्यानां गो.पालकः सर्पिषां वैदेहकः पण्यानाम् आत्मना व्यवहृतानां दश.भागम् असम्भाषित.वेतनो लभेत ॥

अशा-०३.१३.२९
सम्भाषित.वेतनस् तु यथा.सम्भाषितम् ॥

अशा-०३.१३.३०
कारु.शिल्पि.कुशीलव.चिकित्सक.वाग्.जीवन.परिचारक.आदिर् आशा.कारिक.वर्गस् तु यथा_अन्यस् तद्.विधः कुर्याद् यथा वा कुशलाः कल्पयेयुस् तथा वेतनं लभेत ॥

अशा-०३.१३.३१
साक्षि.प्रत्ययम् एव स्यात् ॥

अशा-०३.१३.३२
साक्षिणाम् अभावे यतः कर्म ततो_अनुयुञ्जीत ॥

अशा-०३.१३.३३
वेतन.आदाने दश.बन्धो दण्डः, षट्.पणो वा ॥

अशा-०३.१३.३४
अपव्ययमाने द्वादश.पणो दण्डः, पञ्च.बन्धो वा ॥

अशा-०३.१३.३५
नदी.वेग.ज्वाला.स्तेन.व्याल.उपरुद्धः सर्व.स्व.पुत्र.दार.आत्म.दानेन_आर्तस् त्रातारम् आहूय निष्तीर्णः कुशल.प्रदिष्टं वेतनं दद्यात् ॥

अशा-०३.१३.३६
तेन सर्वत्र_आर्त.दान.अनुशया व्याख्याताः ॥

अशा-०३.१३.३७कख’’’
लभेत पुंश्चली भोगं संगमस्य_उपलिङ्गनात् ।


अशा-०३.१३.३७गघ’’’
अतियाच्ना तु जीयेत दौर्मत्य.अविनयेन वा ॥

(डुतिएस् ओf सेर्वन्त्स्) (ऊन्देर्तकिन्ग् इन् पर्त्नेर्स्हिप्)

अशा-०३.१४.०१
गृहीत्वा वेतनं कर्म_अकुर्वतो भृतकस्य द्वादश.पणो दण्डः, संरोधश् च_आ.करणात् ॥

अशा-०३.१४.०२
अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वा_अनुशयं लभेत, परेण वा कारयितुम् ॥

अशा-०३.१४.०३
तस्य.व्यय.कर्मणा लभेत भर्ता वा कारयितुम् ॥

अशा-०३.१४.०४
"न_अन्यस् त्वया कारयितव्यो, मया वा न_अन्यस्य कर्तव्यम्" इत्य् अवरोधे भर्तुर् अकारयतो भृतकस्य_अकुर्वतो वा द्वादश.पणो दण्डः ॥

अशा-०३.१४.०५
कर्म.निष्ठापने भर्तुर् अन्यत्र गृहीत.वेतनो न_असकामः कुर्यात् ॥

अशा-०३.१४.०६
"उपस्थितम् अकारयतः कृतम् एव विद्याद्" इत्य् आचार्याः ॥

अशा-०३.१४.०७
न_इति कौटिल्यः ॥

अशा-०३.१४.०८
कृतस्य वेतनं न_अकृतस्य_अस्ति ॥

अशा-०३.१४.०९
स चेद् अल्पम् अपि कारयित्वा न कारयेत् कृतम् एव_अस्य विद्यात् ॥

अशा-०३.१४.१०
देश.काल.अतिपातनेन कर्मणाम् अन्यथा.करणे वा न_असकामः कृतम् अनुमन्येत ॥

अशा-०३.१४.११
सम्भाषिताद् अधिक.क्रियायां प्रयासं न मोघं कुर्यात् ॥

अशा-०३.१४.१२
तेन संघ.भृता व्याख्याताः ॥

अशा-०३.१४.१३
तेषाम् आधिः सप्त.रात्रम् आसीत ॥

अशा-०३.१४.१४
ततो_अन्यम् उपस्थापयेत्, कर्म.निष्पाकं च ॥

अशा-०३.१४.१५
न च_अनिवेद्य भर्तुः संघः कंचित् परिहरेद् उपनयेद् वा ॥

अशा-०३.१४.१६
तस्य_अतिक्रमे चतुर्.विंशति.पणो दण्डः ॥

अशा-०३.१४.१७
संघेन परिहृतस्य_अर्ध.दण्डः ॥ इति भृतक.अधिकारः ॥

अशा-०३.१४.१८
संघ.भृताः सम्भूय.समुत्थातारो वा यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥

अशा-०३.१४.१९
कर्षण.वैदेहका वा सस्य.पण्य.आरम्भ.पर्यवसान.अन्तरे सन्नस्य यथा.कृतस्य कर्मणः प्रत्यंशं दद्युः ॥

अशा-०३.१४.२०
पुरुष.उपस्थाने समग्रम् अंशं दद्युः ॥

अशा-०३.१४.२१
संसिद्धे तु_उद्धृत.पण्ये सन्नस्य तदानीम् एव प्रत्यंशं दद्युः ॥

अशा-०३.१४.२२
सामान्या हि पथि.सिद्धिश् च_असिद्धिश् च ॥

अशा-०३.१४.२३
प्रक्रान्ते तु कर्मणि स्वस्थस्य_अपक्रामतो द्वादश.पणो दण्डः ॥

अशा-०३.१४.२४
न च प्राकाम्यम् अपक्रमणे ॥

अशा-०३.१४.२५
चोरं त्व् अभय.पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशम् अभयं च ॥

अशा-०३.१४.२६
पुनः.स्तेये प्रवासनम्, अन्यत्र.गमने च ॥

अशा-०३.१४.२७
महा.अपराधे तु दूष्यवद् आचरेत् ॥

अशा-०३.१४.२८
याजकाः स्वा.प्रचार.द्रव्य.वर्जं यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥

अशा-०३.१४.२९
अग्निष्टोम.आदिषु च क्रतुषु दीक्षणाद् ऊर्ध्वं तृतीयम् अंशं, मध्यम.उपसद ऊर्ध्वम् अर्धम् अंशं, सुत्ये प्रातः.सवनाद् ऊर्ध्वं पाद.ऊनम् अंशम् ॥

अशा-०३.१४.३०
माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रम् अंशं लभेत ॥

अशा-०३.१४.३१
नीता हि दक्षिणा भवन्ति ॥

अशा-०३.१४.३२
बृहस्पति.सव.वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ॥

अशा-०३.१४.३३
तेन_अहर्.गण.दक्षिणा व्याख्याताः ॥

अशा-०३.१४.३४
सनानाम् आ.दश.अहो.रात्रात्_शेष.भृताः कर्म कुर्युः, अन्ये वा स्व.प्रत्ययाः ॥

अशा-०३.१४.३५
कर्मण्य् असमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ॥

अशा-०३.१४.३६
असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस.दण्डः ॥

अशा-०३.१४.३७कख’’’
अनाहित.अग्निः शत.गुरु.यज्वा च सहस्रगुः ।


अशा-०३.१४.३७गघ’’’
सुरापो वृषली.भर्ता ब्रह्महा गुरु.तल्पगः ॥


अशा-०३.१४.३८कख’’’
असत्.प्रतिग्रहे युक्तः स्तेनः कुत्सित.याजकः ।


अशा-०३.१४.३८गघ’’’
अदोषस् त्यक्तुम् अन्योन्यं कर्म.संकर.निश्चयात् ॥

(ऋएस्चिस्सिओन् ओf सले अन्द् पुर्छसे)

अशा-०३.१५.०१
विक्रीय पण्यम् अप्रयच्छतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥

अशा-०३.१५.०२
पण्य.दोषो दोषः ॥

अशा-०३.१५.०३
राज.चोर.अग्न्य्.उदक.बाध उपनिपातः ॥

अशा-०३.१५.०४
बहु.गुण.हीनम् आर्त.कृतं वा_अविषह्यम् ॥

अशा-०३.१५.०५
वैदेहकानाम् एक.रात्रम् अनुशयः, कर्षकाणां त्रि.रात्रं, गो.रक्षकाणां पञ्च.रात्रम् ॥

अशा-०३.१५.०६
व्यामिश्राणाम् उत्तमानां च वर्णानां वृत्ति.विक्रये सप्त.रात्रम् ॥

अशा-०३.१५.०७
आतिपातिकानां पण्यानां "अन्यत्र.अविक्रेयम्" इत्य् अवरोधेन_अनुशयो देयः ॥

अशा-०३.१५.०८
तस्य_अतिक्रमे चतुर्.विंशति.पणो दण्डः, पण्य.दश.भागो वा ॥०३.१५.०९
क्रीत्वा पण्यम् अप्रतिगृह्णतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥

अशा-०३.१५.१०
समानश् च_अनुशयो विक्रेतुर् अनुशयेन ॥

अशा-०३.१५.११
विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि.ग्रहणात् सिद्धम् उपावर्तनं, शूद्राणां च प्रकर्मणः ॥

अशा-०३.१५.१२
वृत्त.पाणि.ग्रहणयोर् अपि दोषम् औपशायिकं दृष्ट्वा सिद्धम् उपावर्तनम् ॥

अशा-०३.१५.१३
न त्व् एव_अभिप्रजातयोः ॥

अशा-०३.१५.१४
कन्या.दोषम् औपशायिकम् अनाख्याय प्रयच्छतः कन्यां षण्.णवतिर् दण्डः, शुल्क.स्त्री.धन.प्रतिदानं च ॥

अशा-०३.१५.१५
वरयितुर् वा वर.दोषम् अनाख्याय विन्दतो द्वि.गुणः, शुल्क.स्त्री.धन.नाशश् च ॥

अशा-०३.१५.१६
द्विपद.चतुष्पदानां तु कुण्ठ.व्याधित.अशुचीनाम् उत्साह.स्वास्थ्य.शुचीनाम् आख्याने द्वादश.पणो दण्डः ॥

अशा-०३.१५.१७
आ.त्रि.पक्षाद् इति चतुष्पदानाम् उपावर्तनम्, आ.संवत्सराद् इति मनुष्याणाम् ॥

अशा-०३.१५.१८
तावता हि कालेन शक्यं शौच.आशौचे ज्ञातुम् ॥

अशा-०३.१५.१९कख’’’
दाता प्रतिग्रहीता च स्यातां न_उपहतौ यथा ।


अशा-०३.१५.१९गघ’’’
दाने क्रये वा_अनुशयं तथा कुर्युः सभासदः ॥

(णोन्-चोन्वेयन्चे ओf गिfत्स्) (षले wइथोउत् ओwनेर्स्हिप्) (ऋएलतिओन् ओf ओwनेर्स्हिप्)

अशा-०३.१६.०१
दत्तस्य_अप्रदानम् ऋण.आदानेन व्याख्यातम् ॥

अशा-०३.१६.०२
दत्तम् अव्यवहार्यम् एकत्र_अनुशये वर्तेत ॥

अशा-०३.१६.०३
सर्व.स्वं पुत्र.दारम् आत्मानं वा प्रदाय_अनुशयिनः प्रयच्छेत् ॥

अशा-०३.१६.०४
धर्म.दानम् असाधुषु कर्मसु च_औपघातिकेषु वा, अर्थ.दानम् अनुपकारिष्व् अपकारिषु वा, काम.दानम् अनर्हेषु च ॥

अशा-०३.१६.०५
यथा च दाता प्रतिग्रहीता च न_उपहतौ स्यातां तथा_अनुशयं कुशलाः कल्पयेयुः ॥

अशा-०३.१६.०६
दण्ड.भयाद् आक्रोश.भयाद् अनर्थ.भयाद् वा भय.दानं प्रतिगृह्णतः स्तेय.दण्डः, प्रयच्छतश् च ॥

अशा-०३.१६.०७
रोष.दानं पर.हिंसायां, राज्ञाम् उपरि दर्प.दानं च ॥

अशा-०३.१६.०८
तत्र_उत्तमो दण्डः ॥

अशा-०३.१६.०९
प्रातिभाव्यं दण्ड.शुल्क.शेषम् आक्षिकं सौरिकं च न_अकामः पुत्रो दायादो वा रिक्थ.हरो दद्यात् ॥ इति दत्तस्य_अनपाकर्म ।

अशा-०३.१६.१०
अस्वामि.विक्रयस् तु - नष्ट.अपहृतम् आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ॥

अशा-०३.१६.११
देश.काल.अतिपत्तौ वा स्वयं गृहीत्वा_उपहरेत् ॥

अशा-०३.१६.१२
धर्मस्थश् च स्वामिनम् अनुयुञ्जीत "कुतस् ते लब्धम्" इति ॥

अशा-०३.१६.१३
स चेद् आचार.क्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्य_अतिसर्गेण मुच्येत ॥

अशा-०३.१६.१४
विक्रेता चेद् दृश्येत, मूल्यं स्तेय.दण्डं च दद्यात् ॥

अशा-०३.१६.१५
स चेद् अपसारम् अधिगच्छेद् अपसरेद् आ.अपसार.क्षयात् ॥

अशा-०३.१६.१६
क्षये मूल्यं स्तेय.दण्डं च दद्यात् ॥

अशा-०३.१६.१७
नाष्टिकश् च स्व.करणं कृत्वा नष्ट.प्रत्याहृतं लभेत ॥

अशा-०३.१६.१८
स्व.करण.अभावे पञ्च.बन्धो दण्डः ॥

अशा-०३.१६.१९
तच् च द्रव्यं राज.धर्म्यं स्यात् ॥

अशा-०३.१६.२०
नष्ट.अपहृतम् अनिवेद्य_उत्कर्षतः स्वामिनः पूर्वः साहस.दण्डः ॥

अशा-०३.१६.२१
शुल्क.स्थाने नष्ट.अपहृत.उत्पन्नं तिष्ठेत् ॥

अशा-०३.१६.२२
त्रि.पक्षाद् ऊर्ध्वम् अनभिसारं राजा हरेत्, स्वामी वा स्व.करणेन ॥

अशा-०३.१६.२३
पञ्च.पणिकं द्विपद.रूपस्य निष्क्रयं दद्यात्, चतुष्पणिकम् एक.खुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्र.पशूनाम् ॥

अशा-०३.१६.२४
रत्न.सार.फल्गु.कुप्यानां पञ्चकं शतं दद्यात् ॥

अशा-०३.१६.२५
पर.चक्र.अटवी.हृतं तु प्रत्यानीय राजा यथा.स्वं प्रयच्छेत् ॥

अशा-०३.१६.२६
चोर.हृतम् अविद्यमानं स्व.द्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुम् अशक्तो वा ॥

अशा-०३.१६.२७
स्वयं.ग्राहेण_आहृतं प्रत्यानीय तन्.निष्क्रयं वा प्रयच्छेत् ॥

अशा-०३.१६.२८
पर.विषयाद् वा विक्रमेण_आनीतं यथा.प्रदिष्टं राज्ञा भुञ्जीत, अन्यत्र_आर्य.प्राणेभ्यो देव.ब्राह्मण.तपस्वि.द्रव्येभ्यश् च ॥ इत्य् अस्वामि.विक्रयः ।

अशा-०३.१६.२९
स्व.स्वामि.सम्बन्धस् तु - भोग.अनुवृत्तिर् उच्छिन्न.देशानां यथा.स्वं द्रव्याणाम् ॥

अशा-०३.१६.३०
यत् स्वं द्रव्यम् अन्यैर् भुज्यमानं दश वर्षाण्य् उपेक्षेत, हीयेत_अस्य, अन्यत्र बाल.वृद्ध.व्याधित.व्यसनि.प्रोषित.देश.त्याग.राज्य.विभ्रमेभ्यः ॥

अशा-०३.१६.३१
विंशति.वर्ष.उपेक्षितम् अनवसितं वास्तु न_अनुयुञ्जीत ॥

अशा-०३.१६.३२
ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञाम् असंनिधौ पर.वास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिम् आधिं निधिं निक्षेपं स्त्रियं सीमानं राज.श्रोत्रिय.द्रव्याणि च ॥

अशा-०३.१६.३३
आश्रमिणः पाषण्डा वा महत्य् अवकाशे परस्परम् अबाधमाना वसेयुः ॥

अशा-०३.१६.३४
अल्पां बाधां सहेरन् ॥

अशा-०३.१६.३५
पूर्व.आगतो वा वास.पर्यायं दद्यात् ॥

अशा-०३.१६.३६
अप्रदाता निरस्येत ॥

अशा-०३.१६.३७
वानप्रस्थ.यति.ब्रह्म.चारिणाम् आचार्य.शिष्य.धर्म.भ्रातृ.समान.तीर्थ्या रिक्थ.भाजः क्रमेण ॥

अशा-०३.१६.३८
विवाद.पदेषु च_एषां यावन्तः पणा दण्डास् तावती रात्रीः क्षपण.अभिषेक.अग्नि.कार्य.महा.कच्छ.वर्धनानि राज्ञश् चरेयुः ॥

अशा-०३.१६.३९
अहिरण्य.सुवर्णाः पाषढाः साधवः ॥

अशा-०३.१६.४०
ते यथा.स्वम् उपवास.व्रतैर् आराधयेयुः, अन्यत्र पारुष्य.स्तेय.साहस.संग्रहणेभ्यः ॥

अशा-०३.१६.४१
तेषु यथा.उक्ता दण्डाः कार्याः ॥

अशा-०३.१६.४२कख’’’
प्रव्रज्यासु वृथा.आचारान् राजा दण्डेन वारयेत् ।


अशा-०३.१६.४२गघ’’’
धर्मो ह्य् अधर्म.उपहतः शास्तारं हन्त्य् उपेक्षितः ॥

(Fओर्चिब्ले सेइशुरे)

अशा-०३.१७.०१
साहसम् अन्वयवत् प्रसभ.कर्म ॥

अशा-०३.१७.०२
निरन्वये स्तेयम्, अपव्ययने च ॥

अशा-०३.१७.०३
"रत्न.सार.फल्गु.कुप्यानां साहसे मूल्य.समो दण्डः" इति मानवाः ॥

अशा-०३.१७.०४
"मूल्य.द्वि.गुणः" इत्य् औशनसाः ॥

अशा-०३.१७.०५
यथा.अपराध इति कौटिल्यः ॥

अशा-०३.१७.०६
"पुष्प.फल.शाक.मूल.कन्द.पक्व.अन्न.चर्म.वेणु.मृद्.भाण्ड.आदीनां क्षुद्रक.द्रव्याणां द्वाद्श.पण.अवरश् चतुर्विंशति.पण.परो दण्डः ॥

अशा-०३.१७.०७
काल.आयस.काष्ठ.रज्जु.द्रव्य.क्षुद्र.पशु.पट.आदीनां स्थूलक.द्रव्याणां चतुर्विंशति.पण.अवरो_अष्ट.चत्वारिंशत्.पण.परो दण्डः ॥

अशा-०३.१७.०८
ताम्र.वृत्त.कंस.काच.दन्त.भाण्ड.आदीनां स्थूलक.द्रव्याणाम् अष्ट.चत्वारिंशत्.पण.अवरः षण्.णवति.परः पूर्वः साहस.दण्डः ॥

अशा-०३.१७.०९
महा.पशु.मनुष्य.क्षेत्र.गृह.हिरण्य.सुवर्ण.सूक्ष्म.वस्त्र.आदीनां स्थूलक.द्रव्याणां द्विशत.अवरः पञ्च.शत.परो मध्यमः साहस.दण्डः ॥

अशा-०३.१७.१०
स्त्रियं पुरुषं वा_अभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्च.शत.अवरः सहस्र.पर उत्तमः साहस.दण्डः ॥ इत्य् आचार्याः ॥

अशा-०३.१७.११
"यः साहसं "प्रतिपत्ता" इति कारयति स द्वि.गुणं दद्यात् ॥

अशा-०३.१७.१२
"यावद्द् हिरण्यम् उपयोक्ष्यते तावद् दास्यामि" इति स चतुर्.गुणं दण्डं दद्यात् ॥

अशा-०३.१७.१३
यः "एतावद्द् हिरण्यं दास्यामि" इति प्रमाणम् उद्दिश्य कारयति स यथा.उक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ॥

अशा-०३.१७.१४
स चेत् कोपं मदं मोहं वा_अपदिशेद् यथा.उक्तवद् दण्डम् एनं कुर्याद् इति कौटिल्यः ॥

अशा-०३.१७.१५कख’’’
दण्ड.कर्मसु सर्वेषु रूपम् अष्ट.पणं शतम् ।


अशा-०३.१७.१५गघ’’’
शतात् परेषु व्याजीं च विद्यात् पञ्च.पणं शतम् ॥


अशा-०३.१७.१६कख’’’
प्रजानां दोष.बाहुल्याद् राज्ञां वा भाव.दोषतः ।


अशा-०३.१७.१६गघ’’’
रूप.व्याज्याव् अधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ॥

(Vएर्बल् इन्जुर्य्)

अशा-०३.१८.०१
वाक्.पारुष्यम् उपवादः कुत्सनम् अभिभर्त्सनम् इति ॥

अशा-०३.१८.०२
शरीर.प्रकृति.श्रुत.वृत्ति.जन.पदानां शरीर.उपवादे काण.खञ्ज.आदिभिः सत्ये त्रि.पणो दण्डः, मिथ्या.उपवादे षट्.पणो दण्डः ॥

अशा-०३.१८.०३
"शोभन.अक्षिमन्तः" इति काण.खञ्ज.आदीनां स्तुति.निन्दायां द्वादश.पणो दण्डः ॥

अशा-०३.१८.०४
कुष्ठ.उन्माद.क्लैब्य.आदिभिः कुत्सायां च सत्य.मिथ्या.स्तुति.निन्दासु द्वादश.पण.उत्तरा दण्डास् तुल्येषु ॥

अशा-०३.१८.०५
विशिष्टेषु द्वि.गुणाः, हीनेष्व् अर्ध.दण्डाः, पर.स्त्रीषु द्वि.गुणाः, प्रमाद.मद.मोह.आदिभिर् अर्ध.दण्डाः ॥

अशा-०३.१८.०६
कुष्ठ.उन्मादयोश् चिकित्सकाः संनिकृष्टा पुमांसश् च प्रमाणं, क्लीब.भावे स्त्रियो मूत्र.फेनो_अप्सु विष्ठा.निमज्जनं च ॥

अशा-०३.१८.०७
प्रकृत्य्.उपवादे ब्राह्मण.क्षत्रिय.वैश्य.शूद्र.अन्त.अवसायिनाम् अपरेण पूर्वस्य त्रि.पण.उत्तरा दण्डाः, पूर्वेण_अपरस्य द्वि.पण.अधराः, कुब्राह्मण.आदिभिश् च कुत्सायाम् ॥

अशा-०३.१८.०८
तेन श्रुत.उपवादो वाग्.जीवनानां, कारु.कुशीलवानां वृत्त्य्.उपवादः, प्राज्जूणक.गान्धार.आदीनां च जन.पद.उपवादा व्याख्याताः ॥

अशा-०३.१८.०९
यः परं "एवं त्वां करिष्यामि" इति करणेन_अभिभर्त्सयेद्, अकरणे यस् तस्य करणे दण्डस् ततो_अर्ध.दण्डं दद्यात् ॥

अशा-०३.१८.१०
अशक्तः कोपं मदं मोहं वा_अपदिशेद् द्वादश.पणं दण्डं दद्यात् ॥

अशा-०३.१८.११
जात.वैर.आशयः शक्तश् च_अपकर्तुं यावज्.जीविक.अवस्थं दद्यात् ॥

अशा-०३.१८.१२कख’’’
स्व.देश.ग्रामयोः पूर्वं मध्यमं जाति.संघयोः ।


अशा-०३.१८.१२गघ’’’
आक्रोशाद् देव.चैत्यानाम् उत्तमं दण्डम् अर्हति ॥

(ঢ়्य्सिचल् इन्जुर्य्)

अशा-०३.१९.०१
दण्ड.पारुष्यं स्पर्शनम् अवगूर्णं प्रहतम् इति ॥

अशा-०३.१९.०२
नाभेर् अधः.कायं हस्त.पङ्क.भस्म.पांसुभिर् इति स्पृशतस् त्रि.पणो दण्डः, तैर् एव_अमेध्यैः पाद.ष्ठीविकाभ्यां च षट्.पणः, छर्दि.मूत्र.पुरीष.आदिभिर् द्वादश.पणः ॥

अशा-०३.१९.०३
नाभेर् उपरि द्वि.गुणाः, शिरसि चतुर्.गुणाः समेषु ॥

अशा-०३.१९.०४
विशिष्टेषु द्वि.गुणाः, हीनेष्व् अर्ध.दण्डाः, पर.स्त्रीषु द्वि.गुणाः, प्रमाद.मद.मोह.आदिभिर् अर्ध.दण्डाः ॥

अशा-०३.१९.०५
पाद.वस्त्र.हस्त.केश.अवलम्बनेषु षट्.पण.उत्तरा दण्डाः ॥

अशा-०३.१९.०६
पीडन.आवेष्टन.अञ्चन.प्रकर्षण.अध्यासनेषु पूर्वः साहस.दण्डः ॥

अशा-०३.१९.०७
पातयित्वा_अपक्रामतो_अर्ध.दण्डः ॥

अशा-०३.१९.०८
शूद्रो येन_अङ्गेन ब्राह्मणम् अभिहन्यात् तद् अस्यच्_छेदयेत् ॥

अशा-०३.१९.०९
अवगूर्णे निष्क्रयः, स्पर्शे_अर्ध.दण्डः ॥

अशा-०३.१९.१०
तेन चण्डाल.अशुचयो व्याख्यातः ॥

अशा-०३.१९.११
हस्तेन_अवगूर्णे त्रि.पण.अवरो द्वादश.पण.परो दण्डः, पादेन द्वि.गुणः, दुःख.उत्पादनेन द्रव्येण पूर्वः साहस.दण्डः, प्राण.आबाधिकेन मध्यमः ॥

अशा-०३.१९.१२
काष्ठ.लोष्ट.पाषाण.लोह.दण्ड.रज्जु.द्रव्याणाम् अन्यतमेन दुःखम् अशोणितम् उत्पादयतश् चतुर्विंशति.पणो दण्डः, शोणित.उत्पादने द्वि.गुणः, अन्यत्र दुष्ट.शोणितात् ॥

अशा-०३.१९.१३
मृत.कल्पम् अशोणितं घ्नतो हस्त.पाद.पारञ्चिकं वा कुर्वतः पूर्वः साहस.दण्डः, पाणि.पाद.दन्त.भङ्गे कर्ण.नास.आच्छेदने व्रण.विदारणे च्च, अन्यत्र दुष्ट.व्रणेभ्यः ॥

अशा-०३.१९.१४
सक्थि.ग्रीव.आभञ्जने नेत्र.भेदने वा वाक्य.चेष्टा.भोजन.उपरोधेषु च मध्यमः साहस.दण्डः समुत्थान.व्ययश् च ॥

अशा-०३.१९.१५
विपत्तौ कण्टक.शोधनाय नीयेत ॥

अशा-०३.१९.१६
महा.जनस्य_एकं घ्नतः प्रत्येकं द्वि.गुणो दण्डः ॥

अशा-०३.१९.१७
"पर्युषितः कलहो_अनुप्रवेशो वा न_अभियोज्यः" इत्य् आचार्याः ॥

अशा-०३.१९.१८
न_अस्त्य् अपकारिणो मोक्ष इति कौटिल्यः ॥

अशा-०३.१९.१९
"कलहे पूर्व.आगतो जयति, अक्षममाणो हि प्रधावति" इत्य् आचार्याः ॥

अशा-०३.१९.२०
न_इति कौटिल्यः ॥

अशा-०३.१९.२१
पूर्वं पश्चाद् वा_अभिगतस्य साक्षिणः प्रमाणम्, असाक्षिके घातः कलह.उपलिङ्गनं वा ॥

अशा-०३.१९.२२
घात.अभियोगम् अप्रतिब्रुवतस् तद् अहर् एव पश्चात्.कारः ॥

अशा-०३.१९.२३
कलहे द्रव्यम् अपहरतो दश.पणो दण्डः, क्षुद्रक.द्रव्य.हिंसायां तच् च तावच् च दण्डः, स्थूलक.द्रव्य.हिंसायां तच् च द्वि.गुणश् च दण्डः, वस्त्र.आभरण.हिरण्य.सुवर्ण.भाण्ड.हिंसायां तच् च पूर्वश् च साहस.दण्डः ॥

अशा-०३.१९.२४
पर.कुड्यम् अभिघातेन क्षोभयतस् त्रि.पणो दण्डः, छेदन.भेदने षट्.पणः, प्रतीकारश् च ॥

अशा-०३.१९.२५
दुःख.उत्पादनं द्रव्यम् अन्य.वेश्मनि प्रक्षिपतो द्वादश.पणो दण्डः, प्राण.आबाधिकं पूर्वः साहस.दण्डः ॥

अशा-०३.१९.२६
क्षुद्र.पशूनां काष्ठ.आदिभिर् दुःख.उत्पादने पणो द्वि.गुणो वा दण्डः, शोणित.उत्पादने द्वि.गुणः ॥

अशा-०३.१९.२७
महा.पशूनाम् एतेष्व् एव स्थानेष्व् द्वि.गुणो दण्डः समुत्थान.व्ययश् च ॥

अशा-०३.१९.२८
पुर.उपवन.वनस्पतीनां पुष्प.फलच्.छायावतां प्ररोहच्.छेदने षट्.पणः, क्षुद्र.शाखाच्.छेदने द्वादश.पणः, पीन.शाखाच्.च्छेदने चतुर्.विंशति.पणः, स्कन्ध.वधे पूर्वः साहस.दण्डः, समुच्छित्तौ मध्यमः ॥

अशा-०३.१९.२९
पुष्प.फलच्.छायावद्.गुल्म.लतास्व् अर्ध.दण्डाः, पुण्य.स्थान.तपो.वन.श्मशान.द्रुमेषु च ॥

अशा-०३.१९.३०कख’’’
सीम.वृक्षेषु चैत्येषु द्रुमेष्व् आलक्षितेषु च ।


अशा-०३.१९.३०गघ’’’
त एव द्वि.गुणा दण्डाः कार्या राज.वनेषु च ॥

(ङम्ब्लिन्ग् अन्द् बेत्तिन्ग्) (ंिस्चेल्लनेओउस्)

अशा-०३.२०.०१
द्यूत.अध्यक्षो द्यूतम् एक.मुखं कारयेत् ॥

अशा-०३.२०.०२
अन्यत्र दीव्यतो द्वादश.पणो दण्डो गूढ.आजीवि.ज्ञापन.अर्थम् ॥

अशा-०३.२०.०३
"द्यूत.अभियोगे जेतुः पूर्वः साहस.दण्डः, पराजितस्य मध्यमः ॥

अशा-०३.२०.०४
बालिश.जातीयो ह्य् एष जेतु.कामः पराजयं न क्षमते" इत्य् आचार्याः ॥

अशा-०३.२०.०५
न_इत्य् कौटिल्यः ॥

अशा-०३.२०.०६
पराजितश् चेद् द्वि.गुण.दण्डः क्रियेत न कश्चन राजानम् अभिसरिष्यति ॥

अशा-०३.२०.०७
प्रायशो हि कितवाः कूट.देविनः ॥

अशा-०३.२०.०८
तेषाम् अध्यक्षाः शुद्धाः काकणीर् अक्षांश् च स्थापयेयुः ॥

अशा-०३.२०.०९
काकण्य्.अक्षाणाम् अन्य.उपधाने द्वादश.पणो दण्डः, कूट.कर्मणि पूर्वः साहस.दण्डो जित.प्रत्यादानम्, उपधौ स्तेय.दण्डश् च ॥

अशा-०३.२०.१०
जित.द्रव्याद् अध्यक्षः पञ्चकं शतम् आददीत, काकण्य्.अक्ष.अराला.शलाका.अवक्रयम् उदक.भूमि.कर्म.क्रयं च ॥

अशा-०३.२०.११
द्रव्याणाम् आधानं विक्रयं च कुर्यात् ॥

अशा-०३.२०.१२
अक्ष.भूमि.हस्त.दोषाणां च_अप्रतिषेधने द्वि.गुणो दण्डः ॥

अशा-०३.२०.१३
तेन समाह्वयो व्याख्यातः, अन्यत्र विद्या.शिल्प.समाह्वयात् । इति ॥

अशा-०३.२०.१४
प्रकीर्णकं तु - याचितक.अवक्रीतक.आहितक.निक्षेपकाणां यथा.देश.कालम् अदाने, यामच्.छाया.समुपवेश.संस्थितीनां वा देश.काल.अतिपातने, गुल्मतर.देयं ब्राह्मणं साधयतः, प्रतिवेश.अनुवेशयोर् उपरि निमन्त्रणे च द्वादश.पणो दण्डः ॥

अशा-०३.२०.१५
संदिष्टम् अर्थम् अप्रयच्छतो, भ्रातृ.भार्यां हस्तेन लङ्घयतो, रूप.आजीवाम् अन्य.उपरुद्धां गच्छतः, पर.वक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहम् उद्भिन्दतः, सामन्त.चत्वारिंशत्.कुल्य.आबाधाम् आचरतश् च_अष्ट.चत्वारिंशत्.पणो दण्डः ॥

अशा-०३.२०.१६
कुल.नीवी.ग्राहकस्य_अपव्ययने, विधवां छन्द.वासिनीं प्रसह्य_अधिचरतः, चण्डालस्य_आर्यां स्पृशतः, प्रत्यासन्नम् आपद्य् अनभिधावतो, निष्कारणम् अभिधावनं कुर्वतः, शाक्य.आजीवक.आदीन् वृषल.प्रव्रजितान् देव.पितृ.कार्येषु भोजयतः शत्यो दण्डः ॥

अशा-०३.२०.१७
शपथ.वाक्य.अनुयोगम् अनिषृष्टं कुर्वतः, युक्त.कर्म च_अयुक्तस्य, क्षुद्र.पशु.वृषाणां पुंस्त्व.उपघातिनः, दास्या गर्भम् औषधेन पातयतश् च पूर्वः साहस.दण्डः ॥

अशा-०३.२०.१८
पिता.पुत्रयोर् दम्पत्योर् भ्रातृ.भगिन्योर् मातुल.भगिनेययोः शिष्य.आचार्ययोर् वा परस्परम् अपतितं त्यजतः, सार्थ.आभिप्रयातं ग्राम.मध्ये वा त्यजतः पूर्वः साहस.दण्डः, कान्तारे मध्यमः, तन्.निमित्तं भ्रेषयत उत्तमः, सह.प्रस्थायिष्व् अन्येष्व् अर्ध.दण्डाः ॥

अशा-०३.२०.१९
पुरुषम् अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो, बालम् अप्राप्त.व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ॥

अशा-०३.२०.२०
पुरुष.अपराध.विशेषेण दण्ड.विशेषः कार्यः ॥

अशा-०३.२०.२१
तीर्थ.करस् तपस्वी व्याधितः क्षुत्.पिपासा.अध्व.क्लान्तस् तिरो.जन.पदो दण्ड.खेदी निष्किंचनश् च_अनुग्राह्याः ॥

अशा-०३.२०.२२
देव.ब्राह्मण.तपस्वि.स्त्री.बाल.वृद्ध.व्याधितानाम् अनाथानाम् अनभिसरतां धर्मस्थाः कार्याणि कुर्युः, न च देश.काल.भोगच्.छलेन_अतिहरेयुः ॥

अशा-०३.२०.२३
पूज्या विद्या.बुद्धि.पौरुष.अभिजन.कर्म.अतिशयतश् च पुरुषाः ॥

अशा-०३.२०.२४कख’’’
एवं कार्याणि धर्मस्थाः कुर्युर् अच्छल.दर्शिनः ।


अशा-०३.२०.२४गघ’’’
समाः सर्वेषु भावेषु विश्वास्या लोक.सम्प्रियाः ॥