मूलम्
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं।
दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान्।।
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः।
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्।। ११।।

पदच्छेदः-
अयत्नाद् आपाद्य त्रिभुवनम् अवैर-व्यतिकरं।दशास्यः यद् बाहून् अभृत रणकण्डू-परवशान्।।
शिरःपद्मश्रेणी-रचित-चरण-अम्भोरुह-बलेः।स्थिरायाः त्वद्भक्तेः त्रिपुरहर विस्फूर्जितम् इदम्।। ११।।

अन्वयः-
हे त्रिपुरहर, दशास्यः अवैर-व्यतिकरं त्रिभुवनम् अयत्नाद् आपाद्य रणकण्डू-परवशान् बाहून् यद् अभृत, (तत्) शिरःपद्मश्रेणी-रचित-चरण-अम्भोरुह-बलेः स्थिरायाः त्वद्भक्तेः इदं विस्फूर्जितम् ।। ११

सरलार्थः-
हे त्रिपुरहर, रावणः त्रिभुवनस्य आधिपत्यं प्राप्तवान्।तत्र कस्य अपि वैरिणः विघ्नः न आसीत।तेन तस्य बाहूनां रणकण्डूः नैव उपशान्ता।यद् एतद् रावणस्य यशः, तत् तव भक्तेः फलम्।पूजाकाले सः स्वस्य शिरांसि तव पादपद्मे बलिरूपेण अर्पितवान्।तस्याः दृढभक्तेः फलं नाम रावणस्य एतद् यशः॥ ।११

शिवस्तोत्राणिशिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=अयत्नादापाद्य...&oldid=6166" इत्यस्माद् प्रतिप्राप्तम्