॥अम्ल-रसः॥

पाञ्चभौतिकत्वम्

सम्पाद्यताम्

जगति प्रत्येकं द्रव्यं पञ्चभिः महाभूतैः निर्मितम्। तया अम्लरसात्मक द्रव्याणि अपि पाञ्चभौतिकानि सन्ति । तत्रापि पृथ्वी तथा तेजः इति एतयोः आधिक्यम् अम्लद्रव्ये भवति। तेन पृथिव्याः गुरुत्वं तथा अग्नेः वैशद्यम् अम्लद्रव्ये अवतीर्णम्।
=रसपरिचयः= -
अम्लद्रव्यं यस्मिन् क्षणे मुखे स्थापयामः तस्मिन् क्षणे नेत्रयोः आकुञ्चनं भवति, भ्रुवोः आकुञ्चनं भवति। मुखे स्वच्छतायाः प्रतीतिः भवति।
=अम्लरसस्य विपाकः=
रसस्य पचने पूर्णे सति रसे क्वचित् परिवर्तनं भवति। अयं परिवर्तितः रसः ’विपाकः’ इति उच्यते। अम्लरसस्य पचनानन्तरं विपाकः अम्लस्वरूपः एव भवति।

=अम्लरसस्य वीर्यम् =
षण्णाम् अपि रसानां शीतोष्णवीर्ययोः विभजनं सम्भवति। एवं विभजनं कृतं चेद् अम्लरसः उष्णवीर्ये समाविष्टः भवति।
=शरीरे कार्याणि= –
अम्लरसः वातं शमयति, पित्तं कफं च कोपयति। सः अग्निं दीपयति, कोष्ठे समानः इति वातप्रकारः अस्ति। सः अग्निं दीपयति। यदा समानः विकृतः भवति तदा अग्निमांद्यं जायते। अम्लरसः समानं समीकरोति। अन्नस्य पचनार्थं तस्य जर्जरीकरणम् आवश्यकं भवति। जर्जरीकरणं नाम अन्नपिण्डस्य लघुषु कणेषु विभजनम्। एतत् कार्यम् अम्लरसः उत्तमं करोति। अन्नपचनोत्तरं रसः तथा मलः इति विभजनं भवति। मलस्य विसर्जनकार्ये अपि अम्लरसस्य साहाय्यं भवति। मलमूत्रविसर्जनं शरीरस्थः अपानवायुः करोति। अम्लरसेन सः अनुलोमः भवति। तेन मलमूत्रविसर्जनम् अक्लेशेन जायते।अन्नवहस्त्रोतसि वातः अतिमात्रया सञ्चितः भवति चेत् आन्त्रेषु रुक्षता वर्धते। तेन मलगतद्र्वस्य शोषणं भवति। मलस्य ग्रन्थयः अग्रे न सरन्ति; ततः मलविबन्धः उत्पद्यते। अस्यां दशायाम् अम्लरसः उपकारकः। सः स्निग्धः। अतः आन्त्रगतं रौक्ष्यं न्यूनीकरोति। सः क्लेदनः। अतः रूक्षं ग्रन्थिलं मलं क्लिन्नं करोति। यदा मलः क्लिन्नः भवति तदा अग्रे सरति; बहिः प्रवर्तते च।अन्नवहस्त्रोतसि वातः सञ्चीयते चेत् उदरशूलः जायते। तदा अम्लरसः भक्षितः चेत् उदरशूलः शाम्यति। अम्लरसः अग्निं दीपयाति। सः रक्तवर्धकः अपि अस्ति। अतः एव रक्ते क्षीणे सति अम्लरसस्य इच्छा जायते। अम्लरसः मांसं विदहति तथा शुक्रं क्षपयति। तृष्णाशमनार्थम् अम्लरसः प्रयोक्तव्यः। अरोचकः येषाम् अस्ति तेषां किमपि अन्नं न स्वदते। तेषां रूचिं जनयितुम् अम्लरसः दीयते। ’वातानुलोमनम्’ इति अम्लरसस्य मुख्यं कार्यम्। शरीरे विद्यमानः वातदोषः सदैव चलः अस्ति। सः चल एव भवितुम् अर्हति। येन मार्गेण सः भ्रमति सः सङ्कुचितः भवति चेत् वातस्य गतिः अवरुद्धा भवति । येन मार्गेण वातः भ्रमति , तस्मिन् कफादेः अवरोधः भवति । चेदपि वातस्य गतिः अवरुद्धा भवति । परं वायुः स्वभावतः चलः ।सः मार्गान्तरम् अन्विष्यति । एवं स्वमार्गं त्यक्त्वा मार्गान्तरं प्रविष्टः वायुः नाम प्रतिलोमः वायुः । एतादॄशः विकॄतः वायुः नैकान् रोगान् कुरुते । एतस्य पुनः स्वमार्गं प्रति नयनं नाम वातानुलोमनम् । एतत् कार्यम् अम्लरसः साधु सम्पादयति । यथा वातः देहे सर्वत्र भ्रमति तथा रसधातुः अपि देहे सर्वत्र संचरति । तस्य मार्गे विद्यमानम् अवरोधम् अपि अम्लरसः दूरीकरोति ।अम्लरसः ’हृद्यः’ अस्ति। हृद्यः नाम हृदयाय हितः। अम्लरसः रसवहस्रोतोगतम् अवरोधं नाशयति। तेन हृदयं प्रति रसपूरणम् अव्याहतं भवति। हृदयस्य निरन्तरं सङ्कोचविकासकार्यं त्रयः वायवः नियमयन्ति-प्राणः, उदानः तथा व्यानः। एते त्रयः अपि वातभेदाः अम्लरसेन अनुलोमाः भवन्ति। तेन हृदयस्य कार्यं निराबाधं प्रवर्तते। अतः अम्लरसः हृदयाय हितः इति उच्यते।
=अतियोगस्य परिणामाः=-
अतिमात्रया सेवितः अम्लरसः पित्तं वर्धयति, कफं च वर्धयति। मात्रया भक्षितः अम्लरसः रक्तं वर्धयति। स एव अतिमात्रया भक्षितः चेत् रक्तं दूषयति। ततः रक्तविकाराः जायन्ते। अत्यम्लभक्षणेन कफपित्तयोः द्रवता वर्धते। द्रवीभूतेन कफेन सर्वत्र शैथिल्यं जायते । द्रवीभूतेन पित्तेन त्वचि कण्डूः जायते, विस्फोटाः जायन्ते। अम्लरसस्य अतियोगेन पित्तस्य द्रवता, उष्णता तथा तीक्ष्णता वर्धते। तेन रक्तवाहिनीनां भित्तयः तनवः भवन्ति। क्वचित् तासां भेदः भवति। ततः रक्तस्रावः जायते। अयं व्याधिः ’रक्तपित्तम्’ इति उच्यते। विसर्पः, शोथः, विस्फोटः इति एते रक्तदुष्टिजन्याः रोगाः अम्लरसस्य अतियोगात् सम्भवन्ति। अम्लरसस्य मितसेवनेन तृष्णा शाम्यति परम् अतिसेवनेन तृष्णा प्रवर्धते। विदाहः भवति। भ्रमः जायते। तिमिरदर्शनं मुहुर्मुहुः भवति। नेत्रविकाराः उत्पद्यन्ते। अम्लातियोगः शुक्रधातुं नाशयति, ओजो नाशयति। तेन देहस्य तुष्टिः, पुष्टिः बलम्, उत्साहः इति एतत्सर्वं ह्रसति। वार्धक्यं शीघ्रं भवति। अतः ’अत्यम्लं जरा साक्षात्’ इति वर्ण्यते।
=अम्लद्रव्याणि=-
आमलकम्, अम्लीका, चिञ्चा, मातुलुङ्गम्, अम्लवेतसः, दाडिमम्, चाङ्गेरी, तक्रं, दधि, आमाम्रं, नारङ्गं, निम्बूकं, जम्बीरः, रक्तवार्ताकी, करमर्दः, आम्रातकम्, कपित्थम् इति अस्माकं परिचितानि अम्लद्रव्याणि।
=अम्लरसापवादः= -
अम्लरसः पित्तजनकः इति नियमः। तथापि दाडिमफलं तथा आमलकफलम् इति द्वे द्रव्ये अम्ले स्तः, तथापि पित्तं न वर्धयतः। अतः एते द्वे अम्लरसस्यापवादभूते द्रव्ये।पित्तरोगेषु अपि एते पथ्यरूपेण उपयुज्येते।
=अम्लरसः तथा ऋतवः =-
’नित्यं सर्वरसाभ्यासः’ इति सामान्यः नियमः। सर्वेषु ऋतुषु सर्वे रसाः भक्षणीयाः इति तस्य अर्थः। तथापि तेषां तारतम्यम् अपेक्षितम्। हेमन्ते शिशिरे तथा वर्षासु अम्लरसः अधिकं सेवनीयः। अन्येषु ऋतुषु तस्य मात्रा न्यूना एव भवेत्। अम्लरसः स्निग्धः च उष्णः च। शिशिरवसन्तवर्षासु शरीरम् एतादृशानि द्रव्याणि अपेक्षते। वर्षासु अग्निः मन्दः भवति, उदरे वातसञ्चयः भवति। तदा अम्लरसस्य आवश्यकता विद्यते। अम्लरसः अग्निं दीपयति, उदरे सञ्चितं वातं बहिः निःसारयति च।


 षड्रसविज्ञानम् 
"https://sa.wikibooks.org/w/index.php?title=अम्लरसविज्ञानम्&oldid=6231" इत्यस्माद् प्रतिप्राप्तम्