मूलम्
अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं।
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः।।
अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि।
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः।। १२।।

पदच्छेदः-
अमुष्य त्वत्सेवा-समधिगत-सारं भुजवनं।बलात् कैलासे अपि त्वद्-अधिवसतौ विक्रमयतः।।
अलभ्या पाताले अपि अलस-चलिता-अङ्गुष्ठशिरसि।प्रतिष्ठा त्वयि आसीद् ध्रुवम् उपचितो मुह्यति खलः

अन्वयः
त्वत्सेवा-समधिगत-सारं भुजवनं त्वद्-अधिवसतौ कैलासे अपि बलात् विक्रमयतः अमुष्य (रावणस्य) त्वयि अलस-चलिता-अङ्गुष्ठशिरसि (सति) पाताले अपि प्रतिष्ठा अलभ्या आसीद्। उपचितो खलः मुह्यति ध्रुवम्।।। १२।।

सरलार्थः-
तव सेवया रावणेन बलं प्राप्तम्।परं तेन बलेन युक्ताः दश भुजाः तव निवासस्थाने कैलासे एव प्रयोजिता:।सः बाहुबलेन कैलासम् उत्थापयितुम् आरब्धवान्।तदा त्वया अलसतया पादाङ्गुष्ठस्य अग्रं कैलासे निपीडितम्।तेन कैलासम् उद्धर्तुकामः रावणः एतावद् अधोगतिं प्राप्तः यत् सः पाताले अपि स्थानं न लब्धवान् खलः उपचितः भवति तदा मुह्यति एव॥१२

शिवस्तोत्राणि     शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=अमुष्य_त्वत्सेवा-...&oldid=6167" इत्यस्माद् प्रतिप्राप्तम्