शुगस्य ...।१.३.३४

पू.- ब्रह्मविद्यासु शूद्रस्याधिकारोऽस्ति-
१ अर्थित्वसामर्थ्ययो: सम्भवात्
२ ‘शूद्रो विद्यायामनवकॢप्त:’ इति निषेधाश्रवणात्।
४ अनग्नित्वं ब्रह्मविद्याध्ययने बाधकं नास्ति।
५ ब्रह्मविद्यायां शूद्राधिकारस्य उपोद्बलकं लिङ्गं विद्यते- जानश्रुतिं शुश्रूषुं ‘शूद्र’ इति शब्देन परामृशति।
६ स्मर्यन्ते च विदुरादय: शूद्रा अपि विद्यासमपन्ना:।
वे.- न ब्रह्मविद्यासु शूद्रस्याधिकार:।
१ वेदाध्ययनाभावात्।वर्णत्रयस्यैवोपनयनं क्रियते।शूद्रस्य उपनयनाभावाद्वेदाध्ययनाभाव:।तत: वेदार्थेऽप्यनधिकार:।
२ सामर्थ्यविरहितस्य अर्थित्वमात्रेण अधिकारो न भवति।सामर्थ्यमपि न लौकिकमात्रमधिकारकारणम्।शास्त्रीयेऽर्थे शास्त्रीयं सामर्थ्यमपेक्षितम्।तत्तु वेदाध्ययनाभावान्नास्तीति उक्तम्।
३ शूद्रो यज्ञेऽनवकॢप्त: (तैत्ति.सं.७.१.१.६) इत्यत्र अध्ययनविधिलभ्यस्य अधिकारस्य अभाव: कारणम्।तेनैव कारणेन स: विद्यायामनवकॣपत:, साक्षाद्वचनाभावेऽपि।
४ संवर्गविद्यायां जानश्रुतिं प्रति शूद्र इति सम्बोधनं कृतम्। तदपि अत्र लिङ्गं भवितुं नार्हति, न्यायविरोधात्।
५ अत्रत्य: शूद्रशब्द: योजयितुमपि शक्यते,यथा
अ हंसवचनं श्रुत्वा जानश्रुते: शुगुत्पन्ना (शुक् =शोक:)।सैवात्र रैक्वमुनिना शूद्रेति सम्बोधनेन सूचिता, स्वस्य परोक्षज्ञतापि ख्यापिता। शुचमभिदुद्राव शुचं प्राप्तवान्
शुचा अभिदुद्रुवे शुचा कर्त्र्या जानश्रुति: प्राप्त:
शुचा रैक्वं दुद्राव शुचा रैक्वं प्रति गतवान्।
अवयवार्थ: शुचाभिदुद्रावेत्यादि:।रूढ्यर्थ: जातिशूद्र:। अत्र रूढ्यर्थस्य असम्भव:, अवयवार्थस्य च सम्भव:।
पू.- कथम्?

क्षत्रियत्वगतेश्चोत्तरत्र।१.३.३५
संस्कारपरा ।१.३.३६
तदभावनिर्धारणे च प्रवृत्ते:।१.३.३७

वे.- ब्रह्मविद्यायां शूद्रस्याधिकारो नास्ति यतो हि सत्यवचनेन शूद्रत्वाभावे निर्धारिते सति एव जाबालं गौतम: उपनेतुमनुशासितुं च प्रववृते।

श्रवणाध्ययनप्रतिषेधात् स्मृतेश्च।१.३.३८

वे.- ब्रह्मविद्यायां शूद्रस्याधिकारो नास्ति।तस्य श्रवणाध्ययनप्रतिषेध: श्रुतावुक्त:।तेनार्थाद् अर्थज्ञान-अनुष्ठानयोरपि प्रतिषेधो भवति।
विदुरधर्मव्याधादय: सिद्धा:।तेषां पूर्वसंस्कारवशाज् ज्ञानोत्पत्ति:।तेषां फलप्राप्ति: प्रतिषेद्धुं न शक्यते। ‘श्रावयेच्चतुरो वर्णान्’ इति इतिहासपुराणाधिगमे चतुर्णां वर्णानामधिकारोऽस्त्येव।वेदपूर्वकोऽधिकार: शूद्रस्य नास्ति।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   प्रथमाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=अपशूद्राधिकरणम्&oldid=5520" इत्यस्माद् प्रतिप्राप्तम्