अन्याधिष्ठिताधिकरणम्
अन्याधिष्ठितेषु पूर्ववदभिलापात्।३.१.२४
अशुद्धमिति चेत् न शब्दात्।३.१.२५
रेत:सिग्योगोऽथ।३.१.२६
योने: शरीरम्।३.१.२७
विषय:- अस्मिन् अवरोहे प्रवर्षणानन्तरं वचनमिदम्- त इह व्रीहियवा ओषधिवनस्पतितिलमाषा इति जायन्ते।(छा.५.१०.६)
विशय:- किम् अस्मिन् अवधौ अनुशयिन: स्थावरजात्यापन्ना: स्थावरसुखदु:खभाजो भवन्ति अथवा स्थावरशरीरेषु संश्लेषमात्रं गच्छन्ति?
पू.- अनुशयिन: स्थावरजातिमापन्ना: स्थावरसुखदु:खभाजो भवन्ति, जायन्ते इति वचनात्। श्रुतौ स्मृतौ अपि स्थावरभावस्य उपभोगस्थानत्वेन व्यपदेशोऽस्ति।तस्मात् जायते इत्यस्य मुख्य: एव अर्थ: ग्राह्य:।यथा अनुशयिनां श्वादिजन्म तथा इदं स्थावरादिजन्म।
वे.-अन्यै: जीवै: पूर्वमेव अधिष्ठिता: स्थावरादय:।तत्र अनुशयिन: संसर्गमात्रं प्रतिपद्यन्ते।न तत्सुखदु:खभाज: भवन्ति, पूर्ववत्।यथा पूर्वं वायुधूमादिभावेषु अनुशायिनां संश्लेषमात्रम् आसीत्, तथा व्रीह्यादिभावेऽपि संश्लेषमात्रं विद्यते।
पू.- किमत्र प्रमाणम्?
वे.- तत्र यथा अभिलाप: आसीत् तथैव इहापि अभिलापो विद्यते।अत: व्रीह्यादिभावेऽपि अनुशायिनां संश्लेषमात्रम्।अभिलाप: सङ्कीर्तनम्।यथाकाशादिषु प्रवर्षणान्तेषु कर्मव्यापारं विनैव आकाशादिभावस्य सङ्कीर्तनं कृतं, तद्वद् इहापि कमपि कर्मव्यापारं विना व्रीह्यादिभावस्य अभिलापोऽस्ति।तस्मान्नात्र सुखदु:खभाक्त्वम् अनुशायिनाम्।
यत्र सुखदु:खभाक्त्वमभिप्रेतं तत्र कर्मव्यापारस्य परामर्शोऽस्ति।यथा रमणीयचरणा: कपूयचरणा: इति।
तृतीयाध्याये प्रथम: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्