अन्तराविज्ञानाधिकरणम्

विपर्ययेण तु क्रमोऽत उपपद्यते च।२.३.१४
पू.-भूतानाम् उत्पत्ति: येन क्रमेण जाता, तेन एव क्रमेण अप्यय: अथवा तद्विपर्ययेण अथवा अनियमेन इति सन्देहे प्राप्ते, अप्यय: इति न्याय्यम्, अविशेषात्।अथवा उत्पत्तिक्रमानुसारम् एव अप्यय: न्याय्य:, तस्य क्रमस्य श्रुतत्वात्।
वे.- अत: उत्पत्तिक्रमाद् विपर्ययेण प्रलयक्रम: भवितुम् अर्हति।न हि स्वकारणम् उल्लङ्घ्य कारणस्य कारणे लय: न्याय्य:।स्मृतिरपि अत्र प्रमाणम्- जगतप्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते।ज्योतिष्वाप: प्रलीयन्ते ज्योतिर्वायौ प्रलीयते इति।
पू.-ननु उत्पत्तौ श्रुत: क्रम: किमर्थं नाद्रियते?
वे.-उत्पत्तिक्रमस्य उत्पत्तौ एव श्रुतत्वात् अप्यये स: भवितुं नार्हति।न च उत्पत्तिक्रमेण अप्यय: योग्यतामावहति।न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्त:।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्  द्वितीयाध्याये तृतीय: पाद: