अनुयास्यन् .....प्रतिनिवृत्तः ॥१.२९॥
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः। स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥१.२९॥
पदच्छेदः-
अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः
स्थानाद् अनुच्चलन् अपि गत्वा इव पुनः प्रतिनिवृत्तः ॥१.२९॥
अन्वयः-
मुनितनयाम् अनुयास्यन्, सहसा विनयेन वारितप्रसरः(अहं)
स्थानाद् अनुच्चलन् अपि गत्वा इव पुनः प्रतिनिवृत्तः ॥१.२९॥
सन्दर्भः-
सरलार्थः-
मुनिकन्याम् अनु गन्तुकामः अहम्।तथापि अकस्मात् विनयेन मम गमनं निवारितम्।तेन स्थानाद् अहं न विचलितः, परं गत्वा निवर्तितः इति भावयामि।१.२९
वृत्तम् –
आर्या
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले आर्या-वृत्तनिबद्धानि पद्यानि भव हृदय .....रत्नम् ॥१.२८॥ स्रस्तांसौ .....मूर्धजाः ॥१.३०॥