अनिष्टादिकार्यधिकरणम्

अनिष्टादिकारिणामपि च श्रुतम्।३.१.१२

विषय:- ये वै के चास्माल्लोकात् प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति।(कौषी.१.२)

विशय:-इष्टादिकारिणां चन्द्रमसं प्रति गति: ज्ञाता।अनिष्टकारिणोऽपि चन्द्रमसं प्रयन्ति वा?न वा?

पूर्वपक्ष:- अनिष्टकारिणोऽपि चन्द्रमसं गच्छन्ति।चन्द्रप्राप्तिं विना देहान्तरारम्भ: न शक्य:।यत: ‘पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति’ इति सङ्ख्या नियता अस्ति।चन्द्रप्राप्तिं विना सा सङ्ख्या न पूर्यते।अत: सर्वे इष्टादिकारिण:, इतरेऽपि च चन्द्रमसं यान्ति।
वेदान्ती- इष्टादिकारिणाम् अन्येषां च समानगतित्वं न न्याय्यम्।
पू.- इष्टादिकारिणां चन्द्रमण्डले भोग: भवति,नेतरेषाम् इत्यनया व्यवस्थया इदमुपपद्यते।

संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात्।३.१.१३
वे.- तुशब्द: पक्षव्यावर्तनपर:।सर्वे चन्द्रमसं न गच्छन्तीत्यर्थ:।इष्टादिकारिणो गच्छन्ति। अनिष्टादिकारिणो न गच्छन्ति, निष्प्रयोजनत्वात्।भोगायैव चन्द्रमण्डलारोहणम्।भोग: नास्ति चेदारोहणं वृथा।
पू.- न तद् वृथा।प्रत्यवरोहणाय आरोहणं कल्प्यते।
वे.- न तदुचितम्।कश्चिद्यदि वृक्षमारोहति, तर्हि फलादानाय अरोहति, न तु पतनाय।अत: भोगाभावात् अनिष्टकारिण: चन्द्रमसं न गच्छन्ति।
पू- तर्हि ते क्व गच्छन्ति?
वे.-ते तु संयमनं गत्वा तत्र स्वस्य दुष्कृतानुसारं यमदत्ता: यातना: अनुभूय पुन: इमं लोकमवरोहन्ति।एवमेव तेषाम् अरोहावरोहौ भवत:।
पू.- किमत्र प्रमाणम्?
वे.- यमवचने तद्गतिदर्शम्।यमो ब्रूते,-
न सांपराय: प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्।अयं लोको नास्ति पर इति मानी पुन: पुनर्वशमापद्यते मे॥(कठो.२.६)
अपरमपि विद्यते प्रमाणवचनम्- ‘वैवस्वतं सङ्गमनं जनानाम्।’
अत: अनिष्टादिकारिण: चन्द्रमसं न गच्छन्ति।

स्मरन्ति च।३.१.१४
वे.- अनिष्टादिकारिणां संयमने दुष्कर्मविपाक: भवतीति स्मरन्ति मनुव्यासप्रभृतय: शिष्टा:। अतोऽपि अनिष्टकारिणां चन्द्रं प्रति गति: न भवतीति सिद्ध्यति।

अपि च सप्त।३.१.१५
वे.- अपि सप्त रौरवाद्या: नरका: पुराणेषु स्मर्यन्ते।अत: अनिष्टकारिणां चन्द्रगति: न भवति।
पू.- विरुद्धमिदमुच्यते यत्पापिन: यमायत्ता: सन्त: यातना: अनुभवन्तीति।यतो हि यमालये चित्रगुप्तादय: नाना अधिष्ठातार: सन्ति।

तत्रापि च तद्व्यापारादविरोध:।३.१.१६
वे.- तत्र सप्तसु नरकेषु अपि तस्य यमस्य अधिष्ठातृत्वव्यापार: अस्ति।यमप्रयुक्ता: एव चित्रगुप्तादय: अधिष्ठातार: स्मर्यन्ते अत: अविरोध:।

विद्याकर्मणोरिति तु प्रकृतत्वात्।३.१.१७
वे.- छान्दोग्ये(५.३.३) ‘असौ लोको जीवै: कथं न सम्पूर्यते?’ इत्यस्य प्रश्नस्योत्तरं दत्तम्।उत्तरे द्वौ मार्गौ प्रतिपादितौ- देवयान: पितृयाण: च।अग्रे उक्तम्, ‘अथैतयो: पथो: न कतरेणचन तानीमानि क्षुद्राणि असकृदावर्तीनि भूतानि भवन्ति।जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न पूर्यते।(छा. ५.१०.८) अस्यायमर्थ:-देवयाने पथि अधिकृता: तेषामेव क्षुद्रजन्तुलक्षण: असकृदावर्ती तृतीय: पन्था: भवति।एवमत्र ‘कतरेणचन’ इत्यत्र विद्याकर्मणो: प्रकृतत्वम्।एतस्माद्वचनादपि सिद्धं यत् अनिष्टकारिण: चन्द्रं न प्राप्नुवन्ति।
पू.- ‘अथैतयो: पथो: ...’ (छा.५.१०.८) इत्यत्र देवयानपितृयाणपथौ एव विवक्षितौ इत्यत्र किं प्रमाणम्?
वे.-
१ ‘तद्य य इत्थं विदु:’(छा.५.१०.१)इति विद्या।तया प्राप्तव्य: स: देवयान: पन्था:।
२ ‘इष्टापूर्ते दत्तम् (छा.५.१०.३)’ इति कर्म। तेन प्राप्तव्य: स: पितृयाण: पन्था:।
पू.- भवतु एतत्।तथापि अनिष्टकारिण: चन्द्रबिम्बं नारोहन्ति इति एतेन कथं सिद्धं भवति? तेऽपि चन्द्रबिम्बमारुह्य ततोऽवरुह्य क्षुद्रजन्तुत्वं प्राप्नुवन्तीति मन्यामहे।
वे.- अनया कल्पनया-
१ तेषामारोहणं निरर्थकम्।अयं दोष: पूर्वं दर्शित:।
२प्रश्नविरुद्धप्रतिवचनस्य अपर: अपि दोष: आपतति।
पू.- स: कथम्?
वे.- ‘असौ लोक: कथं न सम्पूर्यते?’ इति प्रश्न: पृष्ट:।तस्योत्तरवचनमेतत्।अनिष्टकारिणोऽपि चन्द्रलोकं प्राप्नुवन्ति इति वचनेन प्रश्नविरुद्धमुत्तरं भवि।अत्र तथैवोत्तरमभिप्रेतं यथा असौ चन्द्रलोक: न सम्पूर्यते इति।
पू.- तेऽनिष्टकारिण: अवरोहन्ति अपि।अत: चन्द्रलोक: न सम्पूर्यते।
वे.- नैतद् युक्तियुक्तमुत्तरं यतो हि -
१ इष्टादिकारिण: अपि अवरोहन्ति एव।अवरोहणमात्रेण सम्पूरणाभाव: वक्तव्य: चेत् तृतीयस्थानोक्ति: अनर्थिका भवति।
२ ‘अनिष्टकारिण: अवरोहन्ति अत: असौ लोको न पूर्यते’ इति प्रतिवचनं न श्रूयते।श्रुतिस्तु तृतीयस्थानस्य प्रतिपादनेन असंपूरणं वक्ति।
पू.- ‘ये वै के चास्माल्लोकात्प्रयन्ति, चन्द्रमसमेव ते गच्छन्ति’ (कौषी. १.२) इत्यस्य वचनस्य का गति:?अत्र तु सर्वेषामेव चन्द्रगमनमुक्तम्।
वे.- एतां शङ्कां निराकर्तुं सूत्रे तु शब्द:।ये वै के...इति वचने सर्वशब्द: ‘अधिकृता: सर्वे’ इत्यनेन अर्थेन ग्राह्य:।ये वै केचिदधिकृता: अस्माल्लोकात्प्रयन्ति, चन्द्रमसमेव ते गच्छन्तीत्यर्थ:।एतेन सुसङ्गतिर्भवति।

न तृतीये तथोपलब्धे:।३.१.१८
पू.-पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति आहुतिसङ्ख्यानियम: श्रूयते।अनिष्टकारिण: चन्द्रमसं गच्छन्ति चेदेव अयं नियम: उपपद्यते।
वे.-अयं नियम: तृतीये स्थाने नादर्तव्य:।
पू.- किमर्थम्?
वे.-तथा उपलभ्यते अत:।तथा इति आहुतिसङ्ख्यानियमं विना वर्णितेन प्रकारेण। तृतीयस्थानप्राप्ति: उपलभ्यते- ‘जायस्व म्रियस्वेति एतत् तृतीयं स्थानम्।(छा.५.१०.८)अपि च पञ्चम्यामाहुतौ इत्यत्र मनुष्यशरीरहेतुत्वेन आहुतिसङ्ख्या सङ्कीर्त्यते।अनिष्टकारिण: कीटपतङ्गादिशरीरं प्राप्नुवन्ति।अत: तत्र आहुतिनियमो नादरणीय:।
पू.- मनुष्यशरीरहेतु: पञ्च आहुतय: नान्यशरीरस्य इत्यत्र किं प्रमाणम्?
वे.-
१ पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति वचनम्। तत्र पुरुषशब्द: मनुष्यजातौ प्रसिद्ध:।
२ अपि च पञ्चम्यामाहुतौ पुरुषवचस्त्वम् उच्यते, न तु पञ्चमाहुत्या: अभावे पुरुषवचस्त्वं प्रतिषिद्ध्यते, द्व्यर्थतादोषप्रसङ्गात्।
अत: एवं मन्तव्यम्-
१ येषामरोहावरोहौ सम्भवत:, तेषां पञ्चम्यामाहुतौ देह: उद्भवति।
२ अन्येषां विनैवाहुतिसङ्ख्यया भूतान्तरोपसृष्टाभि: अद्भि: देह: आरभ्यते।

स्मर्यतेऽपि च लोके।३.१.१९
वे.- अपि च लोके द्रोणधृष्टद्युम्नसीताद्रौपदीप्रभृतीनाम् अयोनित्वं श्रूयते।तत्र आहुतिसङ्ख्यानियमस्य अनादर: भवति।यथा द्रोणजन्मनि योषिद्विषया एका आहुति: नास्ति।धृष्टद्युम्नद्रौपद्यो: यज्ञजत्वात् योषित्पुरुषविषये द्वे आहुत्यौ न स्त:।एवम् आहुतिसङ्ख्यानियमस्य अनादर: अन्यत्रापि शक्य:।

दर्शनाच्च।३.१.२०
वे.- चतुर्विधो भूतग्राम: जरायुज: अण्डज: स्वेदज: उद्भिज्ज: इति।तेषु स्वेदजोद्भिज्जां योषित्पुरुषसम्बन्धं विनैव उत्पत्ति: भवतीति दृश्यते।अस्माद् दर्शनात् च आहुतिसङ्ख्याया: अनादर: अन्यत्र शक्य:।
पू.- भूतग्राम: चतुर्विध: इति कथमुच्यते?यतो हि श्रुत्या त्रिविध: भूतग्राम: प्रतिपादित:-
‘तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवजम् उद्भिज्जम्।(छा.६.३.१)

तृतीयशब्दावरोध: संशोकजस्य।३.१.२१
वे.- आण्डजं जीवजम् उद्भिज्जम् इत्यत्र उद्भिज्जम् इति तृतीयशब्देन चतुर्थस्य स्वेदजस्य उपसङ्ग्रह: कृत:।स्वेदजा: अपि तोयमुद्भिद्य जायन्ते अत: उद्भेदसाम्यमादाय तेषामुद्भिज्जे अवरोध: कृत:।
स्थावरोद्भेदाद् विलक्षणो जङ्गमोद्भेद: इति स्वेदजोद्भिज्जयो: अन्यत्र पृथक् गणना भवति इति अविरोध:।

तृतीयाध्याये प्रथम: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्