अथ शब्दानुशासनम् इत्यस्य विवेचनं कुरुत ।

अथ शब्दानुशासनम् इत्यस्य विवेचनं कुरुत

पतञ्जलिना रचितस्य व्याकरणमहाभाष्यस्य एतत् प्रथमं सूत्रम्।
अथशब्दः अधिकारार्थकः।अस्य शब्दस्य अभावे ‘शब्दानुशासनम्’ इति एव सूत्रं स्यात्। तथा च श्रोतॄणां मनसि सन्देहो जायते किं शब्दानुशासनम् आरभ्यते वा न वा इति।अथ इति शब्देन एतादृशानां सन्देहानाम् अवसरो न भवति।शब्दानुशासनम् आरभ्यते इति निश्चयः भवति।

शब्दानान् अनुशासनं शब्दानुशासनम्।अत्र वैदिकाः लौकिकाः च शब्दाः अनुशास्यन्ते। वैदिकाः शब्दाः यथा ‘शं नो देवीरभिष्टये’।लौकिकाः शब्दाः यथा ‘गौः अश्वः’ ।
अनुशासनं नाम संस्कारः। प्रकृतिप्रत्ययकल्पनापुरःसरः संस्कारः अस्य शास्त्रस्य प्रयोजनम्।
अस्मिन् सूत्रे आक्षेपः एवम् –
शब्दानुशासनम् इति असाधुः समासः।शब्दानाम् अनुशासनम् इति अर्थः विवक्षितः।अत्र शब्दानाम् इति षष्ठी।उभयप्राप्तौ कर्मणि।(अष्टा.२.३.६६)
इति सूत्रेण एषा षष्ठी प्राप्ता।परम् अस्याः षष्ठेः समासनिषेधः उक्तः -
‘कर्मणि च’(अष्टा.२.२.१४) इति सूत्रेण।कथं तर्हि शब्दानुशासनम् इति समासः अत्र कृतः?

समाधानम् १
‘उभयप्राप्तौ कर्मणि’ इति सूत्रेण एषा षष्ठी नैव कृता।अतः तस्याः समासनिषेधः अपि नास्ति।
कर्तृकर्मणोः कृति (अष्टा.२.३.६५) इति सूत्रेण एषा षष्ठी जाता।कृदन्तेन सह योगे कर्तुः कर्मणः च षष्ठी भवति इति तस्य अर्थः।
उभयप्राप्तौ कर्मणि।(अष्टा.२.३.६६) इति सूत्रेण उभयोः कर्तृकर्मणोः प्राप्तिः अस्ति यस्मिन् कृत्प्रत्यये (बहुव्रीहिः), तत्र कर्मणि षष्ठी भवति।
शब्दानाम् अनुशासनम् इत्यत्र ‘अत्र केवलं शब्दानाम् अनुशासनम् अस्ति, नार्थादीनाम्’ इति एतावान् अर्थः विविक्षितः।कर्ता आचार्यः न विवक्षितः।अतः उभयप्राप्तिः नास्ति।तस्मात् कर्तृकर्मणोः कृति (अष्टा.२.३.६५)इति अनेन एव सूत्रेण अत्र षष्ठी भवति।तथा सति कर्मणि च इति समासनिषेधः अपि न प्रवर्तते।एवं शब्दानुशासनम् इति समासः अदुष्टः।

समाधानम् २
उभयप्राप्तौ कर्मणि एव षष्ठी भवेत्, न कर्तरि इति नियमः कुत्रचित् न भवति यथा स्त्रीप्रत्यययोः अक-अकारयोः नायं नियमः।अक-प्रत्ययान्तस्य स्त्रीलिङ्गे तथा अकार-प्रत्ययान्तस्य स्त्रीलिङ्गे अयं नियमः नास्ति इति अर्थः।काशिकाकारसय मतेन अयं नियमः सर्वत्र (अविशेषेण।स्त्रीप्रत्ययव्यतिरिक्तस्थलेषु अपि) ग्राह्यः।तेन उभयप्राप्तौ अपि कर्तरि षष्ठी सम्भवति।तेन शब्दानाम् अनुशासनम् आचार्यस्य इति साधुः प्रयोगः।अत्र षष्ठी कर्तृकर्मणोः कृति (अष्टा.२.३.६५)इति अनेन एव सूत्रेण कृता अतः समासनिषेधः नास्ति।

समाधानम् ३
शब्दानाम् अनुशासनम् इति अत्र ‘षष्ठी शेषे’ इति सूत्रेण षष्ठी मन्तव्या।तेन अपि समासनिषेधः परिहृतः भवति।यतो हि ‘कर्मणि च’(अष्टा.२.२.१४) इति सूत्रेण प्राप्तायाः षष्ठ्याः एव समासनिषेधः भवति।

आक्षेपः
अर्धमात्रालाघवेन पुत्रजन्मोत्सवं मन्यन्ते वैयाकरणाः।अत्र ‘अथ व्याकरणम्’ इति एतावता लघुना सूत्रेण कार्यसिद्धिः शक्या।तथापि अथ शब्दानुशासनम् इति दीर्घं सूत्रणं किमर्थम्?
समाधानम्
‘अथ व्याकरणम्’ इति एतावता ‘एतद् वेदाङ्गम् अस्ति’ इति अर्थः न बुद्ध्यते। ‘शब्दानुशासनम्’ इति शब्दस्य प्रयोगेण तस्य वेदाङ्गत्वं स्पष्टं भवति।अतः व्याकरणस्य वेदाङ्गत्वप्रतिपादनाय इदं दीर्घं सूत्रणम्।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्